SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ज्वर ३८७. (२) गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता । स्रोतो रोधो रुगल्पत्वं प्रसेको मधुरास्यता ॥ नात्युष्ण गात्रताच्छद्दिरङ्गसादोऽविपाकता । प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ॥ ( सुश्रुत ) Acharya Shri Kailassagarsuri Gyanmandir (३) स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता । शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि च ॥ गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्रता । प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ॥ ( डल्हण ) (४) विशेषादरुचिर्जाड्यं स्रोतो रोधोऽल्पवेगता । प्रसेको मुखमाधुर्ये हल्लेपश्वासपीनसाः ॥ हृलासश्छर्दनं कासः स्तम्भः चैत्यं त्वगादिषु । अङ्गेषु शीतपिटिकास्तन्द्रोदर्दः कफोद्भवे ॥ ( वृद्धवाग्भट ) (५) स्तैमित्यं मधुरास्यता च जडता तन्द्रा भ्रशं स्यात्तथा । गात्राणां गुरुतारुचिविरमता रोमोद्गमः शीतता ॥ प्रस्वेदाः श्रुतिरोधनं च भवते नेत्रे च पाण्डुच्छवी । विष्टब्धं मलवृत्तिकासवमनं श्लेष्मज्वरे ज्ञायताम् ॥ ( हारीत ) (६) निद्रालुता रुचिरतीव शिरोगुरुत्वं मन्दोष्मतातिमधुराननरोमहर्षाः । स्रोतावरोधनमिहाल्परुगक्षिपातछर्दि प्रसेकधवलाक्षिमलाननत्वम् ॥ अत्यङ्गसादनविपाकविहीनतातिका सातिपीनसकफोद्गमकण्ठकण्डूः । इलेष्मज्वरे प्रकटितानि च लक्षणानि ॥ ( उग्रादित्याचार्य ) (७) कासश्वासौ पीनसः कण्ठशोषो दाहो भ्रान्तिः श्वेतवर्णं बलासम् । तन्द्राकारं गौरवर्णं च गात्रं वाङ्माधुर्ये वारिपूरं सलालम् 11 चिन्ता भीतिर्विद्धितं मन्दवह्निं तापः स्वेदः शोफमूत्रं शिरोऽर्तिः । स्निग्धं गात्रं वर्धरं सारणं स्यात् हेतुश्लेष्मद्योतितोऽयं ज्वरः स्यात् ॥ ( वसवराज ) (८) स्तैमित्योत्क्लेदमाधुर्य प्रतिश्यायारुचिगौरवम् । कासालस्ये तृप्तिशौक्ल्यं शैत्यं श्लेष्मज्वराकृतिः ॥ ( अञ्जननिदान ) (९) अन्नारुचिर्गौरवमङ्गसादो रोमोद्गमो मूत्रनखादिशौक्ल्यम् । निद्राऽतिशैत्यं मधुरत्वमास्ये श्लेष्मज्वरे स्यात्स्तिमितो हि वेगः ॥ ( वैद्यविनोद ) चरक कफज्वर की उत्पत्ति में सहायकभूत हेतुओं का सङ्कलन निम्न वाक्य में कर दिया है : :-- स्निग्ध-गुरु-मधुर-पिच्छिल - शीताम्ल - लवण - दिवास्वप्न - हर्षा व्यायामेभ्योऽति सेवितेभ्यः श्लेष्मा प्रकोपमापद्यते । फिर इसकी सम्प्राप्ति निम्न शब्दों में स्पष्ट की है :--- स यदा प्रकुपितः प्रविश्यामाशयमुष्मणा सह मिश्रीभूय आद्यमाहारपरिणामधातुं रसनामानमन्ववेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पत्तिस्थानात् उष्माणं बहिर्निरस्य प्रपीडयन् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिर्वर्तयति । कहने का तात्पर्य यह है कि चिकने, भारी, चिपचिपे, ठण्डे, खट्टे, नमकीन पदार्थों के अत्यधिक प्रयोग से, दिन में सोने से, व्यायाम न करने से तथा अत्यधिक आनन्द मनाने से कफ प्रकुपित हो जाता है । यह प्रकुपित कफ जब आमाशय में पहुँचता है तो वहाँ जाठराग्नि के साथ मिश्रित हो जाता है और उसके अन्दर तैयार होने वाली आहार की प्रथम द्रव धातुरस का अनुगमन करता हुआ रसवह स्रोतस् जो नाभिकद से उत्पन्न हुए हैं उनमें तथा For Private and Personal Use Only
SR No.020004
Book TitleAbhinav Vikruti Vigyan
Original Sutra AuthorN/A
AuthorRaghuveerprasad Trivedi
PublisherChaukhamba Vidyabhavan
Publication Year1957
Total Pages1206
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy