SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० अभिधान संग्रह: - ६ अभिधानचिन्तामणि: । १४५ १५० 1 १५६ उषा दोषेन्दुकान्ताथ तमिस्रा दर्शयामिनी । ज्योत्स्ना तु पूर्णिमारात्रिर्गणरात्री निशागणः ॥ १४३ पक्षिणी पक्ष तुल्याभ्यामहोभ्यां वेष्टिता निशा । गर्भकं रजनीद्वन्द्वं प्रदोषो रजनीमुखम् || १४४ यामः प्रहरो निशीथस्त्वर्धरात्रो महानिशा । उच्चन्द्रस्त्वपररात्रस्तमिस्रं तिमिरं तमः ॥ ध्वान्तं भूछायान्धकारं तमसं समवान्धतः । तुल्यनक्तंदिने काले विषुवद्विषुवं च तत् ॥ पञ्चदशाहोरात्रः स्यात्पक्षः स बहुलोऽसितः । तिथिः पुनः कर्मवाटी प्रतिपत्पक्षतिः समे || पञ्चदश्यौ यज्ञकालौ पक्षान्तौ पर्वणी अपि । तत्पर्वमूलं भूतेष्टापञ्चदश्योर्यदन्तरम् ॥ स पर्व संधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । पूर्णिमा पौर्णमासी सा राका पूर्णे निशाकरे || कलाहीने त्वनुमतिर्मार्गशीर्ष्याग्रहायणी । अमामावस्यमावस्या दर्शसूर्येन्दुसंगमः || अमावास्यामावासी च सा नष्टेन्दुः कुहुः कुद्धः । दृष्टेन्दुस्तु सिनीवाली भूतेष्टा तु चतुर्दशी ॥ १५१ पक्षो मासो वत्सरादिमर्गशीर्षः संहः सहाः । आग्रहायणकचाथ पौषस्तैषः सहस्यवत् ॥ १५२ मात्रस्तपाः फाल्गुनस्तु फाल्गुनिकस्तपस्यवत् । चैत्रो मधुत्रिकच वैशाखे रामाधवौ || 1 १.५३ ज्येष्ठस्तु शुक्रोऽथापाढः शुचिः स्याच्छ्रावणो नभाः । श्रावणिकोऽथ नभस्यः प्रोष्टभाद्रपरः पैदः ।। १६४ भाद्रश्चाप्याश्विने वाश्वयुजेषावथ कार्तिकः । कार्तिकिको बाहुलोर्जी द्वौ द्वौ मार्गादिकावृतुः ॥ १५५ हेमन्तः प्रशलो रौद्रोऽथ शैपशिशिरौ समौ । वसन्त इष्यः सुरभिः पुष्पकालो बलाङ्गकः ॥ उष्ण उष्णागमो ग्रीष्मो निदाघस्तप ऊष्मकः । वर्षास्तपात्ययः प्रावृण्मेघकालागमौ क्षरी ॥ शरद्धनात्ययोऽयनं शिशिराद्यैस्त्रिभिस्त्रिभिः । अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ स संपर्यनृद्भथो वर्षे हायनोऽब्दं समाः शरत् । भवेत्वैत्रं त्वहोरात्रं मासेनाब्देन दैवतम् ॥ दैवे युगसहस्रे द्वे ब्राह्मं कल्पौ तु तौ नृणाम् । मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः । संवर्तः परिवर्तश्च समसुप्तिर्जिहानकः ॥ १६१ तत्कालस्तु तदात्वं स्यात्तज्जं सांदृष्टिकं फलम् । आयतिस्तूत्तरः काल उदर्कस्तद्भवं फलम् ॥ १६२ व्योमन्तरिक्षं गगनं घनाश्रयो विहाय आकाशमनन्तपुष्करे । अभ्रं सुराम्रोडुमरुत्पथोऽम्बरं खं द्योदियौ विष्णुपदं वियन्नभः ॥ नभ्राट्तडित्वान्मुदिरो घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः । जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जैलात् ॥ कादम्बिनी मेवमाला दुर्दिनं मेघजं तमः । आसारो वेगवान्वर्षो वातास्तं वारि शीकरः ॥ वृष्टयां वर्षणवर्षे तद्विने ग्राग्रहाववात् । घनोपलस्तु करकः काष्टाशा दिग्वरित्ककुप् ॥ पूर्वा प्राची दक्षिणपाची प्रतीची तु पश्चिमा। अपराधोत्तरोदीची विदिक्चोपदिशं प्रदिक् ॥ १६७ दिश्यं दिग्भववस्तुन्यपागपाचीनमुदगुदीचीनम् । प्राक्प्राचीनं च समे प्रत्यक्तु स्यात्प्रतीचीनम् ॥ १५७ १५८ १५९ १६० १६४ १६५ १६६ For Private and Personal Use Only १४६ १४७ १४८ १४९ १६३ १६८ १. निःसंपातोऽपि. २. संतमसम्, अवतमसम्, अन्धतमसम् ३. यौगिकत्वात् 'मार्गः '. ४. अदन्तः. ५. प्रोष्ठपदः, भाद्रपदः ६. 'वरिपा' इत्यपि ७ मेघशब्दस्य प्रत्येकमन्वयः ८. संवत्सरः परिवत्सरः, अनुववत्सरः, उद्वत्सरः. ९ अन्तरीक्षमित्यपि १०. 'पथ'शब्दः सुरादिभिः संबध्यते यौगिकत्वात् देववर्त्म, मेघवर्त्म, नक्षत्रवर्त्म, वायुवर्त्म, इत्यादय: ११. जलशब्दस्य वाहादिभिरन्वयः; यौगिकत्वात् वारिवाहः, वारिदः, वारिमुक् वारिधरः इत्यादय: १२. अवशब्दस्य ग्राहग्रहाभ्यामन्वयः १३. अवाचीत्यपि.
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy