SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ तिर्यकाण्डः। वङ्गं त्रपुः स्वर्णजनागजीवने मृद्वङ्गरङ्गे गुरुपत्रपिञ्चटे । स्याञ्चक्रसंज्ञं तमरं च नागजं कस्तीरमालीनकसिंहले अपि ॥ १०४२ स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकं. ___खरं च हिमांशुहंसकुमुदाभिख्यं सुवर्ण पुनः । स्वर्ण हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरैगाङ्गेयरुक्माण्यपि ॥ १०४३ कलधौतलोहोत्तमवह्निवीजान्यपि गारुडं गैरिकजातरूपे । तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तवरकर्बुराणि ॥ १०४४ जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् । हिरण्यकोशाकुप्यानि हेम्नि रूप्ये कृताकृतेः ॥ १.०४५ कुष्यं तु तहयादन्यहूप्यं तद्यमाहतम् । अलंकारसुवर्णं तु शृङ्गी कनकमायुधम् ॥ १०४६ रजतं च सुवर्ण च संश्लिष्टे घनगोलकः । पित्तलारेऽधारकूटः कपिलोहं सुवर्णकम् ॥ .., १०४७ रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् । ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥ १०४८ कांस्ये विद्युत्प्रियं घोषं प्रकाशं वङ्गशुल्वजम् । घण्टाशब्दमसुराहं रवणं लोहज मलम् ॥ १०४९ सौराष्ट्र के पश्चलोहं वर्तलोहं तु वर्तकम् । पारदः पारतः सूतो हरबीजं रसश्चलः ॥ १०५० अभ्रकं स्वच्छपत्रं खं मेघाख्यं गिरिजामले । स्रोतोञ्जनं तु कापोतं सौवीरं कृष्णयामुने ॥ १०५१ अथ तुत्थं शिखिग्रीवं तुत्थाञ्जनमयूरके । मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् ॥ १०५२ स्यात्तु कर्परिकातुत्थममृतासङ्गमञ्जनम् । रसगर्भ तार्यशैलं तुत्थे दारिसोद्भवे ॥ १०५३ पुष्पाञ्जनं रीतिपुष्पं पौष्पकं पुष्पकेतु च | माक्षिकं तु कदम्बः स्याचक्रनामाजेनामके ॥ १०५४ ताप्ये नदीनः कामारिस्तारारिविटमाक्षिकः । सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती॥१०५५ आढकी तुबरी कंसोद्भवा काक्षी मृदाह्वया । कासीसं धातुकासीसं खेचरं धातुशेखरम् ॥ १०५६ द्वितीयं पुष्पकासीसं कंसकं नयनौषधम् । गन्धाश्मा शुल्वपामाकुष्टॉरिर्गन्धिकगन्धकौ ॥ १०५७ सौगन्धिकः शूकपुच्छो हरितालं तु पिञ्जरम् । विडालकं विस्रगन्धि खजूरं वंशपत्रकम् ॥ १०५८ आलपीतनतालानि गोद॑न्तं नटमण्डनम् । वङ्गारिलॊमहृच्चाथ मनोगुप्ता मनःशिला ॥ १०५९ करवीरा नागमाता रोचनी रसनेत्रिका | नेपाली कुनटी गोला मनोबा नागजिविका ॥ १०६० सिन्दूरं नाग नागं रक्तं शृङ्गारभूषणम् । चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गुलः ।। १०६१ शिलाजतु स्यागिरिजमर्थ्य गैरैयमश्मजम् । क्षारः काचः कुलाली तु स्याच्चक्षुष्या कुलस्थिका॥१०६२ बोलो गन्धरसः प्राणः पिण्डो गोपरस: शशः । रत्नं वसु मणिस्तत्र वैदूर्य बालवायजम् ॥ १०६३ मरकतं त्वमगर्भ गारुत्मतं हरिन्मणिः । पद्मरागे लोहितकलक्ष्मीपुष्पारुणोपेलाः ॥ १०६४ नीलमणिस्त्विन्द्रनीलः सूचीमुखं तु हीरकः । वरारकं रत्नमुख्यं वपर्यायनाम च ॥ १०६५ विराटजो राजपट्टो राजावर्तोऽथ विद्रुमः । रक्ताङ्को रक्तकन्दश्च प्रवालं हेमकन्दलः ॥ १०६६ सूर्यकान्तः सूर्यमणिः सूर्याइमा दहनोपलः । चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ १०६७ १. चपलोऽपि. २. वैष्णवोऽपि. ३. अरिशब्दः शुल्वादिभिरन्वेति. ४. गोपित्तमपि. ५. नेपाल्यपि. ६. शृङ्गारमपि. ७. हिङ्गलुरपि. ८. गोपो रसोऽपि. ९. शोणरत्नमपि. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy