SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० अभिधान संग्रहः -- ६ अभिधानचिन्तामणिः | १४५ १४६ १४७ १४८ १४९ १५० उषा दोषेन्दुकान्ताथ तमिस्रा दर्शयामिनी । ज्यौत्नी तु पूर्णिमारात्रिर्गणरात्री निशागणः ॥ १४३ 1 पक्षिणी पक्ष तुल्याभ्यामहोभ्यां वेष्टिता निशा । गर्भकं रजनीद्वन्द्वं प्रदोषो रजनीमुखम् ॥ १४४ यामः प्रहरो निशीथस्त्वर्धरात्रो महानिशा ।। उच्चन्द्रस्त्वपररात्रस्तमिस्रं तिमिरं तमः ॥ ध्वान्तं भूछायान्धकारं तेमसं समवान्धतः । तुल्यनक्तंदिने काले विषुवद्विषुवं च तत् ॥ पञ्चदशाहोरात्रः स्यात्पक्षः स बहुलोऽसितः । तिथिः पुनः कर्मवाटी प्रतिपत्पक्षतिः समे ॥ पञ्चदश्यौ यज्ञकालौ पक्षान्तौ पर्वणी अपि । तत्पर्वमूलं भूतेष्टापञ्चदश्योर्यदन्तरम् || स पर्व संधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । पूर्णिमा पौर्णमासी सा राका पूर्णे निशाकरे || कलाहीने त्वनुमतिर्मार्गशीर्ष्याग्रहायणी । अमामावस्यमावस्या दर्शसूर्येन्दुसंगमः ॥ अमावास्यामावासी च सा नष्टेन्दुः कुहुः कुहूः । दृष्टेन्दुस्तु सिनीवाली भूतेष्टा तु चतुर्दशी ॥। १५१ पक्षो मासो वत्सरादिमर्गशीर्षः हः सहाः । आग्रहायणिकचाथ पौषस्तैषः सहस्यवत् ॥ १५२ माघस्तपाः फाल्गुनस्तु फाल्गुनिकस्तपस्यवत् । चैत्रो मधुश्चैत्रिकच वैशाखे राधमाधवौ || १५३ ज्येष्ठस्तु शुक्रोऽथाषाढः शुचिः स्याच्छ्रावणो नभाः । श्रावणिकोऽथ नभस्यः प्रोष्ठभाद्रपरः पैदः ॥ १५४ भाद्रश्चाप्याश्विने त्वाश्वयुजेषावथ कार्तिकः । कार्तिकिको बाहुलोर्जी द्वौ द्वौ मार्गादिकावृतुः ॥ १५६ हेमन्तः प्रशलो रौद्रोऽथ शैषशिशिरौ समौ । वसन्त इष्यः सुरभिः पुष्पकालो बलाङ्गकः || १५६ उष्ण उष्णागमो ग्रीष्मो निदाघस्तप ऊष्मकः । वर्षास्तपात्ययः प्रावृण्मेघकालागमौ क्षरी ॥ शरद्धनात्ययोऽयनं शिशिराद्यैस्त्रिभिस्त्रिभिः । अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ स संपर्यनूद्भयो वर्षं हायनोऽब्दं समाः शरत् । भवेत्पैत्रं त्वहोरात्रं मासेनाब्देन दैवतम् ।। दैवे युगसहस्रे द्वे ब्राह्मं कल्पौ तु तौ नृणाम् । मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः । संवर्तः परिवर्तश्च समसुप्तिर्जिहानकः ॥ १६१ तत्कालस्तु तदात्वं स्यात्तज्जं सांदृष्टिकं फलम् । भयतिस्तूत्तरः काल उदर्कस्तद्भवं फलम् ॥ १६२ व्योर्मान्तरिक्षं गगनं घनाश्रयो विहाय आकाशमनन्तपुष्करे । अभ्रं सुराम्रोडुमरुत्पथोऽम्बरं खं द्योदिवौ विष्णुपदं वियन्नभः॥ नभ्राट्तडित्वान्मुदिरो घनाघनोऽभ्रं धूमयोनिस्तनयित्नुमेघाः ।मं जीमूतपर्जन्यबलाहका घनो धाराधरो वाहदमुग्धरा जैलात् ॥ कादम्बिनी मेघमाला दुर्दिनं मेघजं तमः । आसारो वेगवान्वर्षो वातास्तं वारि शीकरः ॥ वृष्टयां वर्षणवर्षे तद्विघ्ने ग्राहमहावैवात् । धनोपलस्तु करकः । काष्ठाशा दिग्धरित्ककुप् ॥ पूर्वा प्राची दक्षिणपाची प्रतीची तु पश्चिमा। अपराथोत्तरोदीची विदिक्चोपदिशं प्रदिक् ॥ १६७ दिश्यं दिग्भववस्तुन्यपागपाचीनमुदगुदीचीनम् । प्राक्प्राचीनं च समे प्रत्यक्तु स्यात्प्रतीचीनम् ॥ १५७ १५८ १५९ १६० १६४ १६५ १६६ For Private and Personal Use Only १६३ १६८ १. नि:संपातोSपि. २. संतमसम्, अवतमसम्, अन्धतमसम्. ३. यौगिकत्वात् 'मार्गः '. ४. अदन्तः. ५. प्रोष्ठपदः, भाद्रपदः. ६. 'वरिषा' इत्यपि. ७. मेघशब्दस्य प्रत्येकमन्वयः वत्सरः, उद्वत्सरः. ९ अन्तरीक्षमित्यपि १० 'पथ' शब्द: सुरादिभिः संबध्यते; नक्षत्रवर्त्म, वायुवर्त्म, इत्यादयः ११. जलशब्दस्य वाहादिभिरन्वयः; यौगिकत्वात् वारिवाहः, वारिदः, वारिमुक्, वारियरः, इत्यादयः. १२. अवशब्दस्य ग्राहग्रहाभ्यामन्वयः. १३. अवाचीत्यपि. ८. संवत्सरः, परिवत्सरः, अनुवयौगिकत्वात् देववर्त्म, मेघवर्त्म,
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy