________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभय रत्नसार।
कदाचिदुपयासि न राहुगम्यः, स्पष्टीकरोषि सहसा युगपज्जगन्ति। नाम्भोधरोदर-निरुद्धमहा-प्रभावः, सूर्यातिशायि-महिमाऽसि मुनीन्द्र लोके ॥ १७॥ नित्योदयं दलित-मोह-महा. न्धकार, गम्यं न राहु-बदनस्य न वारिदानाम् । विभ्राजते तव मुखाजमनल्प कान्ति, विद्योतयज्जगदपूर्व-शशाङ्क-बिम्बम् ॥ १८ ॥ कि शर्वरीषु शशिनाऽह्नि विवस्वता वा, युष्मन्मुखेन्दुदलितेषुतमस्सुनाथ ? । निष्पन्न-शालि-वन-शालिनि जीव-लोके, कार्य कियज्जलधरैजल-भारनम्र ? ॥ १६ ॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फु रन्मणिषु याति यथा महत्त्वं, नैवं तु काच-शकले किरणाकुलेऽपि ॥ २० ॥ मन्ये वरं हरि-हरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति। किं वीक्षितेन भवता भुवि येन नान्यः, कश्चिन्मना हरति नाथ ! भवान्तरेऽपि ॥२१॥
For Private And Personal Use Only