SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 210.1 AmAlamkara स्थायिभावविभावानुभावानां लक्षणान्यतः स्वरूपलक्षणाशुक्तिः सात्विकव्याभिचारिणं ॥ ४८ ॥ शृंगारे रतिभावोक्तिर्नायिकाभेदवर्णनं । नायकानामथो भेदकथनं हाववर्णनं ॥ ४९ ॥ विप्रलंभस्य कथनं दशावस्थानिरूपणं ॥ ततो हास्यादिमायांतरसानां वर्णनं क्रमात् ॥ १५० ॥ ततो भक्तिरसस्योक्तिर्व्यवस्थारसभावयोः ॥u निरूपणं ततश्वात्र रीतिनृत्योः सुविस्तरात् ॥ ५१ ॥ ततः काव्यव्यवस्थायां शब्दार्थविनिरूपणं । संदर्भोक्तिस्ततोमादिगुणरूपनिरूपकं ॥ ५२ ॥ अलंकारा गुणा दोषा ततश्वोक्ता अनुक्रमात् । नामग्रामादिकथनं तात ज्ञात्योस्तथाकवेः ॥ ५३ ॥ समाप्तेः कथनं पश्वा (द) वर्षमासादिकोक्तिभिः । सज्जनास्याप्यदुष्टस्य स्वभावोक्तिस्ततः परं ॥ ५४ ॥ अनुक्रमोक्तिरेतस्य ग्रंथस्यात्रास्य नंतरं । प्रार्थना विदुषां पश्वात्कृष्णायै तत्समर्पणं ॥ १५५ ॥ एते ग्रंथेत्र वृत्तांता वर्त्तते विनिरूपिताः । संक्षेपादप्रयत्नेन बालव्युत्पत्तिहेतवे ॥ १५६ ॥ युक्तं स्याद्रचितमिहाथवाप्ययुक्तं । सोढव्यं तदखिलमेवसूरिभिर्मे ॥ अन्येषां गुणमणुमप्यदुच्चचित्ताः । केप्युच्चैस्तरमभिकुर्वते हि संतः ॥ १५७ ॥ परोपकाराय मया निबद्धा मनोरमा या रसदीर्घिकेयं 12103 विनिर्मितौ स्यात्सुकृतं यदस्यास्तदस्तु कृष्णार्पणमक्षयं मे ॥ १५८ ॥ इति श्रीरसदीर्घिकायां व्यवस्थानिरूपणं नाम पंचम सोपानं ॥ 11 ॥ समाप्तोयं ग्रंथः ॥ लिखितमेतत्पुस्तं यौः साधिवासिना गौड ब्राह्मणेन सुधिया - मररामेण महानंदपाठकस्य पौषकृष्णचतुर्थ्यां सोमवासरायां ॥ जयपुरमध्ये ॥ ॥ श्रीभवतु ॥ श्री ॥ श्री ॥ श्री ॥ References.— 1 Mss - Aufrecht i, 4952 ; ( refers to this Ms only.) 2 S. K. De also refers to this Ms alone in his Sanskrit Poetics, p. 311.
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy