SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 96.1 A-Alamkara to: जयंति गिरिजापतेश्वरणरणवो येन्वहं । वहंत्यखिलमुज्ज्वलव्रतति संतते/जतां । धृता हरिसुरेश्वरप्रभृतिभिः स्वमौलिस्थले। सतां कनकवत्तप्तां विमलयंति ये मानसं ॥३॥ अपि पंचबाणमित्रा गौरीमुखसाम्यलेशलोभेन । मौलो सदा मृगाकं कलयन् कल्याणकेलयेस्तुशिवः ॥४॥ विधातुकामः सुकृतं गरीयः क्षमातलं स्वर्गइवावतीर्णः आलंबनं सर्वविशेषणानां जयंत्यखंडस्थितिरांध्र देशः॥५॥ फलमिव सुकृतानां लोकधाव्याः समग्रं। विगलितमिव भूमौ नाकलोकस्य खंडं ॥ नगरमतिगरीयः सर्वसंसारसारः । त्रिभुवनगिरिनाम्ना तत्र विख्यातमास्ते ॥६॥ तत्राभवत्सकलशास्त्रविचित्रपात्रं । श्रीवत्सगोत्रसुरकाननपारिजातः ।। अन्यद्विधातुमवलंबसमाप्तवाचां। रामेश्वरः कलिकलंक कथांतरायः॥७॥ आसीत्प्रमाणपदवाक्यविचारशीलः । साहित्यसूक्तिबिसिनीकलजाग्रहंसः॥ ब्रह्मास्तग्रहणनाटितलोभवृत्ति(:)। तस्यात्मजो निपुणधीनरसिंहभट्टः॥८॥ तस्मादचिंत्यमहिमा महनीयकार्तिः । श्रीमल्लिनाथ इति शास्त्रमतिबभूव ॥ यः सौमयागविधिना कलिचंडनाभिरद्वैतसिद्धमिव सत्ययुगं चकार ॥९॥ लक्ष्मीरिव पुरारातेः पुरारातेरिवांबिका । यस्य धर्मवधरासीन्नागमे त्रिगुणोज्ज्वला ॥१०॥ ज्येष्ठस्तदीयतनयो विनयोर्जितश्री रायणोभवदशेषनरेंद्रमान्यः ॥ वाग्देवता कमलयोरपि यस्य गो। सीमाविभागकलहो न कदापि शांतः ॥११॥ विरंचेः पर्यायो भुवि सदयतारः फणिपते. त्रिदोषो देवानां सकलगुणमाणिक्यजलधिः अवाचां प्राचां वा सकलविदुषां मौलिकुसुम कनीयांस्तत्सूनुर्जयति जयशाली नरहरिः ॥१२॥
SR No.018123
Book TitleDescriptive Catalogue Of Manuscripts Vol 12
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages510
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy