SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ C. Hemacandra इह तावत्सुगृहीतनामधेयप्रभुश्रीहेमचंद्राचार्यैः स्वोपज्ञलीस्कृतशब्दानुशासनबृहद्वृत्तिप्रांते सप्तपंचाशन्न्यायाः समुच्चीयंते स्म। तेषां चानित्यत्वमपेक्ष्य व्याख्योदाहरणज्ञापकानामेव प्रज्ञापनी कनीयसी टीका कैश्चित्प्राचीनानूचानैश्चके। सांप्रतं तु पूर्वसमुचितानां सप्तपंचाशतः स्वसमुचितानां च चतुरशीतिन्यायानां सूत्रोद्देशपूर्व व्याख्याप्रयोजनोदाहरणज्ञापकानि यथायोगमनित्यतां तज्ज्ञापकं च प्रत्याययितुमियं न्यायसंग्रहनानो न्यायसूत्रस्य न्यायार्थमंजूषानाम्नी बृहद्वृत्तिर्वितन्यते । Ends - श्रीसूरीश्वरसोमसुंदरगुरोनिश्शेषशिष्याग्रणीगजेंद्रः प्रभुरनशेखरगुरुर्देदीप्यते सांप्रतं । तच्छिष्यावहेमहंसगणिमा न्यायार्थमंजूषिकावक्षस्कार इहातिमोबुधिमितः सन्न्यायरत्नैर्भूतः ॥४॥ श्रीमच्चांद्रकुले पुराऽजनि जगञ्चंद्रो गुरुयंस्तपाचार्यख्यातिमवाप तीव्रतपसा तस्यान्वयेऽजायत । प्रौढः श्रीवरदेवसुंदरगुरुस्तत्पट्टपूर्वागिरेः शृंगे श्रीप्रभुसोमसुंदरगुरुर्भानुर्नवीनोऽभवत् ॥ ७ ॥ यतः । भानोर्भानुशतानि षोडश लसंत्येकन मास्याविने यच्छिष्यास्तु ततोऽधिका अपि महीमुद्योतयंते सदा । तस्याहं चरणावुपासिपि सदा श्रीमत्तपागच्छप क्षोणीविश्रुतसोमसुंदरगुरोश्चारित्रचूडामणे)॥८॥ भपि च । मारिन निवारिता सुरकृता संसूज्य शांतिस्तवं स श्रीमान्मुनिसुंदराभिधगुरुर्दीक्षागुरुमेंऽभवत् । यस्य श्यामसरस्वतीति बिरुदं विख्यातमुर्वीतले गुवीं श्रीजयचंद्रसूरिगुरुरप्याधात् प्रसत्तिं स मे ॥ ९॥ सांप्रतं तु जयंति श्रीरत्नशेखरसूरयः । नानाग्रंथकृतस्तेऽपि पूर्वाचार्यानुकारिणः ॥ १०॥ एतानाचार्यहर्यक्षान् प्रत्यक्षानिव गौतमान् । वीतमायं स्तुवे स्फीतश्रीतपागच्छनायकान् ॥ ११ ॥ किं च। हैमव्याकरणं महार्णवमिव व्यालोड्य मंजूषिकासंपूर्तिप्रमितान्यऽमून्यधिनवं सन्न्यायरत्नानि यत् । तत्सर्व यदवाप्तबोधकणिकासिद्धौषधीजंभितं विद्यासिद्धमिमं हृदि प्रणिदधे चारित्ररत्नं गुरुं ।। १२ ॥
SR No.018105
Book TitleDescriptive Catalogue Of Manuscripts Vol 02
Original Sutra AuthorN/A
AuthorShripad Krishna Belvalkar
PublisherBhandarkar Oriental Research Institute
Publication Year1983
Total Pages366
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy