SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ 504 Jain Education International Rajasthan Oriental Research Institute, Jodhpur. (Jaipur Collection) 1 बालचापलमेव । मतशब्दस्य तादृश समुदायबोधकत्वाभावात् मतं नाम सिद्धान्तेषु वैलक्षण्यबोद्धव्यशैव वैष्णवमित्यादि । न तथाऽत्र जैनशासने खरतर लक्कादीनां तपागच्छतः सिद्धांत वैलक्षण्यम् । न च सूत्रभेदः । अथ यदि समान एवागमे मतशब्दस्याचार्याभिप्रायमात्रवाचकत्वमादाय तपागच्छतः खरतरलक्कादीनां धर्मविशेषवैलक्षण्यसम्मतिकारित्वान्मतानीत्युच्यते चेत्तदपि बालिशप्रलपितम् । यतः खरतर - लक्कादीनां सूत्रोक्तधर्मेषु न किमपि वैलक्षण्यं, सम्मतं यथोक्ताचरितत्वात् । प्रत्युत तपागच्छीयैरेवानन्तसंसारकारकमुत्सूत्रं - धर्मवैलक्षण्यसम्मती कृतम् । तथाहि तरुणस्त्रीकर्तृकमूलनायक प्रतिमापूजा प्रज्ञापनासूत्रे निषिद्धापि तपागच्छीयं सम्मती क्रियते । तथा पर्व तिथिकल्याणमन्तरा पौषधं स्थाप्यते, तदपि सूत्रकृताङ्गसूत्रेषु निषिद्धत्वादुत्सूत्रम् । एवं बहुविधधर्मवैलक्षण्यं तेषा सम्मतमस्ति, विस्तरभयान्नोपदर्शितम् । द्वा, तदुक्त तत्वमप्यस्तु को दोष: ? श्रागमानुपात्याचार्याभिप्राय विशेषस्य प्रामाणिकतयाभ्युपगमात् । श्रतएव असणमित्यादि गाथा । यदपि तद्वाक्यात तपागच्छो न मतमिति प्रतीयते तदपि युक्तम् । भवत्सदृशवाचाटसमुदाये कथमिव मतत्वं गच्छत्वं वा स्यात, । अस्तु वा गच्छत्वं समुदायमानत्वात् श्रवधिगच्छवत | मतत्वं सुतरां न सम्भवति । तादृग्विशिष्टाचार्याभावप्रयुक्ताभिप्रायत्वात् अथक् प्रलपनं मुक्तमेव पीतवाससां नाम संवेगिनाम् । मतस्तेहि कदाग्रहग्रहिलमनसो भगवदागमनिर्णीतमपि लिङ्गालिङ्गादिविभावं पृष्टतयावमन्यन्तः साध्वाभासाः वयमेव पञ्चमहाग्रतधराः यथार्थवादन इत्यादि वितथवचनाडम्वरेणाहनिशं मुग्धजनान् प्रतारयन्तः स्वसमानासर्हता मदाज्ञा विराधकतां च तिरोदधते । नहीदृशैः साकं वाक्सम्बन्धमपि कर्तुं साम्प्रतम् । नच नैते यशोविजयपथिनस्तीर्थ कराज्ञाविराधकः इति वाच्यम् । पीतवसनत्वेन तस्य स्फुटं प्रतीयमानत्वात् । तथाहि भगवत्यां 'लिंगंतरे हि' इत्युपक्रम्य 'करवा मोहणिज्जं कम्मंवेदति' इत्युक्तम् । अत्राऽमयदेवसूरयः For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy