SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ । 69 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) नत्वा दधिमथीं देवीं सच्चिदानन्दरूपिणीम् । वक्ष्ये तदष्टकस्तोत्रं सर्वसिद्धिप्रदायकम् ॥२॥ नानामंत्राश्च यन्त्राश्च (णि) तीर्थदानवतादयः । न शीघ्र सिद्धिदा लोके कलौ दधिमथिं विना ।।३।। काली तारा महाविद्या षोडशी भुवनेश्वरी। बगला छिन्नमस्ता च विद्या धूमावती तथा ॥४॥ मातंगिका भैरवी च विद्या दश प्रकीर्तिताः । एता दशमहाविद्या दर्शनस्य फलं तु यत् ।।५।। दधिमत्याःकपालस्य दर्शनादेव जायते । यत्फलं दशविद्यानां दर्शनेषु पृथक् पृथक् ॥६॥ तत्फलं दधिमत्या: श्रीकपालस्य च दर्शने । ग्रहो भाग्यमहो भाग्यं मरुस्थलनिवासिनाम् ।।७।। एषा दधिमथी देवी प्रत्यहं दृष्टिगोचरा। यत्तप्तसुमहातापं मरुभूम्यां निसर्गतः ।।८।। तत्पुण्यस्य प्रभावेन देवी दधिमथी स्थिता। भाग्यहीना न पश्यन्ति तत्कपालस्य दर्शनम् ।।६।। कपालमहिमा त्वेषा यत्कपालस्य दर्शनम् । गत्वा दधिमती देवी गन्तव्या नावशिष्यते ॥१०॥ अर्चयित्वा सकृत्तां तु कृतकृत्यो भवेन्नरः । ब्राह्मणः क्षत्रियो(या) वैश्याः शूद्राश्चावरवर्णजाः ॥ ये जपन्ति सदा नित्यं ददामि मनवांछितम् ।।११।। दधीचानां प्रसादार्थं गोष्ठमांगल्यसन्निधौ । प्रादुर्बभौ दधिमती मतिरेषा परात्परा ॥१२॥ इति दधिमथिस्तोत्रम् ॥ 326. रामचन्द्रपुष्पाञ्जल्यष्टकम् ॥ श्रीः ।। अथ श्रीरामचन्द्रपुष्पाञ्जल्यष्टकम् ।। दशमुखभंजन पापिविगंजन भक्तसुरंजन धर्मपते, अधिकृतसेतो खगपतिकेतो संसृतिहेतो सत्वमते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy