SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 3|1. रम्भाष्टकस्तोत्रम् ॥ श्रीगुणेशाय नमः ।। आश्चर्यमहिमाऋततारुणीनामनेकशृङ्गारमृगाक्षिणीनाम् । श्रीपुंसहीनं वनष(ख)ण्डसेवितं कथं हि भूत्वा मम धर्मनाशिनीम् ॥१॥ वसन्तमासे कुसुमाकुलाकुले वनान्तरं पुष्पनीरातरान्तम् । भोगान्तरं यः पुरुषो न सेव्यते वृथान्तरं तस्य नरस्य जीवनम् ।।२।। शुक उवाच वेदान्तरं शीलगुणान्तरान्तं ज्ञानान्तरं मोक्षपदान्तरान्तम् । योगान्तरं यः पुरुषो न सेव्यते वृथान्तरं तस्य नरस्य जीवनम् ॥३॥ रम्भा उवाच विशालनाभीकटिमण्डितान्तरं निरा (निरन्तरं) चन्दनचचितान्तरम् । गुह्यान्तरं यः पुरुषो न सेव्यते वृथान्तरं तस्य नरस्य जीवनम् ॥४॥ श्रीशुक उवाच उक्ताङ्गताङ्ग क्षणभङ्गयौवनं गुलोलविद्युद्वलचञ्चलां धनम् । त्रि(तृ)णाग्निबिन्दुप्रतनोदकं सदा रमन्ति मूढा विरमन्ति पण्डिताः ।।५।। रम्भा उवाच उत्तमस्थानवार्तुलिस्तनान्तरं मुक्तावलीहारसुशोभितान्तरम् । स्तनान्तरं यः पुरुषो न सेव्यते वृथान्तरं तस्य नरस्य जीवनम् ॥६॥ शुक उवाच अमेध्यपूर्णे कृमिराससंकुले स्वभावदुर्गधिरसौ(शौ)चमन्दिरे । कलेवरे मूत्रपुरीषमन्दिरे रमन्ति मूढा विरमन्ति पण्डिताः ॥७॥ वैराग्यरम्भेद्गृधयंबिदारतो विनिर्गतो गन्धसुगन्धलेपनाम् ।। आगधरीमात विशालनीनां नचात्वरंभेन्मुकदेव जायते ।।६।। चलन्ति ताराः प्रचलन्ति मन्दिरं चलन्ति मेरुग्रहभास्करा यदि। कदापि काले पृथिवी चलन्ती शुकस्य वाक्यं न चलंति रम्भे ॥६॥ क्षण एकः सुकार्याय कल्पान्तरं नरकाय च । अचिराय शरीराय किमर्थं पापमाचरेत् ।। इति श्रीरम्भाष्टकं संपूर्ण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy