________________
नैयायिकग्रन्थाः] प्रमाणद्वयसाधकः शाब्दोपामनार्थापत्यभावाख्यप्रमाणचतुष्टयान्तर्भावसंसाधकः परिच्छेदचतुष्ट. योपेतोऽयं प्रमाणान्तभावनामधेयो बौद्धन्यायग्रन्थः । बृ. दर्शितं 'अपौरुषेयवेदनिराकरणं प्रत्यक्षानुमानाधिकप्रमाणनिराकरणं च यशोदेवसाधुकृतम्' नासाद् मिन्नं प्रतिभाति । श्रीहर्षस्य नामग्रहणादयं ग्रन्थकारस्तत्समकालीनोऽथवा तदुत्तरकालीन इति स्पष्टम् ।
नैयायिकग्रन्थाः।
तैयामिक ले. सं. १२०८ न्यायमीमांसा (?) क्र. २४२ अस्य ग्रन्थस्य सम्यङ् नाम नावबुध्यते । ही. सूच्या 'प्रमाणप्रमेयन्याय' इति नाम दर्शितम् । न्यायदर्शनभाष्यस्य काचिद् व्याख्या प्रतिभाति, व्याख्यातुर्नाम नावगम्यते ।
भाष्यवार्तिकटीका । अनिरुद्धः क्र. ९३(१) इयं भाष्यवार्तिकटीकाविवरणपञ्जिकानाम्ना प्रान्तोल्लेखे दर्शिता । भाष्यं स्वत्र न्यायदर्शनभाध्यं ज्ञायते । अनेन पण्डितेन विहिता भट्टिकाव्यटीकाऽन दर्शिता । सुप्रसिद्धा साङ्ख्यसूत्रवृत्तिश्चास्य कृतिञ्जयते।
न्यायमञ्जरीप्रन्थिभङ्गः । चक्रधरः क्र. ३२५(२) इयं न्यायमञ्जरी जयन्तभट्टकृता गौतमसूत्रतात्पर्यवृत्तिरवबुध्यते । तस्या ग्रन्थीनां विषमपदानां भङ्गकर्ताऽयं चक्रधरो भदृशङ्करात्मज इत्यतोऽधिकं नावगतम् । अस्मिन्नश्वघोषस्य राज्यपालनाटककर्तृस्वं प्रादर्शि। श्रीकण्ठन्यायटिप्पनकम्
पृ. ४८ सूचितं खल्वेतदुदयनविरचिताया न्यायतास्पर्थपरिशुद्धेः टीकारूपम् ।
न्यायालङ्कारटिप्पनम् । अभयतिलकोपाध्यायः पृ. ४७ पूर्वोक्तायाः श्रीकण्ठवृत्तरेतट्टिप्पनं पञ्चप्रस्थन्यायतर्कव्याख्येति संज्ञितम् । टिप्पनकारोऽभय. तिलकोपाध्यायो चतुर्दशशताब्दीप्रारम्भे विद्यमान आसीत् । सं. १३१२ वर्षेऽनेन
.
न्यायालय
१ प्रमाणान्तर्भावे शाब्दप्रमाणान्तर्भावः प्रथमः परिच्छेदः ।-H. प. १८
उपमानान्तर्भावो द्वितीयः परिच्छेदः।-H. प. १९ प्रमाणान्तर्गतौ तृतीयोऽर्थापत्तिपरिच्छेदः ।-H. प. २२
इत्यद्व(). प्रमाणान्तरुचिः(र्भावः) समाप्तः।-H. प. २६ २ “अथ कालान्तरत्वेन युक्तः सोऽर्थः प्रसाध्यते।
कालान्तरस्थिति व श्रीहर्षादेः प्रसिद्ध्यति ॥"-H. प. १६ ३ 'न्यायतकसूत्रं (१) भाष्य (२) वार्तिक (३) तात्पर्यटीका (४) तत्परिशुद्धि (५) न्यायालकारवृत्ति (६) पञ्चप्रस्थन्यायतर्काणि (क्रमशः) अक्षपाद-वात्स्यायन-भारद्वाज-वाचस्पतिउदयन-श्रीकण्ठ-अभयतिलकोपाध्यायकृतानि षडपि ५३००० ।-बृ०
"न्यायसूत्र-भाष्य-न्यायवार्तिक-तात्पर्यटीका-तात्पर्यपरिशुद्धि-न्यायालङ्कारवृत्तयः क्रमेणाक्षपाद-वात्स्यायनोद्योतकर-वाचस्पति-श्रीउदयन-श्रीकण्ठाभयतिलकोपाध्यायविरचिताः ५४०००।"
-षड्दर्शनसमुच्चयटीकायां गुणरत्नसूरिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org