________________ संखेञ्जय 66 - अभिधानराजेन्द्रः - भाग 7 संखेज्जय म्भाभ्यां योजनशतसहस्र, परिधिना तु- "परिही तिलक्खसोलस,सहस्स दो य सयसत्तवीसऽहिया / कोसतिय अट्ठवीस, धणुसय तेरंगुलऽद्धहियं / / 1 / / " इति गाथाप्रतिपादितमानो; जम्बूद्वीपप्रमाण इति भावः। अयं चाधस्ताद्योजनसहस्रमवगाढो द्रष्टव्यः, रत्नप्रभापृथिव्या रत्नकाण्ड भित्त्वा वजकाण्डे प्रतिष्ठित इत्यर्थः, स चैवंप्रमाणः, पल्यो जम्बूद्वीपवेदिकात उपरि सप्रशिखः सिद्धार्थानां सर्षपाणां भ्रियते, 'तओ णं तेहि' मित्यादि, इदमुक्तं भवति-ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एकः समुद्रे इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्यः कल्प्यते, अतएवाह- 'एसणं एव इए खेत्ते पल्ले' त्ति यावन्तो द्वीपसमुद्रास्तैः सर्षपैः 'अप्फुण्ण' ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्यः सर्षपभृतो बुद्ध्या परिकल्पत इत्यर्थः / ततः किमित्याह- 'पढमा सलाग' त्ति ततः शलाकापल्ये प्रथमशलाका-एकः सर्षपः प्रक्षिप्यत इत्यर्थः, 'एवइयाणं सलागाण असंलप्पा लोगा भरिय' त्ति लोक्यन्ते-केवलिना दृश्यन्त इति लोकाव्याख्यानादिह वक्ष्यमाणाःशलाकाः पल्यरूपा गृह्यन्ते, ते चैकदशशतसहस्रसलक्षकोटिप्रकारेण संलपितुमशक्या असंलप्याः अतिबहव इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृताः-पूरितास्तथाऽप्युत्कृष्ट संख्येयकन प्राप्रोति, आकण्ठपूरिता अपि हि लोकरूढ्या भृता उच्यनते, नचैतावतैवोत्कृष्ट संख्येयकं सम्पद्यते, किंतु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि सर्षपस्तत्रापरो माति तदा तद्भव-तीति भावः। ननु सप्रशिखतया सर्वथा अभृतमपि लोके किं भृत-मुच्यते? सत्यं, प्रोच्यतएव, तथा चात्रार्थे दृष्टान्तं दिदर्शयिषु-राह- यथा कोऽत्र दृष्टान्त्रः? इति शिष्येण पृष्ट सत्युत्तरमाह-तद्यथानाम कश्चिन्मञ्चः स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्त तन्मातमपरमपि प्रक्षिप्तं तदपि भातमन्यदपि प्रक्षिप्त तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलक येनासौ मञ्चौ भरिष्यति, यच तदुत्तरकालं तत्र मञ्चे न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षिप्तैर्यदा संलपितुमशक्या अतिबहवःसप्रशिखाः पल्या असत्कल्पनया भृता भवन्ति तदोत्कृष्ट संख्येयक भवतीत्यध्याहारो द्रष्टव्य इति तावदक्षरार्थः / / भावार्थस्त्वयम् - पूर्वनिदर्शितस्वरूपादनवस्थितपल्यादपरेऽपि जम्बूद्वीपप्रमाणा योजनसहस्रावगाढास्त्रयः पल्या बुद्ध्या कल्प्यन्ते, तत्र प्रथमः शलाकापल्यो, द्वितीयः प्रतिशलाकापल्यस्तृतीयो महाशलाकापल्यः / तत्रानवस्थितपल्यो भृतः शलाकापल्ये च प्रथमा शलाका प्रक्षिप्तेति पूर्वमादर्शितम, तदनन्तरं पुनरप्यनवस्थितपल्यसर्षपाः समुत्क्षिप्यैको द्वीपे एकः समुद्रे इत्येवं प्रक्षिप्यन्ते, तैश्च निष्ठितैः शलाकापल्ये द्वितीया शलाका प्रक्षिप्यते, सर्पपाश्च प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसानः पूर्वेण सह बृहत्तरोऽनवस्थितपल्यः सर्षपभृतः परिकल्प्यते, अत एवायमनवस्थितपल्य उच्यते, अवस्थितपल्यरूपाभावात्, पुनः सोऽप्युत्क्षिप्यै- | कैकसर्षपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शलाकापल्ये च तृतीया शलाका प्रक्षिप्यते, ते च सर्षपाः प्रक्षिप्यमाणा यत्र द्वीपे समुद्रे वा निष्ठितास्तत्पर्यवसानः पूर्वेण सह बृहत्तमोऽनवस्थितपल्यः सर्षपभृतः परिकल्प्यते। पुनः सोऽप्युत्क्षिप्य तेनैव क्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, शलाकापल्ये च चतुर्थी शलाका प्रक्षिप्यते, एवं यथोत्तरं वृद्धस्यानवस्थितपल्यस्य भरणरिक्तीकरणक्रमेण तावद् वाच्यं यावदेकै कशलाकाप्रक्षेपेण शलाकापल्यो भ्रियते, अपरां शलाकां न प्रतीच्छति, ततोऽनवस्थितपल्यो भृतोऽपि नोत्क्षिप्यते, किंतु शलाकापल्य एवोज्रियते, अयमप्यनवस्थितपल्याक्रान्तक्षेत्रात्परत एकैकसर्षपक्रमेण द्वीपसमुद्रेषु प्रक्षिप्यते, यदा च निष्ठितो भवति तदा प्रतिशलाकापल्यलक्षणे तृतीये पल्ये प्रथमा प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्यः समुरिक्षप्य समुत्क्षिप्य शलाकापल्ये निष्ठास्थानात्परतस्तेनैव क्रमेण निक्षिप्यते, निष्ठिते च तस्मिन् शलाकापल्ये शलाका प्रक्षिप्यते, इत्थं पुनरप्यनवस्थितपल्यपूरणरेचनक्रमेण शलाकापल्यः शलाकानां भ्रियते, ततोऽनवस्थितशलाकापल्ययो तयोः शलाकापल्य एवोत्क्षिप्य पूर्वोक्तक्रमेणैव निक्षिप्यते, प्रतिशलाकापल्ये च द्वितीया प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्यः समुद्धृत्य शलाकापल्यनिष्ठास्थानात्परतस्तेनैवन्यायेन प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्यस्यो क्षेपप्रक्षेपक्रमेण शलाकापल्यः शलाकानां भरणीयः। शलाकापल्या तूत्क्षेपविधिना प्रतिशलाकापल्यः प्रतिशलाकानां पूरणीयः, यदा च प्रतिशलाकापल्यः शलाकापल्योऽनवस्थितपल्यश्च त्रयोऽपि भृता भवन्ति तदा प्रतिशलाकापल्य एवोत्क्षिप्य द्वीपसमुद्रेषु तथैव प्रक्षिष्यते, निष्ठिते च तस्मिन् महाशलाकापल्ये प्रथमा महाशलाका प्रक्षिप्यते, ततः शलाकापल्य उत्क्षिप्य तथैव प्रक्षिप्यते, प्रतिशलाकापल्ये च प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्योत्क्षेपप्रक्षेपक्रमेण शलाकापल्यो भरणीयः, शलाकापल्योद्धरणविकिरणविधिना प्रतिशलाकापल्यः पूरणीयः, प्रतिशलाकापल्योत्पाटनप्रक्षेपणाभ्यां महाशलाकापल्यः पूरयितव्यः / यदा तु चत्वारोऽपि परिपूर्णा भवन्ति तदोत्कृष्ट संख्येयकं रूपाधिकं भवति / इह यथोक्तेषु चतुर्षु पल्येषु ये सर्षपा ये चानवस्थितपल्यशलाकापल्यप्रतिशलाकापल्योत्क्षेपप्रक्षेपक्रमेण द्वीपसमुद्रा व्याप्ता एतावत्संख्यमुत्कृष्टसंख्येयकमेकेन सर्षपरूपेण समधिक सम्पद्यत इति भावः / एतावद्भिश्च सर्षपैरसंलप्या लोकाः('लोक शब्दो दृष्टव्यः) शलाकापल्यलक्षणा भियन्त एवेति सूत्रविरोधेन भावनीयम् / इदं च तावदुत्कृष्ट संख्येयकम, जघन्य तु द्वौ, जघन्योत्कृत्टयोश्चान्तराले यानि संख्यास्थानानि तत्सर्वमजघन्योत्कृटम, आगमे च यत्र क्वचिदविशेषितं संख्येयकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्ट द्रष्टव्यम्। इदं चोत्कृष्ट संख्येयकमित्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहूनां समातिक्रान्तत्वात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति / उक्तं त्रिविधं संख्येयकम् / अनु०