SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ सावजचागरूव 788 - अभिधानराजेन्द्रः - भाग 7 सावजायरिय सावज्जचागरूव-त्रि०(सावद्यत्यागरूप) निखिलसपापव्यापारपरिहारस्वभावे, पञ्चा०५ विव०। सावज्जजोग-पुं०(सावद्ययोग) सकलनित्यकर्मणि,ध०३ अधि०) आ०म० साम्प्रतंसावद्यावयवव्याख्यानार्थमाहकम्ममवजं जंगर-हियं ति कोहाइणो व चत्तारि। सह तेहि जो उ जोगो, पचक्खाणं भवइ तस्स / / कार्म-अनुष्ठानमवद्यं भण्यते, किमविशेषेण? नेत्याह-यत् गर्हितमिति यन्निन्द्यमित्यर्थः। अथवा-क्रोधादयश्चत्वारोऽवद्यं तेषां सर्वावद्यहेतुतया कारणे कार्योपचारात् सह तेनावद्येन यो योगो व्यापारस्तस्य सावद्ययोगस्य प्रत्याख्यानं निषेधलक्षणं भवति। पाठान्तरम्- 'कम्म वजं जं गरहियं तत्र 'वृजी' वर्जने, वृज्यते इति वयं वर्जनीयं; त्यजनीयमित्यर्थः, शेषं पूर्ववत्, नवरं सह वर्जेन सवर्जः प्राकृतत्वात् सकारस्य दीर्घत्वे सावर्जमिति भवति। आ०म०१ अ०। सावज्जजोगपरिवजणा-स्त्री०(सावद्ययोगपरिवर्जना) सपापव्यापारपरिहारनिरवद्ययोगासेवायाम्, पञ्चा० 10 विव० सावजबहुल-त्रि०(सावद्यबहुल) पापभूयिष्ठे,दश०६ अ०। सावज्जा-स्त्री०(सावद्या) श्रमणसाधुनिश्राभेदेन सपापायां वसतो, . आचा०२ श्रु०१ चू०२ अ०२ उ०। ('वसहि' शब्दे षष्ठभागे सूत्रमुक्तम्।) सावज्जायरिय-पुं०(सावद्याचार्य) कुवलयप्रभाचार्य , ग०। श्रीमहानिशीथपञ्चमाध्ययनोक्तसावद्यचार्यस्यैव ज्ञेयम् / तथाहि-अस्या ऋषभादिचतुर्विंशतिकायाः प्रागनन्तकालेनयाऽतीता चतुर्विंशतिका, तस्यां मत्सदृशः सप्तहस्ततनुर्धर्मश्रीनामा चरमतीर्थकरो बभूव / तस्मिश्च तीर्थकरे सप्ताश्चार्याणि अभूवन्। असंयतपूजायां प्रवृत्तायामनेके श्राद्धेभ्यो गृहीतद्रव्येण स्वस्वकारितचैत्य-निवासिनोऽभूवन्। तत्रैको मरकतच्छविः कुवलयप्रभनामाऽनगारो महातपस्वी उग्रविहारी शिष्यगणपरिवृतः समागात्। तैर्वन्दित्वोक्तम्-अत्रैकं वर्षारात्रिकं चातुर्मासिकं तिष्ठ, यथा त्वदीया--ज्ञयाऽनेके चैत्यालया भवन्ति, कुर्वस्माकमनुग्रहम्, तेनोक्तंसावधमिदं नाहं वामात्रेणापि कुर्वे / तदेवमनेन भणता सतातीर्थकृन्नामकार्जितम्। एकभवावशेषीकृतश्च भवोदधिः। ततस्तैः सर्वेरकेमतं कृत्वा तस्य सावधाचार्य इति नाम दत्तं प्रसिद्ध नीतं च / तथाऽपि तस्य तेष्वीषदपि कोपो नाभूत् / अन्यदा तेषां लिङ्गामात्र-प्रव्रजितानां मिथः आगमविचारो बभूव / यथा श्राद्धानामभावे संयता एव मठदेवकुलानि रक्षन्ति पतितानि च समारचयन्ति / अन्यदपि यत्तत्र करणीयं तस्यापि करणे न दोषः। केऽप्याहुः-संयमो मोक्षनेता, केनिद् ऊचुः-प्रासादावतंसके पूजासत्कारबलिविधानादिना तीर्थोत्सर्पणेनैव मोक्षगमनम्। एवं तेषां यथेच्छं प्रलपतां विवादेऽन्य आगमकुशलो नास्ति कोऽपि यो विवाद भनक्ति / सर्व : सावधाचार्य एव प्रमाणीकृत आकारितो | दूरदेशात्सप्तभिर्मासैर्विहरन् समागात्। एकयाऽऽर्यया श्रद्धावशात् प्रदक्षिणीकृत्य झगिति मस्तकेन पादौ सट्टयन्त्या ववन्दे दृष्टस्तैर्वन्धमानः। अन्यदा स तेषामग्रे श्रुतार्थकथनेऽस्यैव महानिशीथस्य पञ्चमाध्ययनव्याख्याने आगतेयं गाथा, "जत्थित्थीकरफरिसं अंतरिय कारणे वि उप्पन्ने / अरिहा वि करिज्ज सयं, तं गच्छं मूलगुणमुक्कं / / 1 / / '' आत्मशङ्कितेन तेन चिन्तितं साध्वीवन्दनमतैर्दृष्ट मस्ति सावद्याचार्य इति नामपुराऽपि दत्तम्, साम्प्रतंतुयथार्थकथनेऽन्यदपि किमपि करिष्यन्ति, अन्यथा प्ररूपणे तु महत्याशातना अनन्तसंसारिता च स्याताम्, ततः किं कुर्वे / अथवा यद् भवति तद्भवतु यथार्थमेव व्याकरोमीति ध्यात्वा व्याख्याता यथार्था गाथा। तैः पापैरुक्तं यद्येवं तत् त्वमपि मूलगुणहीनो यतःसाध्व्या वन्दमानया भवान् स्पृष्टः, ततोऽयशोभीरुः सदध्यौ किमुत्तरं ददे / आचार्यादिना किमपि पापस्थानं न सेवनीयं त्रिविधं त्रिविधेन, यः सेवते सोऽनन्तसंसारं भ्राम्यति। तैर्विलक्षं दृष्ट्वोचे किंन वक्ष्यति। स दध्यौ किंवदामि। ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तम्-अयोग्यस्य श्रुतार्थो नदातव्यः "आमघडे निहत्तं,जहाजलं तं घड विणासेइ। इअ सिद्धंतरहस्सं, अप्पाहारं विणासेइ।।१।।" इत्यादि तैरुचे-किमसम्बद्धं भाषसे, अपसर दृष्टिपथात् / अहो त्वमपि संघेन प्रमाणीकृतोऽसि / ततस्तेन दीर्घसंसारित्वमङ्गीकृत्योक्तम्, उत्सर्गापवादैरागमः स्थितो यूयं न जानीथ। "एगतं मिच्छत्त, जिणाण आणा अणेगत्तं / तैधृष्टमानितं ततः स प्रशंसितः। स एकवचनदोषणानन्तसंसारित्वमुपाया॑ऽप्रतिक्रान्तो मृत्वा व्यन्तरो बभूव? ततश्च्युत्वोत्पन्नः प्रोषितपतिकायाः प्रतिवासुदेवपुरोहितदुहितुः कुक्षौ, कुलकलङ्कभीताभ्यां पितृभ्यां निर्विषयी कृता सा क्वापि स्थानमलभमाना दुर्भिक्षे कल्पपालगृहे, दासीत्वेन स्थिता मद्यमांसदोहदोऽस्याः सञ्जातः / बहूनां मद्यपायकानां भाजनेपूच्छिष्टे मद्यमांसे च भुक्ते कांस्यदूस्यद्रविणानि चोरयित्वाऽन्यत्र विक्रीय मद्यमांसे भुङ्क्ते गृहस्वामिना राज्ञो निवेदितम् / राज्ञा मारणाय प्रसूतिसमयं यावद्रक्षितुमर्पिता चण्डालानाम्। "अप्रसूता न हन्यते" इति तत्कुलधर्मत्वात्। प्रसूता बालकं त्यक्त्वा नष्टा। राज्ञा पञ्चसहस्रद्रविणदानेन बालः पालितः / क्रमात् सूनाधिपतौ मृते राज्ञा स एव तद्गृहस्वामी कृतः पञ्चशतानामीशः२, ततो मृत्वा सप्तमपृथिव्यां 33 सागरायुः३, तत उद्धृत्यान्तरद्वीपे एकोरुकजातिर्जातः, 4, ततो मृत्वा महिषः 26 वर्षायुः 5, ततो मनुष्यः 6, ततो वासुदेवः 7, ततः सप्तमपृथिव्यां 8, ततो गजकर्णो मनुष्यो मांसाहारी, ततो मृत्वा सप्तमपृथिव्यामप्रतिष्ठाने गतः 10, ततो महिषः 11, ततो बालविधवाबन्धकीब्राह्मणसुताकुक्षावुत्पन्नः, गर्भशातनपातनक्षारचूर्णयोगैरनेकव्याधिपरिगतोगलत्कुष्ठीकृमिभिर्भक्ष्यमाणो गर्भान्निर्गतः लोकैर्निन्द्यमानः क्षुधादिपीडितो दुःखी सप्तवर्षशतानि द्वौ मासौ चत्वारि दिनानि जीवित्वा 12, मृतो व्यन्तरेपूत्पन्नः 13, ततः सूनाधिपो मनुष्यः 14, ततः सप्तम्यां 15, ततश्चाक्रिकगृहे वृषभो बाह्यमानः क्वथितस्कन्धो मुक्तो गृहस्वामिना का---
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy