________________ सागारियपिंड 631 - अभिधानराजेन्द्रः - भाग 7 सागारियपिंड तत् शय्यातरस्यान्येषां च साधारणमिति साधारणवक्रयप्रयुक्तं जानीहि / अत्र यथा कल्पतं यथावान कल्पते तथा प्रतिपादयतिपीलिय घरेडियम्मि, पुव्वगमेणं तु गहणमहिछे। एगत्थ विक्कयम्मी, अमेलिया दिट्ठमन्नत्थ / / 28|| अन्यस्यान्यस्य तिलानेकत्र मीलयित्वा पीलयित्वा च तैले विरेचितेविभक्तीकृते पूर्वगमेन-पूर्वप्रकारेण शय्यातरेणादृष्ट ग्रहणं भवति, दृष्ट तु न कल्पते / मा प्रक्षेपक कुर्यादितो हेतोः, अन्यत्र ज्ञातं तु कल्पत एव, तथा पृथक् तिलान् पीलयित्वा च एकत्र विक्रीणन्ति तत एकत्र विक्रय यावन्मूल्यं मिलितम्-अविभक्त-मित्यर्थस्तावन्न कल्पते इत्यर्थः / अमीलिते मूल्यकरणेन विभक्तीकृते सागारिकेण अदृष्ट स तु कल्पते / दृष्ट प्रक्षेपदोषसंभवात्। अन्यत्र पुनः स्वयोगेन नीतं निःशङ्क कल्पते। साम्प्रतमापणं साधारणवक्रयप्रयुक्तं व्याख्यानयतिजो उ लाभगभागेण, पउत्तो होति आवणो। सो उ साहारणो होइ, तत्थ घेत्तुं न कप्पइ॥२६॥ यस्तु सागा रिकण लाभभागेन त्रिभागादिना आपणः प्रयुक्तो भवति | साधारणो भवत्यापणस्ततस्तत्र ग्रहीतुन कल्पते। साम्प्रतं भाण्ड साधारण वक्रयप्रयुक्त व्याख्यानयति-- छेदे वा लाभो वा, सागारितो जत्थ होइ आभागी। तं तु साधारण जाण, सेसमसाहारणं होइ॥३०|| यत्र भाण्डर छेद लाभे वा सागारिकोऽर्द्धन त्रिभागादिना वा आभागी भवति / तत भाण्ड साधारणं-साधारणवक्रयप्रयुक्तं जानीयात्, एतद्व्यतिरिक्तं शेष भाण्डमसाधारणं भवति। साधारणे वा भाण्ड यावत् तं न विभज्यते तावत्सागारिकपिण्डः, विभक्ते तु कल्पते / तत्रापि प्रक्षेपदोषप्रसङ्ग तो दृष्ट न कल्पते, अदृष्ट तु कल्पते। यदा तु सा शाला भाटकप्रदानेन गृहीता कालेन मया तवैतावत् दातव्यं नच भाण्डं शय्यातरेण सहच्छन्द लाभे वा त्रिभागादिना साधारणम् / तत्राप्यसाधारणे अदृष्ट कल्पते, दृष्ट तु प्रक्षेपदोषप्रसङ्गता नेति। ___ संप्रति छिन्नं वोच्छं अछिन्न वे' ति व्याख्यानार्थमाहसच्चित्ते अञ्चित्ते, मीसेण य जा पउंजए साला। तं दव्वमन्नदव्वे-ण होइ साहारणं तं तु // 31 // सचित्तेन आचत्तेन गाथायां सप्तमी तृतीयार्थे प्राकृत्वेन मिश्रेण च प्रयुज्यते शाला। किं विशिष्टन सचित्तादिनेत्यत आह-द्रव्येण, तावद् द्रव्यं नाम-रत् शालायां प्रक्षिप्तमस्ति। अन्यत् द्रव्यं तद्-व्यतिरिक्त द्रव्यम् / इयमत्र भावना-यत् शालायां प्रक्षिप्तं सचित्तं मिश्र वा कर्पासादि तस्य त्रिभागादि दातव्यम् / यदि वा-यन्निष्प-द्यते कासादिभ्यो वस्त्रादिकमन्यत्तस्य त्रिभागादि दातव्यमिति तद्भवति साधारणमच्छिन्नं द्रव्यम्, तन्न कल्पते / सम्प्रति छिन्नं द्रव्यं तत् कल्पते। सम्प्रति छिन्नमाह तद्दव्वमन्नदव्वे-ण वा विछिन्ने वि गहणमविट्ठो। मा खलु पसंगदोसा, संछोभभयं व मुंचेजा // 32 // तद द्रव्यं यत शालायां प्रक्षिप्तम्, अन्यद्रव्य-तद्वयतिरिक्तम एतावता कालेन द्रव्यं मयैतावद्दातव्यमित्येव तद् द्रव्येण अन्यद्रव्येण छिन्नेऽपि-- विभक्तीकृतेऽपि ग्रहणमदृष्ट शय्यातरेण कल्पते, न तु दृष्ट। कुत इत्याहमा खलु प्रसङ्ग दोषाः स्युरिति कृत्वा। एतदेव संछोभो नाम-प्रक्षेपस्तकुर्यात, भृति वा मूल्य मुञ्चत् यावदुपयु-ज्यते साधूनां सावद दत्स्व द्रव्य भृतिमध्यात पातनीयमिति। जंपियन एइ गहणं, फलकप्पासो सुरादि वा लोणं / फासं पि उ सामन्नं,न कप्पए जं तहिं पडियं // 33 // यदपि चाप्रासुकतया ग्रहण नागच्छति,तद्यथा-फलमाम्रादि। कप्पासः सुरादिरादिशब्दात्सरजस्कादिग्रहणं लवणम्, एतान्य-प्राशुकान्यपि कदाचित्कारणे गृह्यन्ते / तत एवमुक्त प्राशुकभपि तु वस्त्रादि यत्तत्र शालायां शय्यातरेण सह साधारण तत्तु कल्पते। तदेव दीषिकशालामधिकृत्य दर्शयति-- अंडजबोंडजवालज, वागज तह कीडजाण-वत्थाणं। नाणादिसागयाणं, साधारणवज्जिते गहणं॥३४॥ अण्डजाना--अण्डजसूत्रमयाणां वाण्डजाना-कप्पसिकसूत्रमयाणां वालजाना-कम्बलाना वल्कलजानां-शत्वम्मयाना कीटजाना वस्त्राणां नानादेशागतानां प्रयोजने समापतिले साधारणवर्जिते सागारिकेण सह साधारणरहिते आपणे ग्रहणं भवति दोषाभावात् / दृष्टादृष्टविभाषा प्राग्वत्। (व्य) सागारिकस्यौषधयः-- सागारियस्स ओसहीओ संथडाओ तम्हा दावए, णो से कप्पति पडिगाहित्तए।।२७।। सागारियस्स ओसहीओ असंथडाओ तम्हा दावए, एवं से कप्पति पडिगाहित्तए।।२।। (व्य०) सागारिकस्य-शय्यातरस्य औषधयो गोरसवत्या संस्तृताः साधारणास्तस्य तन्मध्याद्दापयति सपकारो नो कल्पत 'से' तस्य साधोः प्रतिग्रहीतुम्॥२७|था सागारिकस्योषधयः असंस्तृता असाधारणास्तस्माद्दापयति एवं 'से' तस्य कल्पते प्रतिग्रहीतुमेवमामफलसूत्रद्वयमपि भावनीयम्। संप्रति भाष्यप्रपञ्चस्तत्रौषधिप्रतिपादनार्थमाहगोरसगुलतेल्लघता-दिओसहीतो व होंति जा अण्णा। सूयस्स कट्ठलेण तु, ता संथडऽसंथडा हुंति॥३६|| सूतस्य काष्ठलयने इन्धनगृहे ये गोरसगुडतैलघृताद्या औषधयोऽन्या वायाः सन्तिता द्विविधाः सागारिकेण सह संस्तृताः साधारणा असंस्तृता वा असाधारणा वा भवन्ति। कथं पुनः साधारणास्तत आहधुव आवाह विवाहे, जण्णे सड्ढे य करडुगे चेव / विविहाओ"ओसहीओ, उवणीता भत्तसूवस्स // 37 / /