________________ सरीर 543 - अभिधानराजेन्द्रः - भाग 7 सरीर तस्याः प्रथम छेदनक द्वात्रिंशत्. द्वितीय षोडश. तृतीयभष्टौ, चतुर्थ चत्वारः पञ्चमं द्वौ, षष्ठम् एक इति। एवमन्यत्रापि भावनीयम्। तत्र पञ्चमवर्गे द्वात्रिंशच्छेदन कानि, षष्टे चतुःषष्टिः / ततः पञ्चमवर्गेण षष्ठे वर्गे गुणिते घण्णवतिच्छेदनकानि प्राप्यन्ते / अथवा-एकं रूपं स्थापयित्वा ततः षण्णबतिवारान द्विगुणद्विगुणीक्रियते, कृतं च सत याद तावत्प्रमाण राशिर्भवति ततोऽवसातव्यम् एष षण्णतति-च्छेदनकदायीराशिरिति। तदेव जघत्यपदमभिहितम् / इदानीमुत्कृष्ट पदमाह- 'उक्कोसपए असंखेज्जा' इत्यादि, उत्कृष्टपदेये मनुष्या भवन्ति ते असंख्येयाः,तत्रापि कालतः परिमाणचिन्तायां प्रतिसमयमेकैकमनुष्यापहारे सामस्त्येनासंख्येयाभिरुत्सप्पि-ण्यवंसपिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिप्ते मनुष्यैरेका श्रेणिः परिपूर्णाऽपहियते / किमुक्तं भवति? उत्कृष्टपदे ये मनुष्यास्तेषु मध्य एकस्मिन्नसत्कल्पनया रूपे प्रक्षिप्ते सकलाऽपि श्रेणिरेका-ऽपह्रियते, तस्याश्च श्रेणेः क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसंख्येयाभिरुत्सप्पिण्यवसप्पिणीभिः क्षेत्रतोऽड्गुलप्रथ-मवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नम्। किमुक्तं भवति? अगुल-मात्रक्षत्रप्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिकशतद्वय-प्रमाणस्तस्य यत्प्रथम वर्गमूलमसत्कल्पनया षोडशलक्षणम्, ततस्तृतीयेन वर्गमूलेनासल्कल्पनया द्विकलक्षणेन गुण्यत, गुणिते च सति यावान् प्रदेशरासिर्भवति असत्कल्पनया द्वात्रिंशत एतावत्प्रमाणैः खण्डैरपहियमाणा यावत् श्रेणिनिष्ठामियति तावत् मनुष्या अपि निष्ठामुपयान्ति / आहकथमेकस्याः श्रेणेर्यथोक्त-प्रमाणैः खण्डैरपहियमाणायाः असंख्येया उत्सर्पिण्यवसपिण्यो लगन्ति? उच्यते-क्षेत्रस्यातिसूक्ष्मत्वात्, उक्तं च च सूत्रेऽपि- ''सुहुमो य होइ कालो, तत्तो सुहुमयर हबइ खेतं / अंगुलसेढीमेत्ते, उस्सप्पिणओ असंखेज्जा / / 1 / / ' इति मुक्तान्यौधिकमुक्तयत् वक्रियाणि बद्धानि संख्येयानि, गर्भव्युत्क्रान्तिकानामेव केषाचित् वैक्रियलब्धिसंभवात् मुक्तान्यौधिकमुक्तवत् आहारकाण्यौघिकाहारकवत, तैजसकामणानि बद्धानि बद्धौदारिकवत्, मुक्तान्योघिकमुक्तवत्, व्यन्तराणामौदारिकाणि यथा नैरयिकाणां वैक्रियाणि बद्धान्यसंख्येयानि / तत्र कालतः परिमाणचिन्तायां प्रतिसमयमेकैकापहारे असंख्येयाभिरुत्सप्पिण्यवसापिणीभिरपहियन्ते, क्षेत्रतोऽसंख्येयाः श्रेणयः, असंख्यातासु श्रेणिषुयावन्त आकाशप्रदेशास्तावत्प्रमाणानीति भावः। ताश्च श्रेणयः कियत्य इति चेत्? उच्यते-प्रतरस्यासंख्येयो भाग, प्रतरासंख्ययभागप्रमिता इत्यर्थः, तथा चाह-'वेउव्वियसरीरा जहा नेरइयाण' भितिवैक्रियशरीराणि व्यन्तराणां यथा नैरयिका-णाम्,केवलं सूच्यां विशेषः / तथा चाह-'नवर' मित्यादि, नवरं तासां श्रेणीनां विष्कम्भसूचिर्वक्तव्येति शेषः, सा च सुप्रसिद्धत्वान्नोक्ता / कथं सुप्रसिद्धेति चेत्? उच्यते-इह महादण्डके पञ्चेन्द्रियतिर्यग्नपुंसकेभ्योऽसंख्येयगुणहीना व्यन्तराः पठ्यन्ते, तत एषां विष्कम्भसूचिरपि तिर्यक्रपञ्चेन्द्रियविष्कम्भसूचेरसंख्येय-गुणहीना वक्तव्या इति, आह च मूलटीकाकारोऽपि-"जम्हा महा-दंडए पंचिंदियतिरियनपुंसएहितो असंखेजगुणहीनावाणमंतरा पढिनति, तम्हा विक्खंभसूइ वि तेहिंतो असंखेज्जगुणहीणा चव भाणियव्वा' इति, सम्प्रति प्रतिभाग उच्यतेप्रतिभागो नाम खण्डम् ‘संखेज्जजोयणसयवग्गपलिभागो पयरस्स' इति संख्येययोजनशतवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणे अपहरणे वा इति वाक्यशेषः / इयमत्र भावना-असंख्येययोजनशतवर्गप्रमाणे श्रेणिखण्डे यदि एकैको व्यन्तरः स्थाप्यते ततस्ते सकलमपि प्रतरमापूरयन्ति,यदि वा-यद्येकैकव्यन्तरापहारे एकेकसंख्येययोजनशतवर्गप्रमाणं श्रेणिखण्डमपह्रियते तत एकत्र व्यन्तराः निष्ठां यान्ति परतः सकलं प्रतरमिति। मुक्तान्यौधिकमुक्तवत् आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानिबद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत्। ज्योतिष्काणामौदारिकाणि नैरयिकवत्, वैक्रियाणि बद्धान्यसंख्येयानि / तत्र कालतो मार्गणायां प्रतिसमयमेकैकापहारे सामस्त्येनासंख्येया-भिरुत्सप्पिण्यवसपिणीभिरपहियन्ते / क्षेत्रतोऽसंख्येयाः श्रेणयः, ताश्च श्रेणयः प्रतरासंख्येयभागप्रमिताः / तथा चाह- 'जोइसियाणं एवं चेव' इति, नवरमित्यादिना विशेष दर्शयतिनवरं तासां श्रेणीनां विष्कम्भसूचिवक्तव्येति शेषः। इयमपि सुप्रसिद्धत्वान्नोक्ता, कथ-मियं सुप्रसिद्धति चेत् ? उच्यते-यस्मान्महादण्डके व्यन्तरेभ्यो ज्योतिष्काः संख्येयगुणा उक स्तित एतेषां विष्कम्भसूचिरपि तेषां विष्कम्भसूचेः संख्येयगुणा द्रष्टव्या। तथा चाह- मूलटीकाकारः-'जम्हा वाणमंतरेहितो जोइसिया संखिज्जगुणा पढिज्जति, तम्हा विक्खंभसूई वितेसिं तेहिंतो संखेज्जगुणा चेव भवति,' इति नवरं प्रतिभागे स्पष्टतरो विशेषस्तमेवाह-विछप्पण्णंगुलसयवग्गपलिभागो पयरस्स' इति षट्पञ्चाशदधिक-शतद्वयाङ्गुलवर्गप्रमाणः प्रतिभागः प्रतरस्य पूरणेऽपहरणे च / अत्रापीय भावना-षट्पञ्चाशदधिकशतद्वयागुलवर्गप्रमाणे श्रेणिखण्डे यद्येकैको ज्योतिष्कोऽवस्थाप्यते ततस्ते सकलमपि प्रतरमापूरयन्ति, यदिवायोकैकज्योतिष्कापहारेरेण एकैकं षट्पञ्चाशदधिकशावयागुलवर्गप्रमाणं श्रेणिखण्डमपहियते तत एकत्र ज्योतिष्काः परिसमाप्तिमुपयान्ति अपरत्र सकलं प्रतरमिति. एवं च ज्योतिष्काणां व्यन्तरेभ्यः संख्येय-गुणहीनः प्रतिभागः संख्येयगुणाभ्यधिका सूचिः / पञ्चसग्रह पुनः षट्पञ्चाशदधिकशतद्वयप्रमाण एव प्रतिभाग उक्तो न तु षट्पञ्चाशदधिकशतद्वयवर्गप्रमाणः, तथा च तद्ग्रन्थः "छप्पन्नदोसयंगुलसूइपएसेहि भाइयपयरं / जोइसि-एहि हीरइ" इति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि वैक्रियवत्, मुक्तान्यौधिकमुक्तवत्। वैमानिकानामौदारिकाणि नैरयिकवत् वैक्रियाणि बद्धानि असंख्येयानि,तत्र कालतो मार्गणा ज्योतिष्कवत्, क्षेत्रतो मार्गणाऽसंख्येयाः श्रेणयः किमुक्तं भवति? असंख्येयासु श्रेणिषु यावन्त आकोशप्रदेशास्तावत्प्रमाणानीति, तासां च श्रेणीनां परिमाणं प्रतरस्यासंख्येयो भागः, प्रतरासंख्येय भागप्रतिमा ग्राह्या इत्यर्थः। तत्र प्रतरासंख्येयभागो नैरयिकादिमार्ग___णायामपि गृहीत इति विशेषतरं परिमाणं प्रतिपादयति-'तासिण' मित्यादि,