SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ सरीर 542 - अभिधानराजेन्द्रः - भाग 7 सरीर यमलपदानि / तत्र यस्मात् षण्णां वर्गाणामुपरि वर्तन्ते सप्तमस्य च वर्गस्याधस्तात् तत उक्तम्-त्रियमलपदस्योपरि चतुर्यमलपदस्याधस्तादिति / त्रियमलपदस्येति-त्रितयानां यमलपदानां समाहारखियमलपदंतस्य, तथा चतुर्णा यमलपदानां समाहारश्चतुर्य-मलपद तस्य, सम्प्रति स्पष्टतरं संख्यानमुपदर्शयति-'अहव णं छट्ठ-वग्गो पंचमवग्गपडुप्पण्णो' इति-अथवेति पक्षान्तरे, णमितिवा-क्यालङ्कारे, षष्ठो वर्गः पञ्चमवर्गेण प्रत्युत्पन्नोगुणितः सन्यावान् भवति तावत्प्रमाणा जधन्यपदे मनुष्याभ, तत्र एकस्य वर्ग एक एव, सच वृद्धिंन गत इति वर्गो नगण्यते, द्वयोर्वर्गश्चत्वार एष प्रथमो वर्गः४ चतुर्णा वर्गः षोडश एष द्वितीयो वर्गः 16, षोडशानां वर्ग द्वेशते षट्पञ्चाशदधिके एष तृतीयो वर्गः 256, द्वयोः शतयोः षटपञ्चाशदधिकयोर्वर्गः पञ्चषष्ठिः सहस्राणि पञ्च शतानि षट्त्रिं-शदधिकानि, एष चतुर्थो वर्गः 65536, एतस्य वर्गश्चत्वारि कोटीशतानिएकोनत्रिंशत्कोट्यःएकोनपञ्चाशल्लक्षाः सप्तषष्टिः सहस्राणि द्वे शते षण्णवत्यधिक एष पञ्चमो वर्गः 4264667266, उक्तं च"चत्तारि य कोडिमया, अउणत्तीसं च होन्ति कोडीओ। अउणावन्नं लक्खा, सत्तट्ठी चेव य सहस्सा।।१।। दो य सया छण्णउया, पंचमवग्गो समासओ होइ / एयस्स कतो वग्गो, छट्ठो जो होइ तं वोच्छं / / 2 / / " एतस्य पञ्चमस्य वर्गस्य यो वर्गः स षष्ठो वर्गः, तस्य परिमाणमेक कोटीकोटीशतसहस्रं चतुरशीतिः कोटीकोटीसहस्राणि चत्वारि सप्तषष्ट्यधिकानि कोटीकोटीशतानि चतुश्चत्वारिंशत्कोटीलक्षाणि सप्तकोटीसहस्राणि त्रीणि सप्तस्य-धिकानि कोटीशतानि पञ्चनवतिर्लक्षाः एकपञ्चाशत्सहस्राणि षट् शतानि षोडषोत्तराणि, 18446744073706551616 एष षष्ठो वर्गः, उक्तंच"लक्खं कोडाकोडी, चउरासीइभवे सहस्साइं। चत्तारि य सत्तट्ठा, होति सया कोडिकोडीणं // 1 // चउयाल लक्खाइं.कोडीणं सत्त चेव य सहस्सा। तिण्णि सया सत्तयरी, कोडीण हुंति नायव्या // 2 // पंचाणउई लक्खा, एकावन्नं भवे सहस्साइ। छसोलसुत्तरसया, एसो छट्ठो हवइ वग्गो॥३॥” इति। एष षष्टो वर्गः पञ्चमवर्गेण गुण्यते, गुणितेच सति यावान् राशि-भवति तावत्प्रमाणा जघन्यपद मनुष्याः, ते च एतावन्तो भवन्ति, 7628162514-64337563543650336 एतान्येकोनत्रिंशदङ्क- / स्थानानि, एतानि च कोटी कोट्यादिद्वारेण कथमपि अभिधातुं न शक्यन्ते, ततः पर्यन्तवर्त्तिनोऽङ्कस्थानादारभ्य अङ्क-स्थानसंग्रहमात्रं पूर्वपुरुष प्रणीतेन गाथाद्वयेनाभिधीयते-'छ त्तिण्णि तिण्णि सुण्णं पंचेव य नव य तिण्णि चत्तारि। पंचेव तिण्णि नवपंच सत्त तिण्णेव (तिण्णि) तिचउछट्टो।।१।। दो चउ इमो पंच, दो छक्कएक्कगं च अट्ठव। दो दो णव सत्तेव य, ठाणाई उवरि हुंताई // 2 // " छ त्तिन्नि तिन्नि सुन्न, पंचेव य नव य तिन्नि चत्तारिश पंचेय तिणि नव पञ्च सत तिन्नेव तिन्नेव।।१।। चउ छहो | चउ एको, पण छक्केकगे य अट्ठव। दो दो नव सत्तेव य, अंकट्ठाणा परा हुंता // 2 // " इत्यनुयोगद्वारवृत्तौ) अथवाऽयमङ्कस्थानप्रथमाक्षरसग्रहः 'छत्तितिसु पण नव ति च पातणपस ति ति चउ छंदो। च (एप)उ दो छ ए अबे बेणसपढमक्खरसन्तियट्ठाणा / / 1 / / ' एतेषामेव एकोनत्रिंशदङ्कस्थानानां पूर्वपुरुषैः पूर्वाङ्गैः परिसंख्यानं कृतं तदुपदर्शयति-तत्र चतुरशीतिर्लक्षाणि पूर्वाङ्ग चतुरशीतिर्लक्षाश्चतुरशीतिर्लक्ष-गुण्यन्ते ततः पूर्व भवति, तस्य परिमाणम्- सप्ततिः कोटिलक्षाणि षट्पञ्चाशत्कोटिसहस्राणि 70560000000000, एतन भागो हियते तत इदमागतम्एकादश पूर्वकोटीकोट्यो द्वाविंशतिः पूर्वकोटिलक्षाणि चतुरशीतिः पूर्वकोटीसहस्राणि अष्टादशोत्तराणि पूर्वकोटीशतानि, एकाशीतिः पूर्वलक्षाणि पक्षनवतिः पूर्वसहस्राणि त्रीणि षट्पञ्चाशदधिकानि पूर्वशतानि, अत ऊर्ध्व पूर्वैर्भागो न लभ्यते ततः पूर्वाङ् र्भागहरणम् तत्रेदमागतम्-एकविंशतिः पूर्वाङ्गलक्षाणि सप्ततिः पूर्वाङ्गसहस्राणि षट् एकोनषष्ट्यधिकानि पूर्वाङ्गशतानि, तत ऊर्ध्वं च इदमन्यत् उतरितेमवतिष्ठतेशशीतिर्लक्षाणि पञ्चाशत् सहस्राणि त्रीणि शतानि षट्त्रिंशदधिकानि मनुष्याणामिति 112284118/8165356 / 2170656 / तथा च पूर्वावार्यप्रणीता अत्र गाथाः"मणुयाण जहन्नपदे, एक्कारस पुव्वकोडिकोडीउ। बावीसकोडिलक्खा, कोडिसहस्साइँ चुलसीई।।१।। अट्ठव य कोडिसया, पुव्वाण दसुत्तरा तओ हों ति। एकासीईलक्खा, पंचाणउई सहस्साई॥२॥ छप्पण्णा तिन्नि सया, पुव्याणं पुव्ववणिया अण्णे। एतो पुव्वंगाई, इमाइँ अहियाइँ अण्णाइँ / / 3 / / लक्रवाई एगवीसं, पुव्वंगाणं सयरिसहस्सा य। छच्चेवेगूणवा, पुव्वंगाणं सया होति // 4 // तेसीयसयसहस्सा, पण्णासं खलु भवे सहस्साई। तिणि सया छत्तीसा, एवइया अविगला मणुया // 5 // " इति, इमामेव संख्यां विशेषोपलम्भनिमित्तं प्रकारान्तरेणाह-'अहव ण छण्णउईछयणगदायी रासी' इति अहवणे-त्ति-प्राग्वत्, षण्णवतिच्छेदनकानियो राशिर्ददाति सषण्णवतिच्छेदनकदायी राशिः / किमुक्तं भवति? यो राशिरर्द्धनार्द्धन छिद्यमानः षण्णवति वारान् छेदं सहते पर्यन्ते च सकलमेकं रूप पर्यवसितं भवति स षण्णवतिच्छेदनक-दायी राशिरिति, कः पुनरेवंविधइति चेत्? उच्यते-एष एव षष्ठो वर्गः पञ्चमवर्गगुणितः, कोऽत्र प्रत्यय इति चेत्? उच्यते-इह प्रथमवर्गश्छिद्यमानो द्वे छेदनके ददाति, तद्यथा-प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्चत्वारि छेदनकानि, तत्र प्रथममष्टौ द्वितीयं चत्वारस्तृतीयं द्वौ चतुर्थमेक इति, एवं तृतीयवर्गोऽष्टौ छेदनकानि प्रयच्छति, चतुर्थः षोडश, पञ्चमो द्वात्रिंशतं, षष्ठश्चतुःषष्टिम्। स चैवं पञ्चमवर्गेण गुणितः षण्णवतिः,कथमेतदवसेयमिति चेत्? उच्यते-इह यो यो वर्गो येन येन वर्गेण गुण्यते तत्र तत्र तयोर्द्वयोरपि छेदनकानि प्राप्यन्ते, यथा प्रथमवर्गेण गुणिते द्वितीयवर्गेण षट्, तथाहिद्वितीयो वर्गः षोडशलक्षणः प्रथमवर्गेण चतुष्करूपेण गुण्यते जाता चतुःषष्टिः,
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy