SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ समुग्धाय 442 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय चेत् ? उच्यते, ज्योतिष्काणां जघन्यपदेऽप्यसंख्येयकालायुष्कतया जघन्यतोऽपि असंख्येयानां कषायसमुद्धाताना लभ्यमानत्वात्, अनन्तशस्तत्र जिगमिषूणामनन्ताः, एवं वैमानिकत्वेऽपि पुरस्कृतचिन्तायां स्यादसंख्येयाः स्यादनन्ता इति वक्तव्यम्। भावना प्राग्वत्। तदेवं नैरयिकस्य स्वस्थाने परस्थाने च कषाय- समुद्धाताश्चिन्तिताः, सम्प्रत्यसुरकुमारेषु तान् चिचिन्तयिषुराह-'एगमेगस्स ण' मित्यादि, एकैकस्य असुरकुमारस्य नैरयिकत्वे कषायसमुद्धाता अतीता अनन्ता भाविनः कस्यचित्सन्ति कस्य-चिन्न सन्ति, तत्र योऽसुरकुमारभवादुवृत्तो नरक न यास्यति तस्य न सन्ति,यस्तु यास्यति तस्य सन्ति / तस्यापिजघन्यतः संख्येयाः, जघन्यस्थितावपि संख्येयानां कषायसमुहातानां नरकेषु भावात्, उत्कृर्षतोऽसंख्येयाः अनन्ताबा, तत्र जघन्यस्थितिष्वसकृद्दीर्घस्थितिषु सकृदसकृद्वा जिगमिषोरसंख्येयाः, अनन्तशो जिगमिषोरनन्ताः, असुरकुमारस्यासुरकुमारत्वे अतीता अनन्ताः / 'पुरेक्खडा एगुत्तरिया' इत्यादि, पुरस्कृतास्तु कस्यापि सन्ति कस्यापि न सन्ति, तत्र योऽसुरकुमारभवे पर्यन्तवर्ती न च कषायसमुद्धात याता, नापि तत्र प्रभ्रष्टो भूयोऽसुरकुमारभवं लब्धा किन्त्वनन्तरं पारम्पर्येण वा सेत्स्यति तस्य सन्ति, शेषस्य तु न सन्ति / यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ वा त्यो वा उत्कर्षतः संख्येयाः असंख्येया अनन्ता वा / तत्र एकादयःक्षीणायुःशेषाणां तद्भवभाजांभूयस्तत्रैवानुत्पत्स्यमानानामवगन्तव्याः, संख्येयादयो नैरयिकत्वे इव भावनीयाः। एव-मित्यादि, एवम्-उक्तेन प्रकारेण नागकुमारत्वे तत ऊर्ध्वं चतु-विंशतिदण्डकक्रमेण निरन्तरं यावद्वैमानिकत्वे वैमानिकत्वविषयं सूत्र, यथा नैरयिकस्य भणित तथैव भणितव्यम्। किमुक्तं भवति? नागकुमारत्वादिषु स्तनितकुमारपर्यवसानेषु पुरस्कृतचिन्तायां 'कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि सिय संखेजा सिय असंखेजा सिय अता पृथिवीकायिकत्वादिषु मनुष्यत्वपर्यव-सानेषु 'जर अस्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेण संखेज्जा वा असंखेज्जा वा अणता वा' व्यन्तरत्वे 'जस्सअस्थि सिय संखेजा सिय असंखेज्जा सिय अणता' ज्योतिष्कत्वे-'जस्स अत्थि सिय असंखेज्जा सिय अणंता' वैमानिकत्वेऽप्येवमेवेति वक्तव्यमिति, 'एवं जावे' त्यादि, एवम्-उक्तेन प्रकारेण असुरकुमारवम्नागकुमारस्य यावत्स्तनितकुमारस्य प्रत्येकं यावद् वैमानिकत्वेवैमानिकत्वविषयं सूत्रं तावद्वक्तव्यम् / अत्रैव विशेषमाह-नवरं सर्वेषा नागकुमारादीनां स्तनितकुमारपर्यवसानानां स्वस्थाने नियमतः पुरस्कृताएकोत्तरिकाः, परस्थाने यथैवासु-रकुमारस्य तथैव वक्तव्याः, 'पुढविकाइयस्स नेरइयत्ते' इत्यादि, पृथिवीकायिकस्य नैरयिकत्वे यावत् स्तनितकुमारत्वे अतीता अनन्ताः / अत्र भावना प्रागिव, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति, तत्र यः पृथिवीकायभवादुवृत्तो नरकेष्वसु-रकुमारेषु यावत् स्तनितकुमारेषु न गमिष्यति किन्तु मनुष्यभवं प्राप्य सिद्धिं गन्ता तस्य न सन्ति, शेषस्य तु सन्ति यस्यापि सन्ति तस्यापि जघन्यतः संख्येयाः, जघन्यस्थितावपि नरकादिषु संख्येयानां कषायसमुद्धाताना भावात्, उत्कर्षतोऽसंख्येया अनन्ता वा, ते च प्राग्वद् भावयितव्याः, पृथिवीकायिकत्वे यावन्मनुष्यत्वेऽतीतास्ते तथैव, भाविन एकोत्तरिकया वक्तव्याः, तेचैवम्– 'कस्सइ अस्थि कस्सइ नत्थि जस्स अस्थि जहण्णेणं एको वा दो वा तिपिण वा उछोसेणं संखेज्जा वा असंखेजा वा अणंता वा' ते च नैरयिकस्य पृथिवीकायिकत्व इव भावनीयाः, 'वाणमंतरत्ते जहा नेरइयत्ते' इति, व्यन्तरत्वे यथा नैरयिकत्वे तथा वक्तव्यम् / किमुक्तं भवति?-एकोत्तरिका न वक्तव्याः- किन्तु 'सिय संखेजा सिय असखेजा सिय अणता' इति वक्तव्यं, 'जोइसिय' इत्यादि, ज्योतिष्कत्वे वैमानिकत्वे चातीतास्तथैव, पुरस्कृता यदि सन्ति ततो जघन्यपदे असंख्येयाः उत्कृष्टपदे अनन्ताः, एवमप्कायिकस्य यावन्मनुष्यत्वे नेतव्य, व्यन्तरज्योतिष्कवैमानिकाना यथा असुरकुमारस्य, नवरं पुरस्कृतचिन्तायां सर्व स्वस्थाने एकत्तिरिकया वक्तव्यम्, परस्थाने यथा असुर-कुमारस्य सूत्रम्। सूत्रपर्यन्तं दर्शयति'जाव वेमाणियस्स वेमा-णियत्ते' इति-यावद्वैमानिकस्य वैमानिकत्वेवैमानिकत्वविषयं सूत्रम्, एवमेते कषायसमुद्धातगताश्चतुर्विंशतिःचतुर्विंशतिसंख्याश्चतुर्विशतिदण्डकाः-२४ भणितव्याः / तदेवमुक्तश्वतुर्विशत्या चतुर्विशतिदण्डकसूत्रैः कषायसमुद्घातः। (6) सम्प्रति चतुर्विंशत्यैव चतुर्विंशतिदण्डकसूरैरिणान्तिकसमुद्घातमाहमारणंतियसमुग्घाओ सहाणे वि परट्ठाणे वि एगुत्तरियाए नेयव्वो० जाव वेमाणियस्य वेमाणियत्ते, एवमेते चउवीसं चउवीसा दंडगा भाणियव्वा / (प्रज्ञा०) तेयगसमुग्घाए जहा मारणंतियसमुग्घाए, णवरं जस्सऽत्थि एवं एते वि चउवीसं चउवीसा दंडगा भाणि-तव्वा / एगमेगस्सणं भंते ! नेरइयस्स नेरइयत्ते केवझ्या आहा-रसभुग्धाया अतीता ? गोयमा ! णत्थि, केवइया पुरेक्खडा? गोयमा ! णत्थि, एवं० जाव वेमाणियत्ते, नवरं मणूसत्ते अतीता कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जहण्णेणं एको वा दो वा उक्कोसेणं तिन्नि,केवइया पुरेक्खडा ? गोयमा कस्स अत्थि कस्सइ नत्थि, जस्सत्थि जहण्णेणं एको वा दो वा तिण्णि वा उक्कोसेणं चत्तारि, एवं सव्वजीवाणं मणुस्साणं भाणियव्वं, मणू-सस्स मणूसत्ते अतीता कस्सइ अस्थि कस्सइ नत्थि, जस्स-त्थि जहण्णेणं एको वादो वा तिणि वा उक्कोसेणं चत्तारि, एवं पुरेक्खडा वि, एवमेते चउवीसं चउवीसा दंडगा० जाव वेमाणि-यत्ते / एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया केवलि-समुग्धाया अतीता? गोयमा! णत्थि, केवइया पुरेक्खडा? गोयमा ! नत्थि, एवं० जाव वेमाणियत्ते, णवरं मणूसत्ते अतीतानस्थि, पुरेक्खडा कस्सइ अत्थि कस्सइनस्थि,
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy