SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ समुग्घाय 440 - अभिधानराजेन्द्रः - भाग 7 समुग्धाय वेमाणियस्स वेमाणियत्त / एवमेते चउव्वीसा-चउच्चीसं दंडगा भवंति। (सू०३३३)। 'एगमेगस्स ण' मित्यादि, एकैकस्य भदन्त ! नैरथिकस्य सकल-. मतीतकालमवधीकृत्य तदा तदा नैरयिकत्वे वृत्तस्य सतः सर्वसं--ख्यया कियन्तःवेदनासमुद्धाता अतीताः? भगवानाह-गौतम! अनन्ताः, नरकस्थानस्यानन्तशः प्राप्तत्वादेकैकस्मिँश्च नरकभवे जघन्यपदेऽपि संख्येयानां वेदनासमुद्धातानां भावात्, 'केवइया पुरेक्खड'त्ति-कियन्तो भदन्त! एकैकस्य नैरयिकस्याऽऽससारमाक्षमनागत कालमवधीकृत्य नैरयिकत्वे भाविनः सतः सर्वसंख्यया पुरस्कृता वेदनासमुद्धाताः? भगवानाह- गौतम ! कस्सइ अत्थि' इत्यादि, तत्र य आसन्नमृत्युर्वदनासमुद्धातमप्राप्यान्तिकमरणेन नरकादुद्धृत्य सेत्स्यति तस्य नास्ति, नैरयिकत्वे भावी एकोऽपि पुरकृतो वेदनासमुद्धातः शेषस्य तु सन्ति, तस्यापि जघन्यतएको द्वौ वा त्रयो वा, एतच्च क्षीणशेषायुषां तद्भवजानामनन्तरं सेत्स्यतां द्रष्टव्यम्, न भूयो नरकेषूत्पत्स्यमानानां, भूयो नरके षूत्पत्तो जघन्यपदेऽपि संख्येयानां प्राप्यमाणत्वात / यदाह मूलटीकाकारः- 'नरकेषु जघन्यस्थितिषूत्पन्नस्थ नियमतः संख्यया एव वेदनासमुद्धाता भवन्ति,वेदनासमुद्धातप्रचुरत्वान्ना -रकाणामिति, उत्कर्षतः संख्येया असंख्येया वा अनन्ता वा, तत्र सकृत् नरकेषु जघन्यस्थितिषूत्पत्स्यमानस्य संख्येयाः, अनेक-शोदीर्घस्थितिषु असकृद्वा उत्पत्स्यमानस्य असंख्येयाः, अन-न्तशः उत्पत्स्यमानस्य अनन्ताः / 'एव' मित्यादि,एवम्-नैर-यिकगतेनाभिलापप्रकारेणासुरकुमारत्वेन तदनन्तरं चतुर्विंशतिद-ण्डकक्रमेण निरन्तरं तावद्वाच्यं यावद्वैमानिकत्वे, तचैवम्- 'एग-मेगस्स णं भंते ! नेरझ्यस्स असुरकुमाराओ केवइया वेयणासमुग्घाया अतीता? गोयमा ! अनन्ता, केवइया पुरेक्खडा? गोयमा! कस्सइअस्थिकस्सइनत्थि, जस्स अस्थि जहनेण एको वा दो वा तिन्नि वा उक्कोसेणं संखेजा वा असंखेजा वा अणंता वा' तत्रातीतसूत्रेऽनन्तशोऽसुरकुमारत्वस्य प्राप्तत्वादुपपद्यते तद्भावमापन्नरयानन्ता अतीता वेदनासमुद्धाताः, पुरस्कृत-चिन्तायां योऽनन्तरभवेन नरकादुवृत्तो मानुष्यं प्राप्य सेत्स्यति प्राप्तो वा परम्पपरया सकृदसुरकुमारभवन वेदनासमुद्धातं गमिष्यति तस्य नास्त्येकोऽपि पुरस्कृतोऽसुरकुमारत्वेन वेदनासमुद्घातः।यस्तुसकृदसुरकुमात्वं प्राप्तः सन् सकृदेव वेदनासमुद्घात गन्ता तस्य जघन्यत एको द्वौ वा त्रयो वा शेषस्य शेषस्यसङ्ख्येयान् पारान् असुरकुमारत्वं यास्यतः संख्येयाः, असंख्येयान वारान् असंख्येया, अनन्तान् वारान् अनन्ताः। एवं चतुर्विशतिदण्डकक्रमेण नागकुमारत्वादिषु स्थानेषु निरन्तरं सूत्रपाटस्तावद वक्तव्यो यावद्वैमानिकत्वविषय सूत्रम्, 'एगमेगरस ण' मित्यादि, एकैकस्य भदन्त! असुरकुमारस्य पूर्व नैरयिकत्वेन वृत्तस्य सतः सकलमतीतं कालमपेक्ष्य सर्वसंख्यया कियन्तो वेदनासमुद्घाता अतीताः ? भगवानाह-गौतम ! अनन्ता अतीताः, अनन्तशो नैरयिकत्वस्य प्राप्तत्वात्, एकैकस्मिँश्च नैरयिकस्य भवे जघन्यपदेऽपि संख्येयानां वेदनासमुद्घातानां भावात, कियन्तः पुरस्कृताः ? स्यात् रान्ति स्यान्न सन्ति, कस्यचित्सन्ति कस्यचिन्न सन्ति इति भावः / अत्रापीय भावनायो ऽसुरकु मारभवादुवृत्तो न नरकं यास्यति किन्त्वनन्तरं परम्परया वा मनुजभवं प्राप्य सेत्स्यति तस्य नैरयिकत्वावस्थाभाविनः पुरस्कृता वेदनासमुद्घातान सन्ति, नैरयिकत्वावस्थाया एवासम्भवात्।यस्तु तद्भवादूर्ध्व पारम्पर्येण नरकं गतिष्यतितग्य सन्ति, तत्रापि कस्यचित्संख्येयाः, कस्यचिदसंख्येयाः, कस्यचिदनन्ताः। तत्र यःस कृजघन्यस्थितिषु मध्ये समुत्पत्स्यते तस्य जघन्यपदेऽपि रांख्ययाः,सर्वजघन्यस्थितावपि नरकेषु संख्येयानां वेदनासमुद्घातानां भावात् / वेदनाबहुलत्वान्नारकाणाम् / असकृद् जघन्यस्थितिषु, दीर्घस्थितिषु सकृदसकृद्वा गमने असंख्येयाः, अनन्तशो नरकगमने अनन्ताः / तथा एकेकस्य भदन्त ! असुर-कुमारस्यासुरकुमारत्वे स्थितस्य सतः सकलमतीतकालमधिकृत्य कियन्तो वेदनासमुद्घाता अतीताः? भगवानाह-गौतम! अनन्ताः, पूर्वमप्यनन्तशस्तद्भावस्य प्राप्तत्वात्, प्रतिभवं च वेद-नासमुद्धातस्य प्रायो भावात्, पुरस्कृतचिन्तायां कस्यचित् सन्ति कस्यचिन्न सन्ति, यस्य प्रश्नसमयादूर्ध्वमसुरकुमारत्वेऽपिवर्त्त-मानस्य नभावी वेदनासमुद्घातो नापि तत उद्धृत्य भूयोऽप्यसु-रकुमारत्वं प्राप्स्यति तस्य न सन्ति, यस्तु सकृत प्राप्स्यति तस्य जघन्यपदे एको द्वौ वा त्रयो वा उत्कर्षतः संख्येया असंख्येया अनन्ता वा, संख्येयान् वारान् उत्पत्स्यमानस्य संख्येयाः, असंख्येयान्वारान् असंख्येयाः, अनन्तान् वारान् अनन्ताः, एवं चतुर्विशतिदण्डकक्रमेण नागकुमारत्वादिषु स्वस्थानेष्वसुरकुमारस्य निरन्तरं तावद्धक्तव्यं यावद्वैमानिकत्वे तथा चाह- 'एवं नागकुमारत्ते वि' इत्यादि, तदेवमसुरकुमाराणां वेदनासमुद्धातश्चिन्तितः, सम्प्रति नागकुमारादिष्वतिदेशमाह- ‘एव' मित्यादि, उपदर्शिताभिलापेन यथा चतुर्विशतिदण्डकक्रमेण असुरो नैरयिकादिषु वैमानिकपर्यवसानेषु भणितस्तथा नागकुमारादयोऽवशेषेषु समस्तेषु स्वस्थानपरस्थानेषु भणितव्या यावद्वैमानिकस्य वैमानिकत्वे, एवं चैतानि नैरयिकचतुविशतिदण्डकसूत्रादीनि वैमानिकचतुर्विशतिदण्डकसूत्रपर्यवसा गनि चतुर्विशतिः सूत्राणि भवन्ति / तदेवं चतुर्विशत्या चतुर्विशतिदण्डक - सूत्रैर्वेदना-समुद्धातश्चिन्तितः। (5) सम्प्रति चतुर्विशत्यैव चतुर्विशतिदण्डकसूत्रैः कषाय--समुद्धात चिचिन्तयिषुरिदमाहएगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया कसायसमुग्धाया अतीता? गोयमा ! अणंता, के वइया पुरेक्खडा? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि जस्सत्थि एगुत्तरियाते. जाव अणंता / एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते के वइया कसायसमुग्धाया अतीता ? गोयमा ! अणंता, केवइया पुरे-क्खडा ? गोयमा ! कस्सइ अस्थि कस्सइ नस्थि, जस्स अत्थि सिय संखेज्जा सिय असंखेज्जा सिय अणंता, एवं 0 जाव
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy