________________ सद्द 357 - अभिधानराजेन्द्रः - भाग 7 सद्द "व्यक्तिरूपावसायेन, यदि वाऽपोह उच्यते। तल लिङ्गाद्यमिसम्बन्धो, व्यक्तिद्वारोऽस्य विद्यते" || [तत्त्वसं० का०११४३ ] इति। 'अपाह उच्यते' इति 'शब्देन' इति शेषः, 'तद्' इति तस्मात्. 'अस्य' इत्यपाहस्य / 'आख्यातेषु न च' इति, अत्र आख्यातेष्वन्यनिवृत्तिर्न संप्रतीयते इत्यसिद्धम् / तथाहि-जिज्ञासिते करिमश्चिदर्थे श्रोतुर्बुद्धि (द्धे)निवेशाय शब्दः प्रयुज्यतेव्यवहर्तृभिः न व्यसनितया: तेनाभीष्टाथ'प्रतिपत्तौ सामर्थ्यादनभीष्टव्यवच्छेदः प्रतीयत एव, अभीष्टानभीष्टयोरन्यान्यव्यवच्छदरूपत्वात्। सर्वमेवाभीष्टं यदि स्यात् तदा प्रतिनियतशब्दार्थो न प्राप्नोति इति या च कस्यचिदर्थस्य परिहारेण श्रोतुः कचिदर्थे शब्दात् प्रवृत्तिः सा न प्राप्नोति; तस्मात् 'सर्वमेवाभीष्टम्' इत्येतदयुक्तम्, अत: 'पचति' इत्यादिशब्दानामनभीष्ट व्यवच्छेदः सामात स्फुटमवगम्यत एव"तथाहि--पचतीत्युक्ते, नोदासीनोऽवतिष्ठते। भुड ते दीव्यति वा नति, गम्यतेऽन्यनिवर्तनम्" / [तत्त्वसं०का० 1146] तेन 'पर्युदासरूपं हि निषेध्यं तत्र न विद्यते' इति यदुक्तम् तदसिद्धम्। यम- 'पचतोत्यनिषिद्ध तु,स्वरूपेणैव तिष्ठति' / इति / तत्र ववचनव्याधातः / तथाहि- 'पचति' इत्येतस्यार्थ 'स्वरूपेणैव' इत्यनेनावधारणे नावधारितरूप दर्शयता 'पचति' इत्येतस्यान्यरुपनिषेधेना-मस्थितिरिति दर्शितं भवति; अन्यथा 'स्वरूपेणेव' इत्येतदवधारण भवत्प्रयुक्तमनर्थकं स्यात् व्यवच्छेद्याभावात् / 'साध्यत्वप्रत्ययश्च' इति, अत्रापि यद्यपोहो भवता निरू (रु) पाख्यस्वभावतया गृहीतस्तत्कथमिदमुच्यते 'निष्पन्नत्वात' इति, न ह्याकाशोत्पलादीनां काचिदस्ति निष्पत्तिः सर्वोपाख्याविरहलक्षणत्वात् तेषाम् / स्थादेतत्यद्यप्यसौ निरुपाख्यः परमार्थतस्तथापि भान्तः प्रतिपत्तृभियाह्यरूपतयाऽध्यवसितत्वादसौ सोपाख्यत्वेन ख्याति; ननु यद्यसौ सोपाख्यत्वेन ख्याति तथाऽपि किमत्र प्रकृतार्थानुकूलं जातम्? वस्तुभिस्तुल्यधर्मत्वम्, एतेन यथा वस्तु निष्पन्नरूपं प्रतीयते तथाऽपोहोऽपि वस्तुभिस्तुल्यधर्मतयाख्याते (तो) निष्पन्न इव प्रतीयत इति सिद्ध 'निष्पन्नत्वात्' इति वचनम्। यद्येवं भवत्यै (त) व साध्य [ध्यत्व] प्रत्ययस्य भूताऽऽदिप्रत्ययस्य च निमित्तमुपदर्शितमिति न वक्तव्यमेतत् 'निर्निमित्तं प्रसज्यते' इति / यदपि 'विध्यादावर्थ राशौ च, नाऽन्याऽपोहनिरूपणम्' / इति परेणोधतम्, तत्र 'विध्यादेरर्थस्थ निषेध्यादपि व्यावृत्ततयाऽवस्थितत्वात् तत्प्रतिपत्ती सामर्थ्यादविवक्षितं नास्तिताऽऽदिनिषिध्यत इत्यस्त्येवात्र 'अन्यापोहनिरूपणम्' / 'नञश्चापि नञआयुक्तौ' इति, अत्रापि"नासौ न पचतीत्युक्ते, गम्यते पचतीति हि। औदासीन्यादियोगश्च,तृतीये नञि गम्यते" / / "तुर्ये तुतद्विविक्तोऽसौ. पचतीत्यवसीयते। तेनात्र विधिवाक्येन सममन्यनिवर्तनम्" / / [तत्त्वसं०का०११५७-११५८] 'तुर्ये' इति चतुर्थे "चतुरश्छयतौ आद्यक्षरलोपश्च" [पाणि० अ०५ पा० 2 सू० 51 पार्ति० सिद्धान्त० पृ० 266] इत्यनेन पूरणार्थ 'यत्' | प्रत्ययविधानात्। 'तद्विविक्तोऽसौ' इति औदासीन्यादिविविक्त (क्तः), विधिवाक्येन सममन्यनिवर्तनम्' इति यथा 'पचति इत्यादौ विधिवाक्ये सामर्थ्यादौदासीन्यादिनिवृत्तिर्गम्यते तथा द्वितीयेऽपि नञि इति सिद्धमत्राप्यन्यनिवर्तनम्। स्पष्टार्थं तु नचतुष्टयोदाहरणम्। 'चादीनां नव्योगो नास्ति' इति,अत्र“समुच्चयादिर्यश्चार्थः, कश्चिच्चादेरभीप्सितः। तदन्यस्य विकल्पादे-भवेत् तेन व्यपोहनम्" / / [तत्त्वसं० का० 1156] आदिशब्देना (न) 'वा' शब्दस्य विकल्पोऽर्थः, 'अपि' शब्दस्य पदार्थासम्भवानाऽ(र्थसम्भावनाऽ) न्ववसर्गादयः, 'तु' शब्दस्य विशेषणम्, 'एव' कारस्यावधारणमित्यादर्ग्रहणम् / 'तदन्यस्य' इति तस्मात् समुच्चयादन्यस्य, 'तेन' इति चादिना। 'वाक्यार्थेऽन्यनिवृत्तिश्च व्यपदेष्टुं न शक्यते' इति, अत्रापि कार्यकारणभावेन सम्बद्धा एव पदार्था वावयार्थः यतो न पदार्थव्यतिरिक्तो निरवयवः शबलाऽऽत्मा वा कल्माषवर्णप्रख्यो वाक्यार्थोऽस्ति, उपलब्धिलक्षणप्राप्तस्य तादृशस्यानुपलब्धेः पदार्थस्य चापोहरूपत्वं सिद्धमेव। तथाहि- 'चैत्र ! गामानय' इत्यादिवाक्ये चैत्रादिपदार्थव्यतिरेकेण बुद्धौ नान्योऽर्थः परिवर्तते चैत्राद्यर्थगतौ च सामर्थ्यादचैत्रादिव्यवच्छेदो गम्यते; अन्यथा यद्यन्यकांदिव्यवच्छेदो नाभीष्टः स्यात् तदा चैत्रादीनामुपादानमनर्थकमेव स्यात्। ततश्च न किञ्चित् कश्चिद् व्यवहरेदिति निरीहमेव जगत् स्यात्। 'अनन्यापोहशब्दादी वाच्यं न च निरूप्यते' इति, अत्र, नात्र भवदभिमतो जात्यादिलक्षणो विधिरूपः शब्दार्थः परमार्थतोऽवसीयते जात्यादेनिषिद्धत्वात्। “किन्तु विध्यवसाय्यस्माद, विकल्पो जायते ध्वनेः। पश्चादपोहशब्दार्थ-निषेधे जायते मतिः” / [तत्त्वसं० का०११६४] यद्यनपोहशब्दादपोहशब्दार्थनिषेधे मतिजार्यते इतीष्यते न त - पोहशब्दार्थोऽभ्युपगन्तव्यः तस्य निषिद्धत्वात्, असदेतत्; "स त्वसंवादकस्तादृग, वस्तुसम्बन्धहानितः। न शाब्दाः प्रत्ययाः सर्वे, भूतार्थाध्यवसायिनः" / / [तत्त्वसं० का० 1165] 'सः' इति अनन्यापोहशब्दादिः, 'असंवादकः' इति न संवदतीत्यसंवादकः, न विद्यते त्रा (वा) संवादो (संवादोऽस्येत्यसंवा) दकः / कस्मात्? 'वस्तुसम्बन्धहानितः' तथाभूतवस्तुसम्बन्धाभावात् पूर्व हि जात्यादिलक्षणस्य शब्दार्थवस्तुनो निषिद्धत्वात् / यद्येवं तर्हि कथमनन्यापोहशब्दादिभ्योऽपोहशब्दार्थनिषेधे मतिरुपजायत इति, उच्यते, वितथविकल्पाभ्यासवासनाप्रभवतया हि केचन शाब्दाः प्रत्यया असद्भूतार्थनिवेशिनो जायन्त एव इति न तद्वशाद् वस्तूनां सदसत्ता सिद्ध्यति / यच 'प्रमेयज्ञेयशब्दादेः' इति, अत्र कस्य प्रमेयादिशब्दस्यापोह्य नास्तीत्यभिधीयते? यदि तावदवाक्यस्थप्रमेयादिशब्दमाश्रित्योच्यते तदा सिद्धसाध्यता, केवलस्य प्रयोगाभावादेव निरर्थकत्वात् यतः श्रोतृजनानुग्रहाय प्रेक्षावद्भिः शब्दः प्रयुज्यते न व्यसनितया, न च केवलेन प्रयुक्तेन श्रोतुः कश्चित् सन्देह-विपर्यासनिवृत्तिलक्षणोड