SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ संभोग 211 - अभिधानराजेन्द्रः - भाग 7 संभोग यस्मादेते दोषास्तस्मात्कार्यतः कारणेन कार्ये वा कारणाभावे वा यद्यपि सेवितं तत् शय्यातरपिण्डादिकं तथा ऽप्यकार्येण एवमेव परोक्षं सहसा इत्येव न विसंभोगः क्रियते, मा परस्परं द्वयोगणयोर्भण्डनं भूयादिति हेतोः / कथं विवेकः कर्त्तव्य इत्यत आहनिस्संकियं च काउं,आसंकनिवेयणा तहिं गमणे। सुद्धेहिं कारणमणा-भोगजाणता दप्पतो दोण्हें / / 5 / / तैः प्राघूर्णकैस्ते प्रष्टव्याः, को युष्माकं शय्यातरः? कथ मेष शय्यातरो न भवति? एवं निःशङ्कितं कृत्वा / अथ लज्जया न पृष्टास्ततो न निश्चय इति एवमाशङ्कानिवेदनायां कृतायां यस्याचा-य॑स्य कथित तेन प्रेषितस्य संघाटस्य तत्रगमन, तेन च संघाटकेन गत्वा यत्तः कथितम् / तत्तेन प्रष्टव्यम्, ते गृहपरिवादि यथातथ्यं कथयन्ति / ततः संघाटो गत्वा निजसूरिसमीपं कथयति / एवम-क्रियमाणे द्वयोर्गणयोर्भण्डनम्। तदेव पश्चाद्धेन भावयति- 'सुद्धेहिं' शुद्धैरप्यस्माभिः समं यूयं विसंभोग कुरुथ / अथवा-कारणं गृह-परिवर्तादिकमधिकृत्य तत् गृहीतम् / यदि वाअनाभोगेन गृहीतम्। अथवा-द्वयोः प्रथमद्वितीयपरीषहयोरुदीर्ण - योर्जानता दर्पतो गृहीत, पुनः पश्चात् कृता शोधिः / अपि च यदि च निष्कारणेऽपि गृहीत तथापि न युक्तं परोक्षं वि संभोगकरणम् / यदि वयं नावृता भवामस्ततो युक्तं विसंभोगकरणम् / अथ कारणे गृहीतं तदा वयं शुद्धा एव कथ विसंभोगकरणमेव भण्डनं स्यात्। सांप्रतं 'कारणमनाभोगे' ति पदद्वयं व्याख्यानयतिकजेण वा वि गहियं, सागॉरपरियट्टतो व सो अम्हं। कारणमजाणतो वा, गहियं कि सूचिकरणं तु॥५६।। कार्येण च गृहीतमस्माभिर्वापिशब्दो विकल्पने / तच्च कार्य मस्माकं स्वागारपरिवर्तः / अथवा-कारणमजानता यदि गृहीत तथापि किं | कस्मात् परोक्षे शौधिकरणविसंभोगकरणम्। सम्प्रति 'जाणता दप्पतो' इति व्याख्यानयतिजाणंतेहि व दप्पा, घेत्तुं आवट्टिउं कया सोही। तुज्झत्थ निइरयारा, पसीय भंते ! कुसीलाणं // 60 / / जानद्भिरपि वा प्रथमद्वितीयपरीषहत्याजितो दर्पतो गृहीत्वा आवृत्य कृताऽरमाभिः शोधिः तस्मात् यूयमेवात्र गतिर्निरतिचारा भदन्त ! कुशीलानामस्माकं प्रसीदतेत्युपहासवचनमेतत्। पढमविश्य दप्पेणं, जं सव्वं आउरेहि तं गहियं / दिटुंताणि भवंतो, जं विइयपएसु नित्तण्हा।।६१॥ प्रथमद्वितीययोः परीषहोदयन यत्तत्सर्वमातुरैर्गृहीतं, युष्माभिस्तत विस्मृतं दृष्टान्ता भवन्त इत्यर्थः, नीयते द्वितीयपदेषु निस्तृष्णा इति, एतदप्युपहासवचनम् / एवं भण्डनं प्रवर्तते। यत एवं परोक्षे विसंभोगकरणे | भण्डनदोषास्तरमात्कल्पते निर्ग्रन्थानां प्रत्यक्षं सांभोगिकं विसंभोगं कर्तुम्। अस्य सूत्रस्य व्याख्यानमाहसत्तमए ववहारे, अवराहविभावियस्स साहुस्स। आउट्टेणाउट्टे, पञ्चक्खेणं विसंभोगो॥६२।। अस्मिन् सप्तमे व्यवहारस्योद्देशके अपराधेन विभावितः परिभावितो यदि प्रत्यावर्तते तदा तस्यापराधविभावितस्य साधोरावृत्तस्य विसंभोगो न क्रियते, प्रायश्चित्त पुनर्दीयते / अथ नावर्त्तते ततो वारत्रयं भण्यते, आवर्तस्व महानुभाव ! एवमुक्तोऽपि यदि नावर्तत तदा तस्मिन्ननावृत्ते प्रत्यक्षेण प्रत्यक्षतया विसंभोगः क्रियते।। संभोगऽभिसंबंधे-ण आगतो केरिसेण सह नाओ। केरिसएण विसंभो-गो भणइ सुणसुसमासेणं // 63|| एवमभिसंबन्धेन संभोगतः शिष्यः पृच्छति कीदृशेन सह संभोगो ज्ञेयः, कीदृशेन सह विसंभोगः / सूरिराह-भण्यते एतत्समासेन तत्त्व भण्यमानं शृणु। प्रतिज्ञातमेव निर्वाहयतिपडिसेहे पडिसेहो, संविग्गे दाणमादि तिक्खुत्तो। अविसुद्धे चतुगुरुया, दूरे साहारणं काउं।।६।। प्रतिषिध्यते पार्श्वस्थत्वादिक न कल्पते इति निवार्यते इति प्रतिषेधः, असंविग्नः-पार्श्वस्थादिः भण्यते, तस्मिन् प्रतिषेधे असंविग्ने दानादेदानग्रहणसंसदिः प्रतिषेधः / त्रिःकृत्व इति यदि कथमपि दानादि करोति तदा एकं द्वौ त्रीन्वारान वार्यते / एकैकरिंमश्च धारे, प्रायश्चित्तं मासलघु। वारत्रयवारणेऽपि यदि भूयस्तैः सह दानादि करोति तदाऽसो अविशुद्धः इति विसभोगः क्रियते-विसांभोगिक करोति, तस्य प्रायश्चित्त चत्वारो लघुकाः / दूरे गतानां यदि केऽपि पृच्छन्ति, यथा सत्यमरमाकं च सांभोगिकास्तत्र देशे इति? तदा साधारणं कृत्वा वक्तव्यम् यदा तदा सांभोगिका अभवन इदानीं पुनर्न जानीमः किमनुपालयन्ति सांभोगिकत्व किं वा नेति। एष नियुक्तिगाथासमासार्थः / साम्प्रतमेनामेव भाष्यकारो विवरीषुराहपासत्थादिकुसीले, पडिसिद्धे जो उ तेसि संसग्गी। पडिसिज्झइ एसो खलु, पडिसेहे होइ पडिसेहो // 65 // पार्श्वस्थादिक कुशीलस्थान प्रतिषेधे यत्तेषां पार्श्वस्थादिस्थाने वर्त्तिनां संसगी प्रतिषेध्यते स च संसर्गी दानग्रहणाभ्यामवसातव्य एष भवति प्रतिषेधः / न चैष प्रतिषेधनार्थः / यत आह.. सूयगडंगे एवं घ-म्मज्झयणे निकाचितं / अकुसीले सया भिक्खू, नो य संसग्गियं वदे // 66 / / सूत्रकृताङ्गे द्वितीये स्कन्धे धाऽध्ययने एवं निकाचितम्-एच निश्चयपूर्वकं भणितम्। यथा सदा भिक्षुरकुशीलो भवेद् नैव कुशीलैः सह संसर्गिकं ब्रजेत। दाणादीसंसग्गी, संघकते तिप्पडिसिद्ध लहतो।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy