SearchBrowseAboutContactDonate
Page Preview
Page 1151
Loading...
Download File
Download File
Page Text
________________ सूरियाम 1127- अभिधानराजेन्द्रः - भाग 7 सूरियाभ हरयसरिसा, तीसे ण णंदाए पुक्खरिणीए उत्तरपुरच्छिमेणं महेगे बलिपीढे पण्णत्ते सव्वरयणामए अच्छे०जाव पडिरूवे। (सू०४०) तस्य च सिद्धायतनस्य उत्तरपूर्वम्यामत्र महत्येका उपपात सभा प्रज्ञप्ता, तस्याश्च सुधर्मागमेन स्वरूपवर्णनपूर्वादिद्वारत्रयवर्णनमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनादिप्रकाररूपेण तावद्वक्तव्यं यावदुल्लोकवर्णनं, तस्याश्च बहुसमरमणीयभूमिभागस्य बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन 'सव्वमणिमयी' इत्यादि प्राग्वत्, तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्य स्वरूपं यथ सुधर्मायांसभायां देवशयनीयस्य, तस्या अप्युपपातसभाया उपरि अष्टाष्ट मङ्गलकादीनि प्राग्वत्। 'तेसिण' मित्यादि, तस्याउपपातसभाया उत्तरपूर्वस्यां दिशि महानेको हृदः प्रज्ञप्तः, सचैकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतो दश योजनान्युद्वेधेन 'अच्छेग्ययामयकूले इत्यादि नन्दापुष्करिण्या इव वर्णनं निरवशेषं वक्तव्यं, 'से 'मित्यादि, स हद एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, पद्मवरवेदिकावर्णनं वनखण्डवर्णनं च प्राग्वत्, तस्य हदस्य त्रिदिशितिसृषु दिक्षु त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च वर्णन प्राग्वत्, तस्य च हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका अभिषेकसभा प्रज्ञप्ता, साच सुधर्मसभावत्प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिप्रकारेण तावद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं तथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्शः, तस्य अभिषेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका प्रज्ञप्ता, साऽप्यष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सव्वरयणामयी' इत्यादि प्राग्वत्, तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं सिंहासनवर्णकः प्राग्वत्, नवरमत्र परिवारभूतानि भद्रासनानि च दक्तव्यानि, तस्मॅिश्च सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकभाण्डम्अभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, 'तीसे णं अभिसेयसभाए अट्ठ मंगलगा' इत्यादि प्राग्वत्, तस्याश्च अभिषेकसभाया उत्तरपूर्वस्या दिशि अत्र महत्येका अलङ्कारसभा प्रज्ञप्ता, सा चाभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्ड्य प्रेक्षागृहमण्डपादिवर्णनप्रकारेण तावद्वक्तव्या. यावद्परिवारसिंहासनं, तत्रसूर्याभस्य देवस्य अलंकारिकम्-अलंकारयोग्यं भाण्ड संनिक्षिप्तमस्ति शेषं प्राग्वत् / तस्याश्च अलंकारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, साच अभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णनप्रकारेण तावद्वक्तव्या यावत् सिंहासनं सपरिवारं, तत्र महेदकं पुस्तकरत्नं सन्निक्षिप्तमस्ति, / तस्य च पुस्तकरत्नस्य अयमेतद्रूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, रिष्ठमय्यौ रिष्ठरत्नमय्यौ कम्बिके पृष्ठके इति भावः रत्नमयो दवरको यत्र पत्राणि प्रोतानि सन्ति नानामणिमयो ग्रन्थिः दवरकस्यादौ येन पत्राणि न निर्गच्छन्ति, अङ्कारत्नमयानि पत्राणि, नानामणिमयं लिप्पासनं, मषीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मषीभाजनसत्का, रिष्ठरत्नमयम् उपारतनं तस्य छादनं, रिष्ठमयी-रिष्ठरत्नमयी मषी वज्रमयी लेखनी, रिष्ठामयान्यक्षराणि, धार्मिक लेख्यं, क्वचित्–'धम्मिए सत्थे' इति पाठः, तत्र धार्मिकं शास्त्रमिति व्याख्येयं, तस्याश्य उपपातसभाया उत्तरपूर्वस्यां दिशि महदेकं बलिपीठं प्रज्ञप्त, तच्चाष्टौ योजनानि आयामविष्कम्भतः चत्वारियोजनानि बाहल्यतः सर्वरत्नमयम् 'अच्छ' मित्यादि प्राग्वत्। तस्य च बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत्। तदेवं यत्र यादृग्रपंच सूर्याभस्य देवस्य विमानं तत्र ताग्रूपंचोपवर्णितं, सम्प्रतिसूर्याभो देव उत्पन्नःसन्यदकरोत्यथा च तस्याऽभिषेकोऽभवत् तदुपदर्शयतितेणं कालेणं तेणं समएणं सूरियामे देवे अहुणोववण्णमित्तए चेव समाणे पंचविहाए पजत्तीए पज्जत्तीभावं गच्छद, तं जहाआहारपज्जत्तीए, सरीरपजत्तीए, इंदियपजत्तीए, आणपाणपञ्जत्तीए, भासामणपजत्तीए / तएणं तस्स सूरियाभस्स देवस्स पंचविहाए पञ्जत्तीए पञ्जात्तीभावं गयस्स समाणस्स इमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुपञ्जित्था-किं मे पुट्विं करणिज्ज ? किं मे पच्छा करणिजं ? किं मे पुट्विं सेयं ? किं मे पच्छा सेयं ? किं मे पुट्विंपि पच्छावि हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सइ ? तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसाववनगादेवा सूरियाभस्स देवस्स इमेयारूवमन्भत्थियं जाव समुप्पन्नं सममिजाणित्ता जेणेव सूरियामे देवे तेणेव उवागच्छंति, सूरिया देवं करयलपरि-ग्गहियं सिरसावत्तं मत्थए अंजलिकद्र जएणं विजएणं वद्धाविन्तिवद्धावित्ता एवंवयासी-एवंखलुदेवाणुप्पियाणंसूरियाभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनिखित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वइ-रामएस गोलवट्टसमुग्गएसु बहुओ जिणसकहाओ संनिखित्ताओ चिट्ठति, ताओणं देवाणुप्पियाणं अण्णेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अचणिज्जाओ जाव पज्जुदासणिज्जाओ, तं एयं णं देवाणुप्पियाणं पुट्विं करणिचं, तं एवं णं देवाणुप्पियाणं पच्छा करणिचं तं एयं णं देवाणुप्पिय, णं पुटिव सेयं तं एयं णं देवाणुप्पियाणं पच्छा सेयं तं एवं
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy