SearchBrowseAboutContactDonate
Page Preview
Page 1119
Loading...
Download File
Download File
Page Text
________________ सूरियाभ 1065 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ गलानि-समानशीलानि द्वन्द्वानि तेषां यन्त्राणि-प्रपञ्च विशेषास्तैर्युक्त- | मिव अर्चिषां मणिरत्नप्रभाज्वालानां सहस्रैर्मालनीयपरिचारणीयं, किमुक्तं भवति?-एवं नाम अत्यद्भुतैर्मणिरत्नप्रभाजालैराकलितमिव भाति यथा नूनमिदं न स्वाभाविकं, किन्तु विशिष्टविद्याशक्तिमत्पुरुष- / प्रपञ्चप्रभा वितमिति, 'रूवगसहस्सकलितं भिसिमाणं भिडिभसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूव' मिति प्राग्वत् क्वचिदेतन्न दृश्यते, 'कश्चणमणिरयणथूभियाग' मिति काञ्चनं च मणयश्च रत्नानि च काञ्चनमणिरत्नानि तेषां- तन्मयी स्तूपिकाशिखरं यस्य तत्तथा नानाविधाभिः-नानाप्रकाराभिः पञ्चवर्णाभिघण्टाभिः पताकाभिश्च परि-सामस्त्येन मण्डितमग्रंशिखरं यस्य तन्नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरं, चपलं चञ्चलं चिकचिकायमानत्वात् मरीचिकवचं किरणजालपरिक्षेपं विनिर्मुञ्चत् ‘लाउल्लोइय-महिय' मिति लाइय नाम यद्भूमेर्गोमयादिनोपले पनम् उल्लोइयं-कुड्यानां मालस्य च सेटिकादिभिः सम्मृष्टीकरणं लाउल्लोइयाभ्यामिव महितं-पूजितं लाउल्लोयमहितं, तथा गोशीर्षेण-गोशीर्षनामकचन्दनेन ददरण-बहले नचपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला-हस्तका यत्र सद्गोशीर्षरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितल, तथा उपचितानिवेशताः चन्दनकलशा-- भङ्गलकलशा यत्र तदुपचितचन्दनकलशं, चदणघडसुकयतोरणपडिदुवारदेसभागमिति' चन्दनघटैः--चन्दनकलशैः सुकृतानि-सुष्टु कृतानि शोभितानीति तात्पर्यार्थः, यानि तोरणानि तानि चन्दनघटसुकृतानि तानि तोरणानि प्रतिद्वारदेशभागद्वारदेशभागेयत्र तत् चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, तथा 'आसत्तोसत्तविपुलवद्द्वग्घारियमल्लदामकलाव' मिति आ अवाङ् अधोभूमौ लग्न इत्यर्थः उत्सतम्ऊर्ध्वसक्तं उल्लोचतले; उपरि सम्बद्ध इत्यर्थः विपुलो-विस्तीर्णः वृत्तोवर्तुलः 'वग्धारिय' इति–प्रलम्बितो माल्यदामकलापः पुष्पमालासमूहो यत्र तदासक्तोत्सक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापं तथा पञ्चवर्णेन सरसेन-सच्छायेन सुरभिणा मुक्तेन क्षिप्तेन पुष्पपुञ्जलक्षणेनौपचारेणपूजया कलितं पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलितं, 'कालागुरुपवरकुन्दु-रुक्कतुरुक्कधूवमघमघतगन्धुद्भुयाभिरामं सुगंधवर गंधियं गंधवट्टिभूय मिति प्राग्वत्, तथ अप्सरोगणानां संघः-समुदायस्तेन सम्यग् रमणीयतया विकीर्ण व्याप्तमप्सरोगणसंघविकीर्णं, तथा दिव्यानां त्रुटितानाम् आतोद्यानांवेणुवीणामृदङ्गादीनां ये शब्दास्तैः सम्प्रणादितं-सम्यक्श्रोत्रमनोहारितया प्रकर्षेण नादितं-शब्द-वद् दिव्यत्रुटितशब्द-सम्प्रणादितम्, 'अच्छं जाव पडिरूव' मिति यावच्छब्दकरणात्-'अच्छं सण्हं घ8 मट्ठ नीरयं निम्मलं निप्पकं निकंकडच्छार्य सप्पभंसमिरियंसउज्जोयं पासाइयं दरिसणिज्जं अभिरूवं पडिरूवं मिति द्रष्टव्यम्, एतच्च प्राग्वद्वयाख्येयम्। 'तस्सणमि' त्यादि तस्य 'णमि' ति प्राग्वत् प्रेक्षागृहमण्डपस्यान्तः-मध्ये बहुसमरमणीयं भूमिभागं विकुर्वन्ति, तद्यथा-आलिङ्गपुष्पकरमिति वे त्यादि, तदेव तावद्वक्तव्यं यावन्मणिस्पर्शसूत्रपर्यन्तः, तथा चाह--'जाव मणीणं फासो' इति / 'तस्स णमि' त्यादि, तस्य णमिति पूर्ववत्, प्रेक्षागृहमण्डपस्य उल्लाकम् उपरिभागं विकुर्वन्ति पद्मलताभक्तिचित्रं जावं पडिरूवमि' ति,यावच्छब्दकरणात् 'अच्छंसण्ह' मित्यादिविशेषणकदम्बकपरिग्रहः / 'तस्स णमि' त्यादि, तस्य-बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र 'ण' मिति पूर्ववत् एकं महान्तं वज्रमयपमक्षपाटं विकुर्वन्ति, तस्य चाक्षपाटकम्य बहुमध्यदेशभागे तत्रैकां महती मणिपीठिका विकुर्वन्ति, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन उचैस्त्वेनेति भावः, कथंभूतां तां विकुर्वन्तीत्यत आह "सर्वमणिमयींसर्वात्मना मणिमयीं यावत्करणादच्छामित्यादिविशेषणसमूहपरिग्रहः, तस्याश्च मणिपीठिकाया उपर्यत्र महदेकं सिंहासनं विकुर्वन्ति, तस्य च सिंहासनस्यायमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-तपनीयमयाः चक्कला रजतमयाः सिंहास्तैरुपशोभितं सिंहासनमुच्यते, सौवर्णिकाःसुवर्णमयाः पादाः नानामणिमयानि पादशीर्षकाणिपादानामुपरितना अवयवविशेषाः, जम्बूनदमयानि गात्राणि मज्रमयावज्ररत्नापूरिताः सन्धयोगात्राणां सन्धिमेलाः नानामणिमयं वेचं-तज्जातः 'सेणं सीहासणं' इत्यादि तत् सिंहासनमीहामृगऋषतुरगनरमकरव्यालकिन्नररुरुसरभचमरवनलतापद्मलताभक्तिचित्रं (सं) सारसारोवचियमणिरयणपायपीढ' मिति (सं) सारसारैः-प्रधानैः मणिरत्नैरुपचितेन पादपीठन सह यत्तत्तथा, प्राकृतत्याच पदोपन्यासव्यत्ययः अत्थरयमउमसूरगनवत्तय-कुसन्तलिम्बके सरपचत्थुयाभिरामे' इति अस्तरकम्-आच्छादकं मृदु यस्य मसूरकस्य तदस्तरकमृदु, विशेषणस्य परनिपातः प्राकृतत्वात्, नवा त्वक्येषां ते नवत्वचः कुशान्ताः-दर्भपर्यन्ता नवत्वचश्चते कुशान्ताश्च नवत्वकुशान्ताः-प्रत्यग्रत्वग्दर्भपर्यन्तरूपाणि लिम्बानिकोमलानि नमनशीलानि च केसराणि मध्ये यस्य मसूरकस्य तत् नवत्वकुशान्तलिम्बकेसरम् आस्तरक मृदृना मसूरकेण नवत्वकुशान्तलिम्बकेसरेण प्रत्यवस्तुतम्-आच्छादितं सत् यदभिरामं तत्तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात्, 'आईणगरुअबूरनवणीयतूलफासे' इति पूर्ववत्, तथा सुविरइयरयत्ताण तथा सुष्ठ विरचितं सुविरचितंरजस्त्राणमुपरियस्यतत्सुविरचितरजस्त्राणं, 'उवचियखोमियद्गुल्लपट्टपडिच्छयण' मिति, उपचितं-परिकर्मितं यत्क्षौमं दुकूलंकासिंकं वस्त्र परिच्छादनं रजस्राणस्योपरि द्वितीयमाच्छादनं यस्य तत्तथा, तत उपरि ‘रतंसुयसंवुडे' इति रक्तांशुकेन-अतिरमणीयेन रक्तेन वस्त्रेण संवृतम्-आच्छादितमत एव सुरम्यं, 'पासाईए दरिसणिज्ज अभिरूवे पडिरूवे' इति प्राग्वत्। तस्स णं सिंहासणस्स उवरि एत्थ णं महेगं विजयदसं विउव्वंति, संखंक (संख) कुंददगरयअमयमहियफेणपुंजसंनिगासंसव्वरयणामयं अच्छंसहं पासादीयं दरिसणिचं अभिरूवं पडिरूवं / तस्सणंसीहासणस्स उवरि विजयदूमस्सयबहुमज्झदेसमागे एत्थणं (महं एग) वयरामयं अंकुसं विउव्वंति, तस्सिंचणं वयरामयंसि अंकुसंसि कुंभिके मुत्तादामं विउव्वंति। से णं कुंभिक्के
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy