________________ सूरियाभ 1063- अभिधानराजेन्द्रः - भाग 7 सूरियाभ वतिततो बालग्रहणम्, इन्द्रगोपकः-प्रथमप्रावृत्कालभावी कीटविशेषः, बालदिवाकरः-प्रथममद्गच्छन् सूर्यः, सन्ध्याभ्ररागोवर्षासु सन्ध्यासमयभावी अभ्ररागः, गुञ्जालोकप्रतीता तस्यार्द्ध रागो गुजार्द्धरागः, गुञ्जाया हि अर्द्धमतिरक्तं भवति अर्द्ध चातिकृष्णमिति गुजार्द्धग्रहणं, जपाकुसुमकिंसुककुसुमपारिजातकुसुमजात्यहिङ्गुला लोकप्रसिद्धाः, शिलाप्रवालं--प्रवालनाम रत्नविशेषः प्रवालाकुरः-तस्यैव रत्नविशेषस्य प्रवालस्याङ्कुरः, स हि तत्प्रथमोगतत्वेनात्यन्तरक्तो भवति ततस्तदुपादान, लोहिताक्षणिर्नाम रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीनपिष्टराशिक्तोत्पलरक्ता-शोककणवीररक्तबन्धुजीवाः प्रतीताः भवेयारूवे' इत्यादि प्राग्वत्। 'तत्थ णमि' त्यादि, 'तत्र' तेषां मणीनां मध्ये ये हरिद्रा मणयस्तेषामेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा'से जहानामए' इत्यादि, स यथानाम चम्पकः सामान्यतः सुवर्णचम्पको वृक्षः चम्पकच्छल्ली सुवर्णचम्पकत्वक्. चम्पकभेदः-सुवर्णचम्पकच्छेदः, हरिद्रा प्रतीता, हरिद्राभेदोहरिद्राच्छेदः, हरिद्रागुटिका-हरिद्रासारनिर्वर्तिता गुटिका, हरितालिका-पृथिवी-विकारूपा प्रतीता हरितालिकाभेदोहरितालिकाच्छेदः, हरितालिका-गुटिका-हरितालिकासारनिर्वर्तिता गुलिका, चिकुरो-रागद्रव्यविशेषः, चिकुराङ्गरागःचिकुरसंयोगनिर्मितो वस्त्रादौ रागः, वरकनकस्य जात्यसुवर्णस्य यः कषपट्टके निघर्षः स वरकनकनिघर्षः वरपुरुषो-वासुदेवस्तस्य वसनं वरपुरुषवचनं, तच्च किल पीतमेव भवतीति तदुपादानम्, अल्लकीकुसुमं लोकतोऽवसेयं, चम्पककुसुमं सुवर्णचम्पकपुष्पं कूष्माण्डीकुसुम पुष्पफलीकुसुमं, कोरण्टकः-पुष्पजातिविशेषः तस्य दाम कोरण्टकदाम तड़वडा अउली तस्याः कुसुमंतडवडाकुसुमं, घोशातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं, सुहिरण्यका-वनस्पतिविशेषस्तस्याः कुसुमं सुहिरण्यकाकुसुमं, बीयको वृक्षः प्रतीतः तस्य कुसुमं बीयककुसुमं पीताशोकपीतकणवीर-पीतबन्धुजीवाः प्रतीताः, 'भवेयारूवे' त्यादि प्राग्वत् / 'तत्थ णमि' त्यादि, तत्र-तेषां मणीनां मध्ये ये शुक्ला मणयस्तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, स यथानाम अङ्कोरत्नविशेषः, शंखचन्द्र (दन्तकुन्द) कुमुदौदकोदकरजोदधिधन-गोक्षीरपूरक्रौञ्चावलिहारावलिहंसावलिबलाकावलयः प्रतीताः, चन्द्रावलीतडागादिषु जलमध्यप्रतिबिम्बितचन्द्रपक्तिः , 'सारइयबलाहगे इति वा' शारदिकः-शरत्कालभावी बलाहको-मेघः, 'धन्तधोयरुप्पपट्टे इ वेति' ध्मातः- अग्निसम्पर्केण निर्मलीकृतो धौतः-भूतिखरण्टितहस्तसंतर्जनेन अतिनिशितीकृतो यो रूप्पपट्टो-रजतपत्रकं स ध्मातधौतरूप्यपट्टः, अन्ये तु व्याचक्षतेध्मातेन-अग्निसंयोगेन यो धौतः-शोधितो रूप्यपट्टः स ध्मातधौतरूप्यपट्टः, शालिपिष्टराशिः-शालिक्षोदपुञ्जः, कुन्दपुष्पराशिः कुमुदराशिश्च प्रतीतः, 'सुक्कछवाडिया इवे ति छेवाडि नाम वल्लादिफलिका सा चक्वचिद्देशविशेषे शुष्का सती अतीव शुक्ला भवति ततस्तदुपादानं, | 'पेहुणमिजिया इवेति' पेहुणं मयूरपिच्छं तन्मध्मवर्तिनी पेहुणमिञ्जिका सा चातिशुक्लेति तदुपन्यारसः, विसंपद्मनीकन्दः, मृणालं-पद्मतन्तु गजदन्तलवगदलपुण्डरीकदलश्वेताशोकश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः, 'भवेयारूवे सिया' इत्यादि प्राग्वत्। तदेवमुक्तं वर्णस्वरूपम्। सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाहते सिणं मणीणं इमेयारूवे गंधे पण्णत्ते, से जहा नाम एकोहपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुआपुडाणया जातिपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा पहाणमल्लियापुडाण वा केतगिपुडाण वापाडलिपुडाण वाणोमालियपुडाणवा अगुरुपुडाण वालवंगपुडाण वा कप्पूरपुडाण वा वासपुडाण वा अणुवायंसिवा ओभिज्जमाणाण वा कोट्टिजमाणाण वा मंजिज्जमाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा परिभाइजमाणाण वा भंडाओ वा भंडं साहरिजमाणाण वाओरालामणुण्णा मणहरा घाणमणनिव्वुतिकरा सव्वतो समंता गंधा अभिनिस्सव(रं) ति, भवेयारूवे, सिया णो इणटुं, समट्टे, ते णं मणी एत्तो इट्ठतराए चेव गंधेणं पन्नत्ता। 'तेसि णमि' त्यादि, तेषां मणीनामयमेतद्रूपो गन्धः प्रज्ञप्तः, तद्यथा'से जहा नाम ए' इत्यादि, प्राकृतत्वात् से इति बहुवचनार्थः प्रतिपत्तव्यः, ते यथा नाम गन्धा अभिनिर्गछन्तीति सम्बन्धः, कोष्ठ-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेषां, वाशब्दाः सर्वत्रापि समुधये, इह एकस्य पुटस्य प्रायो न तादृशो गन्ध आयाति, द्रव्यस्याल्पत्वात्, ततो बहुवचन, तगरमपि गन्धद्रव्यम, एलाः प्रतीताः चायं गन्धद्रव्यं चम्पकदमनककुकमवन्दनोशीरमरुकजातीयूथिकामल्लिकास्नातमल्लिकाकेतकीपाटलीनवमालिकाऽगुरुलवङ्गकुसुमवासकर्पूराणि प्रतीतानि, नवरमुशीरंवीरणीमूलं स्नानमल्लिका स्नानयोग्यो मल्लिकाविशेषः, एतेषां पुटानामनुवति-आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वाति सति उद्भिद्यमानानामुद्धाट्यमानानां वाशब्दः सर्वत्रापि समुचये 'कुट्टिजमाणाण वा' इति इह पुटैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्ठपुटादीनीत्युच्यन्तेतेषां कुट्यमानानाम्उदूखले खुद्यमानानां 'भंजिज्जमाणाण वा' इति श्लक्ष्णखण्डीक्रियमाणानाम् एतच विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषामेव प्रायः कृट्टनश्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनाम्, 'उक्किरिज्जमाणाण वा' इति क्षुरिकादिभिः कोष्ठादिपुटानां कोष्ठादिद्रव्याणां या उत्कीर्यमाणानां 'विकिरिजमाणाण वा' इति विकीर्यमाणानामिस्ततो विप्रकीर्यमाणानां परिभुज्जमाणाण वा' परिभोगाय उपयुज्यमानानां, क्वचित् 'परिभाइज्जमाणाण वा, इति पाठस्तत्र परिभाइज्जमाणानां पार्श्ववर्तिभ्यो मनाग दीयमानानां, भंडाओ भंड