SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ ववहार 907 - अभिधानराजेन्द्रः - भाग 6 ववहार पंचविहे ववहारे पण्णत्ते,तं जहा-आगमे१,सुए 2, आणा 3, | धारणा ,जीए 5 / (सू०-४२१४) स्था०५ ठा०२उ०। अस्य सम्बन्धप्रतिपादनार्थमाहबहुआगमितो पडिम, पडिवज्जइ आगमो इमो वि खलु / सव्वं व पवयणं पव-णीया ववहारविसयत्थं | vell खलियस्स वि पडिमाए, ववहारो को त्ति सो इमं सुत्तं / ववहारविहिण्णू वा, पडिवज्जइ सुत्तसंबंधो / / 5 / / अनन्तरसूत्रे प्रतिमाभिहितानां च प्रतिमां प्रतिपद्यते बडागमिकः, अयमपि पञ्चविधोऽपि व्यवहारः खल्वागमस्तत आगमप्रस्तावात्प्रतिमासूत्रादनन्तरं व्यवहारसूत्रमवादि। 'सव्वं वे' त्यादिवाशब्दः संबन्धस्य प्रकारान्तरोपदर्शने सर्वप्रवचनं प्रावधनिकश्च व्यवहार-विषयस्थं व्यवहारविषयान्तर्गमतोऽवश्यं व्यवहारो वक्तव्य इति व्यवहारसूत्रम् / अथवा-प्रतिमायां स्थितस्य प्रतिमायाः स्खलितस्य को व्यवहारः किं कर्तव्यमिति प्रश्नमाशङ्कय स व्यवहारः पञ्चविध इत्यादिकमिदं सूत्रमुपन्यस्तम्। यदि वा--अनन्तरसूत्रे प्रतिमाः प्रतिपद्यते इत्युक्तं ताश्च प्रतिपद्यते व्यवहारो विधिज्ञो नेतर इति प्रतिमासूत्रादनन्तरं व्यवहारसूत्रस्य संबन्धः। सूत्राक्षरसस्कारः सुप्रतीतो विशेषव्याख्यांतुभाष्यकृरकरिष्यति। व्य०१० उ० जहा से तत्थ आगमे सिया आगमेण ववहारं पट्टवेखा। (सू०-४२१) स्था०५ ठा०॥ अस्य व्याख्यामाहसो पुण पंचविगप्पो, आगम सुय आण धारणा जीते। सेतम्मि ववहरते, उप्परिवाडी भवे गुरुगा / / 51 // सः-पुनर्व्यवहारः पञ्चविधः प्रज्ञप्तः, तद्यथा-आगमः श्रुतम् आज्ञा धारणा जीतमिति / तत्र सति आगमादौ व्यवहारे यदि उत्परिपाट्या-- उत्क्रमेण व्यवहरति तदा प्रायश्चित्तं चत्वारो गुरुकाः। इयमत्र भावनाआगमे विद्यमाने यद्यन्येन सूत्रादिना व्यवहरति तदा चतुर्गुरुकम्। यदा पुनरागमो न विद्यते तदा श्रुतेन व्यवहर्तव्यम्। श्रुते वर्तमाने यद्याज्ञादिभिर्व्यवहरति तदा चतुर्गुरुकं प्रायश्चित्तम् / यदा तु श्रुतमपि न विद्यते तदाऽऽज्ञया व्यवहर्त्तव्यम् / आज्ञायां विद्यमानायां यदि धारणया प्रस्थापयति तदा चतुर्गुरुकम्। आज्ञाया अभावे धारणया व्यवहर्त्तव्यम्। यदि पुनर्धारणायां सत्यां जीतेन व्यवहरति तदा चतुर्गुरुकम्। धारणाया अभावे जीतेन व्यवहर्तव्यमिति। तत्र 'सेतत्थ आगमे सिया' इत्यादिकस्य (स्थानाङ्ग 4214) सूत्रावयवस्यायमर्थः-तत्र तस्मिन्व्यवहारपञ्चमध्ये 'से' तस्य साधोरागमः स्यात्तर्हि आगमेन व्यवहारं प्रस्थापयेत्थ्यवहारो न शेषः सूत्रादिभिः। एतदेवाहआगमववहारी आ-गमेण ववहरेइ सोंन अन्नेणं। न हि सूरस्स पगासं, दीवपगासो विसेसेइ॥५२॥ स आगमव्यवहारी आगमेन व्यवहरति। नान्येन-श्रुतादिना तस्य ततो हीनत्वादेतदेव प्रतिवस्तूपमयादर्शयति-न हि सूर्यस्य प्रकाशंदीपप्रकाशो विशेषयति-न सूर्यप्रकाशात् दीपप्रकाशोऽधिकतरः, किंतु-हीन इत्यर्थः / एवमिहापि यादृशो विषय आगमस्य न तादृशः शेषाणां व्यवहाराणामिति / आह-यस्मिन् काले गौतमादिभिरिदं सूत्रं कृतम् / 'ववहारे पंचविहे पन्नत्ते' इत्यादि तदा आगमो विद्यते, ततः किं कारणमाज्ञादयोऽपि सूत्रे निबद्धाः। अत्राहसुत्तमण्णायविससं,खेत्तं कालंच पप्प ववहारो। होहिंति न आइल्ला, जो तित्थं जाव जीतो उ॥५३|| सूत्रमज्ञातविषयं भविष्यति स तादृशः कालो यस्मिन्नागमो व्युच्छेत्स्यति, ततः शेषैर्व्यवहारैर्व्यवहर्त्तव्यम्, तत्रापि व्यवहारः। क्षेत्रं कालं च प्राप्य यो यथासंभवति तेन तथा व्यवहरणीयम्। किमुक्तं भवति-यस्मिन् २काले यो यो व्यवहारो व्यवच्छिन्नः अव्यवच्छिन्नो वा तदा तदा प्रागुक्तेन क्रमेण व्यवहर्त्तव्यम्। तथा यत्र यत्र क्षेत्रे युगप्रधानैराचार्या या व्यवस्था कृता तया अनिश्रोपश्रितं व्यवहर्त्तव्यम्। अन्यचआद्याश्चत्वारो व्यवहारा न यावत्तीर्थ च भविष्यन्ति जीतस्तु व्यवहारो यावत्तीर्थं तावद्भवितेति जीतोपादानम्। व्य०१० उ० ("आणाए अणाणाए आराहेइ" इत्यस्य व्याख्यानम्-'आणा' शब्दे द्वितीयभागे 123 पृष्ठे गतम्।) सांप्रतमाराधनामाहआराहणा उतिविहा, उकोसा मज्झिमा जहण्णा उ। एग दुग तिग जहन्नं, दुतिगह भवा उ उकोसा / / 55|| आराधना त्रिविधा-उत्कृष्टा, मध्यमा, जघन्या च। तत्रोत्कृष्टाऽऽराधनायाः फलमेको भवः, मध्यमाया द्वौ भवौ, जघन्यायास्त्रयो भवाः / अथवा-यदि तद्भवे मोक्षाभावः तदा उत्कृष्टाऽऽराधनायाः फलं जघन्य संसरणं द्वौ भवौ, मध्यमायास्त्रयो भवाः, जघन्याया उत्कृष्टा अष्टौ भवाः। तदेवं भाष्यकृता सूत्रव्याख्या कृता। संप्रति नियुक्तिविस्तरःजेण य ववहरइ मुणी, जंपिय ववहरइ सो वि ववहारो। ववहारो तर्हि व ठप्पो, ववहरियव्वं तु वुच्छामि // 56|| येन मुनिर्व्यवहरतिस आगमादिव्यवहारः, व्यवहियतेऽनेनेतिव्यवहारः इति व्युत्पत्तेर्यदपि च व्यवहर्त्तव्यं मुनिर्व्यवहरति। सोऽपि व्यवहारः कर्मणि घञ्। समापन्नान् तत्र योव्यवहारः करणपक्षरूपः सस्थाप्यः पश्चाद्वक्ष्यत इति भावः / व्यवहर्त्तव्यं तु वक्ष्यामि। प्रतिज्ञातमेव निवार्हयतिआमवंते य पच्छित्ते, ववहरियव्वं समासतो दुविहं। दोसु विपणगं पणगं, आभवणाए अहीगारो // 17 // व्यवहर्त्तव्यं समासतो द्विविधम्, तद्यथा-आभवत, प्रायश्चित्तं च / तत्र द्वयोरपि आभवति प्रायश्चित्ते च प्रत्येकं पञ्चकम्, तत्राधिकारः प्रयोजनमिदानीमाभवनया एष द्वारगाथासंक्षेपार्थः / साम्प्रतमेनामेव व्याचिख्यासुराह। तत्र प्रथमतः 'दोसु विपणगं पणग' मित्यस्य व्याख्यानमाहखेत्तेसु य सुहदुक्खे, मग्गे विणए य पंचहा होइ। सचित्ते अचित्ते,खेत्ते काले य भावे य॥५८||
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy