SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ वत्थ ५६२-अभिधानराजेन्द्रः - भाग 6 वत्थ अथ अधिभिराचार्यहु-प्रभूतं ज्ञाता-उपलक्षिता वयम्, यदेते आभियोगिकानिवस्त्राणि प्रयच्छन्तीति अतो न शक्या अमी वञ्चयितुम्, इत्यादिकं तेषां भावम्-अभिप्रायं मुखविकारादिभिराकारैत्विा नेच्छन्ति। भद्रकेषु तु प्रहष्टभावेषु गृह्णन्ति। ___ भद्रकेष्वेव विशेषमुपदर्शयतिन वि एवं तं वत्थं, जंतं अजाण णीणियं भे ति। तुझे इमं पडिच्छय,तं चिय एताण दाहामो // 47 // नाप्येतद्द्वस्त्रं यत्तदार्यिकाणामर्थाय निष्काशितं भवद्भिरित्युत्के यदि गृहस्था ब्रुवन्तितावदिदं वस्त्रं प्रतीच्छते। एतासांतु वयं तदेव दास्यामः / ततो वक्तव्यम्अण्णेण म्हे ण कजं, एतद्वा चेव गेण्हिमो अम्हे। जति ताणि वि देंति दुवे, णीणेति दुवे विगेण्हति // 456|| अन्येन-वस्त्रेण अस्माकं न कार्यम्, एतासामेवार्थाय वयं सम्प्रति गृह्णीमः, इत्युक्ते यदि तान्यपि प्रात्कनानि वस्त्राणि आनयन्ति ततो द्वयान्यपि प्रात्कनपश्चात्तनानि गृहन्ति। ताणि वि उवस्सयम्मि, सत्त दिणे ठविय कप्प काऊणं। थेरा परिच्छिऊणं, विहिणा अपेंति तेणेव ||4|| तान्यापि वस्त्राणि गृहीत्वा उपाश्रये आनीय सप्त दिनानिस्थापयित्वा कल्पं कृत्वा स्थविरप्रावरणद्वारेण परीक्ष्य यदि नास्ति कोऽप्यभियोगविकारस्ततः स्थविरा आचार्यास्तेनैव विधिना संयतीनामर्पयन्ति / एवमाचार्यनिश्रया ग्रहणमुत्कम्। अथोपाध्यायनिश्रया तदेवाऽऽहआयरिय उवज्झाए, पवत्ति थेरे गणी गणहरे य। गणवच्छेइयणीसा, पवत्तिणीतत्थ आणेइ||४|| आचार्यस्याभावे उपाध्यायस्य प्रवर्तिनः स्थविरस्य गणिनो गणधरस्य गणावच्छेदिनो वा निश्रया वस्त्रग्रहणं कर्तव्यम् / एतेषामभावे प्रवर्तिनी तत्रा गृहस्थकुले गत्वा स्वयमानयति। इदमेव व्याख्यानयतिआयरिएऽसाधीणे,साहीणे वाऽविवाउलगिलाणे। एकिकगपरिहाणी, एमादीकारणेहिं तु ||461|| यदि तत्राचार्योऽस्वाधीनः स्वाधीनो वा परं व्याकुलः, कुलादिकार्येषु व्यापृतः, ग्लानो वा तत उपाध्यायनिश्रया ग्रहणं विधेयम्। तत्रापि स एव विधिः / अथोपाध्यायः अस्वाधिनो व्याकुलो वा तत एकैकपरिहाण्या तावन्नेयं यावत् प्रवर्तिनीनिश्रयाऽपि ग्रहीतव्यम् / एवमादिभिः कारणैः संयतीनां वस्त्रग्रहणं भवतीति। सुत्तणिवाते थेरा, गहणं तु पवत्तिणीऍ नीसाए। तरुणीण य अग्गहणं, पवत्तिणी तत्थ आणेति|४|| अत्र पुनः सूत्रनिपात इत्थं मन्तव्यः / आचार्यादीनां गणावच्छेदकान्तानामभावे प्रवर्त्तिन्या निश्रया स्थविरा आर्यिकाः स्वयं वस्त्रग्रहणं कुर्वन्ति, तरुणीनां तु सर्वथैव वस्त्रस्याग्रहणम्। उत्सर्गतः प्रवर्तिनी स्वयं तत्र गत्वा आनयति। इदमेव भावयति साचजयाऽऽरिया तत्थ न होज कोई, छंदेज णीया तरुणी जया य। पवत्तिणी गंतु सयं तु गेण्हे, आसंकभीया तरुणिं न ने ति||३|| यदा तत्राचार्यादीनां मध्यात्कोऽपि गीतार्थः साधुन भवति, यदा च निजकाः तत्रा स्वयं गत्वा गृह्णाति, आशङ्काभीता च प्रत्यपायशङ्कया चकिता तरुणी नात्मना तं नयति। असतीपवत्तिणीए, आयरियादीवजं वणीसाए। आगाढकारणम्मि उ, गिहिणीसाए वसंतीणं // 464|| अथ नास्ति प्रवर्तिनी ततआचार्योपाध्यायादीन्यं वा सामान्यसाधुमपि निश्रयं-निश्रां कृत्वा विहरति, तन्निश्रया ग्रहणं कर्तव्यम् / आगाढे तु कारणे गृहिनिश्रया वसन्तीनां स्वयमपि ग्रहणं भवतीति वाक्यशेषः। इदमेव सविशेषमाह-- असतिय पवत्तिणीए, अभिसेगादी विवज्जणीसाए। गेण्हंति थेरिया पुण, दुगमादी दोण्ह वी असती ||4|| प्रवर्तिन्या अभावे अभिषेकागणावच्छेदिकाप्रभृतयो या गीतार्थाः संयत्यस्ताः स्वयं गत्वा गृह्णन्ति / 'विवज्जनीसाए' ति विपर्ययो नाम अभिषेकादयोऽपि न सन्ति ततः परस्परनिश्रया स्थविरा आर्यिका गृह्णन्ति ।ताश्च द्विकादयो द्वित्रिप्रभृतिसंख्याकाः पर्यटन्ति। अथ द्वे अपि न भवतस्ततो वक्ष्यमाण-विधिना गृहीतव्यम्। कथं पुनर्द्वयोरप्यभाव इत्याशङ्कयाहदुन्भूइमाईसु उ कारणेसुं. गिहत्थनीसा वइणी वसंती। जे नालबद्धा तह भाविया वा, निघोससन्नी व तहिं वसेजा||६|| दुर्भूतिरशिवम् आदिशब्दादवमौदर्यादिपरिग्रहः, तेषु कारणेषु ग्रहस्थनिश्रया एकाकिनी व्रतिनी वसन्तीये नालबद्धास्तस्याः ये सज्ञातका ये वा अनालबद्धा अपि भाविताः साधुसामाचारीपरिकर्मितमतयो यथा भद्रका ये वा निर्दोषा हास्य-कन्दादिदूषणरहिताः संझिनस्तेषां गृहे वसेत्, तत्रा च स्थितां भिक्षां पर्यटन्तीं यदा कोऽपि वस्त्रेण निमन्त्रायेत् तदा वक्तव्यम्। सज्जायरो व सण्णी, व जाणती वत्थलक्खणं अम्हं। तेण परिच्छियमेत्तं, तदणुण्णातं परिग्घेत्तुं / / 467|| शय्यातरो वा संज्ञी वा अस्माकं प्रायोग्यस्य वस्त्रस्य लक्षणं जानाति, अतस्तेन परीक्षितं तदनुज्ञातं च सदहमिदं परिग्रहीष्यामि। पंतो दहण गतं, संकाए अवणयं करेज्जाहि। अण्णासिंवा दिण्णं, वइतं णीयं व हसिता वा 498|| ततः संयत्या समानीतंशय्यातरं संज्ञिनंवा दृष्टवा प्रान्तः शङ्कया अपनयं वस्वस्यैकान्ते स्थापनं कुर्यात्, यद्वाब्रूयात अन्यासां संयतीनां दत्तं ब्रजिकां चानीतम्, हसेद्वा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy