SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ वणंत 502 - अभिधानराजेन्द्रः - भाग 6 वणप्फ वणंतपुं० (वनान्त) वनविभागे, ज्ञा०१ श्रु०१०। वणकम्मन० (बनकर्मन) वनविषयं कर्म वनकर्म। वनच्छेदनव विक्रयरुपे कर्मते उपभोगपरिभोगव्रतातिचारे, भ०८ श०५ उ०। यच्छिन्नामच्छिनानां च तरुखण्डानां पत्राणां पुष्पाणां फलानां च विक्रयणं वृत्तिकृतेन। प्रव०६ द्वार। यत्रा वा समुदितं वनंक्रीत्वा ततश्छित्वा विक्रीय च तल्लामैन जीवति, ध०र०२ अधि०। आव०। आचा०। छिन्नाछिन्नवनपत्रापुष्प फलकन्दमूलतृण काष्ठकं वा वंशादिविक्रयः कणदलपेषणं वानकच्छादिकरणं च। तस्मिन्, ध०२ अधि० आ० चू० / उपा०। वणकम्मतन० (वनकर्मान्त) यत्र वनकर्म क्रियते तादृशे गृहे, आचा०२ श्रु०१चू०२ अ०२ उ०। वणकरपुं० (व्रणकर)व्रणं देहे क्षतं स्वयं करोति रुधिरादिनिर्गल नार्थमिति व्रणकरः / ब्रणजनके, स्था० 4 ठा० 4 उ०। वणखण्ड पुं० (वनखण्ड) एकजातीयवृक्षसमूहे, भ० 5 श०७ उ० / अनेकजातीयोत्तमवृक्षेषु, स्था०२ ठा० 4 उ० ज०। (वनखण्डवर्णकः लवणसमुद्रवनखण्डवर्णनावसरेऽस्मिन्नेव भागे 604 पृष्ठे गतः।) वणग्गि पुं० (वनाग्नि) वनाग्नौ, "दावौ दवो वणगी।" पाइ० ना० 141 गाथा। वणचरपुं०(वनचर) पुलिन्द्रशवरादिके आरण्यके मनुष्ये, प्रश्न०२ आश्र० द्वार। वणचिंता स्त्री० (व्रणचिन्ता) क्षतनिरूपणे, पञ्चा० 16 विव०। वण्ण न० (वनन) वत्सत्यान्यमातरि योजने, प्रश्न०२ आश्र० द्वार। वणतिगिच्छा स्त्री० (व्रणचिकित्सा) व्रणति गच्छतीति व्रणः, व्रणस्य चिकित्सा / चारित्रापुरुषस्य योऽतिचाररुपो भावव्रणः / दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने प्रतिपादतेऽधि कारविशेषे, अनु०। वणतेल्लन० (व्रणतैल) व्रणरोहके तैले, व्य०५ उ०। वणदव पुं० (वनदव) वनाग्नौ, ज्ञा०१ श्रु०१०। आ० चू०। वणपव्वय पुं० (वनपर्वत) वनमध्यपर्वत, आचा०२ श्रु०१चू० 3 अ० | 3 उ०। वणपिसाय पुं० (वनपिशाच) पिशाचभेदे, प्रज्ञा०१पद। वणप्फ (स्स) पुं० (वनस्पति) "बृहस्पति-वनस्पत्योः सो वा'' // 8 / 2 / 66 / / इति संयुक्तस्य सो वा / वणस्सई / वणप्फई। प्रा०। लतादिरुपे एकेन्द्रियजीवशरीरे, प्रज्ञा०१ पद। अथ वनस्पतिकायप्रतिपादनार्थमाहसे किं तं वणस्सइकाइय? वणस्सकाइया दुविहा पण्णत्ता,तं जहा-सुहुमवणस्सइकाइया य, बादरवणस्सकाझ्या य। (सू० -16) से किं तं सुहुमवणस्स्इकाइया? सुहुमवणस्सइकाइया दुविहा पण्णत्ता, तं जहा-पज्जत्तसुहुमवण स्सइ काइया य, अपज्जत्तसुहुमवणस्सइकाइयाय। सेत्तं सुहुमव णस्सइकाइया। (सू०२०) से किं तं बादरवणस्सइकाइया ? बादरवणस्सइकाइया दुविहा पण्णत्ता,तं जहापत्तेयसरीरबादरवणस्सइकाइया य, साहारणसरीरबादरवणस्सइकाइयाय। (सू०-२१) प्रज्ञा० 1 पद। वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावत्प्रतिपाद्यते इत्यनेन संबन्धे नायातस्यास्य चत्वार्यनुयागद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः, तत्राच वनस्पतेः स्वभेदकलापप्रति पादनाय पूर्वप्रसिद्धार्थातिद्वेशद्वारेण नियुक्तिकृदाहपुढवीए जे दारा, वणसइकाए वि हुंति ते चेव। नाणत्ती उ विहाणे, परिमाणुवभोगसत्थे य॥१२६|| यानि पृथवीकायसमधिगतये द्वाराण्युक्तानि तान्येव वनस्पती द्रष्टव्यानि नानात्वंतु प्ररूपणापरिमाणोपभोगशस्रेषु चशब्दाल्लक्षणे च द्रष्टव्यमिति। तत्रादौ प्ररूपणास्वरूपविज्ञापनायाह - दुविह वणस्सइजीवा, सुहुमा तह बायरा य लोगम्मि। सुहुमाय सवलोए, दो चेव य बायरविहाणा॥१२७।। वनस्पतयो द्विविधाः-सूक्ष्मा, बादराश्च / सूक्ष्माः सर्वलोकापन्नाश्चााह्याश्चन भवन्त्येकाकारा एव, बादराणां पुन विधाने। के पुनस्ते बादरविधाने इत्यत आह -- पत्तेया साहारणा, बायरजीवा समासओ दुविहा। बारसविहऽणेगविहा, समासओछविहा हुंति॥१२॥ बादराः समासतः द्विविधाः-प्रत्येकाः, साधारणाश्च। तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येक जीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसंघातरूप शरीरवस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः साधारणा स्त्वनेकभेदाः, सर्वेऽप्येते समासतः षोढा प्रत्येतव्याः। आचा०१ ०१अ०५ उ०। प्रत्येकतरुद्वादशभेदप्रत्यायनायाहसे किं तंपत्तेयसरीरबादरवणस्सइकाइया?, पत्तेयसरी रबादरवणस्सइकाइया दुवालसविहा पण्णत्ता, तं जहा (सू० 22) प्रज्ञा०१पद। रुक्खा गुच्छा गुम्मा, लया य वल्ली य पव्वगा चेव। तणवलयहरियओसहि-जलरुहकुहणा य बोधव्वा // 12 // वृश्च्यन्त इति वृक्षास्ते द्विविधाः-एकास्थिका, बहुबीजकाश्च / तत्रौकास्थिकाः-पिचुमन्दानकोशम्बशालाको लपीलुशल्लक्यादयः, बहुबीजकास्तु उदुम्बरकपित्थास्तिकतिन्दुकबिल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तुवृन्ता कीकसीजपाऽऽढकीतुलसीकुस्तुम्भरीपिप्पतीनील्यादयः, गुल्मानि तुनवमालिकासेरियकको--
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy