________________ मंदक्ख 26 - अभिधानराजेन्द्रः - भाग 6 मंदर परिस्थूरबुद्धिकमपचयभावमन्दमत्र प्रस्ताव गृह्णन्तीति भावः। बृ०१ उ०१ प्रक० / तृतीयायां दशायाम्, स्त्री० / स्था० / उक्तं च-"तइयं च दसं पत्तो, आणुपुव्वीरें जो नरो। समत्थो भुंजिउं भोगे, जइसे अस्थि घरे धुवे |1 // " इति भोगोपार्जने तु मन्द इति भावना। स्था०१० ठा० / मान्य न० मन्दस्य भावः ष्यन् / रोगे, मन्दतायां च / सूत्र०१ श्रु०४ अ०१ उ०। मंदकुमारय पुं० (मन्दकुमारक) उत्तानशये बालके, प्रज्ञा०ा उत्तानशयायां बालिकायाम्, स्त्री० / “भंदकुमारए वा मंदकुमारिया वा।” मन्दकुमारक उत्ताशयो बालको, मन्दकुमारिका उत्तानशया बालिका / प्रज्ञा०११ पद। मंदक्ख न० (मन्दाक्ष) मन्द-संकुचितमक्षि यस्मात् अच् / लज्जायाम, वाच. / बृ०४ उ०। मंदग न० (मन्दक) गेयभेदे, स्था०४ ठा०४ उ०। मंदगइ स्त्री० (मन्दगति) मन्दगमने, मन्दगमनोपेते, त्रि०) सू० प्र०१ पाहु०१ पाहु० पाहु०। मंदग्गिकढिय त्रि० (मन्दाग्निक्वथित) मन्दमग्निना कथिते, अत्यग्निना | कथितं हि विरसं विगन्धाऽऽदि च भवतीति मन्दाग्रिक्वथितं गन्धेन विशिष्यते। विशे०। मंदधम्म पुं० (मन्दधर्म) धर्मे मन्दो मन्दधर्मः / राजदन्ताऽऽदिदर्शनात् धर्मशब्दस्य परनिपातः / संयमशिथिले, व्य०३ उ० / आ० चू० / ('दुव्वलचरिय' शब्दे चतुर्थभागे 2563 पृष्ठ एष उदाहृतः) मंदधी पुं०स्त्री० (मन्दधी) मन्दबुद्धौ, षो०६ विव०॥ मंदपरिणाम पुं० (मन्दपरिणाम) मन्दः परिणामः परिणतिर्यस्या ईषल्ल क्ष्यमाणस्वरूपे, आचा०१ श्रु०३ अ०१ उ०। मंदपुण्ण त्रि० (मन्दपुण्य) न्यूनभाग्ये, आ०म०१अ०। प्रश्न० / उत्त०॥ मंदबुद्धि पुं० (मन्दबुद्धि) सद्बुद्धिविकले, बृ०१ उ०३ प्रक० / पञ्चा०। आ०म० / अल्पमतौ, पं०व०१ द्वार। मन्दबुद्धिश्च मिथ्यात्वोदयात्। प्रश्न०१ आश्र० द्वार। मंदभग्ग त्रि० (मन्दभाग्य) न्यूनभाग्ये, आव०४ अ०। उत्त०। मंदमइ त्रि० (मन्दमति) अल्पमतौ, सूत्र०।"ये मय्यवज्ञा व्यधुरिद्धबोधा, | जानन्ति ते किञ्चन तानपास्य / मत्तोऽपि यो मन्दमतिस्तथाऽर्थी, तस्योपकाराय ममैष यत्नः / / 3 / / इहापसदसंसारान्तर्गतेनाऽसुमताऽवाप्याऽतिदुर्लभं मनुजत्वं सुकुलोत्पत्तिसमग्रेन्द्रियसमाग्रयाद्युपेतेनाऽर्हद्दर्शनमशेषकर्मोच्छित्तये यतितव्यम्, कर्मोच्छेदश्च सम्यग्विवेकसव्यपेक्षोऽसावप्याप्तोपदेशमन्तरेण न भवति, आप्तश्चाऽऽत्यन्तिकाद्दोषक्षयात्, स चाहन्नेव, अतस्तत्प्रणीताऽऽगमपरिज्ञाने यत्नो विधेयः, आगमश्च द्वादशाङ्गाऽऽदिरूपः, सोऽप्यार्यरक्षितमित्रैरैदंयुगीनपुरुषानुग्रह-बुद्ध्या | चरणकरणद्रव्यधर्मकथागणितानुयोगभेदाचतुर्धा व्यवस्थापितः, तत्राऽऽचाराङ्गं चरणकरणप्राधान्येन व्याख्यातम्; अधुनाऽऽवसराऽयातं द्रव्यप्राधान्येन सूत्रकृताऽऽख्यं द्वितीयमङ्ग व्याख्यातुमारभ्यते इति। ननु चार्थस्य शासनाच्छास्त्रमिदं, शास्त्रस्य चाशेषप्रत्यूहोपशान्त्यर्थमादिमङ्गलं तथा स्थिरपरिचयार्थ मध्यमङ्गलं शिष्याप्रशिष्याविच्छेदार्थ चान्त्यमङ्गलमुपादेयं तचेह नोपलभ्यते। सत्यमेतत्, मङ्गलं हीष्टदेवतानप्रस्काराऽऽदिरूपम्, अस्य च प्रणेता सर्वज्ञः, तस्य चापरनमस्कार्याभावाद् मङ्गलकरणे प्रयोजनाभावाच्च न मङ्गलाभिधानम्, गणधराणामपि तीर्थकृदुक्तानुवादित्वान्मङ्गलाकरणम्, अस्मदाद्यपेक्षया तु सर्वमेव शास्त्रं मंगलम्। अथवा-नियुक्तिकार एवात्र भावमङ्गलमभिधातुकाम आहतित्थयरे य जिणवरे, सुत्तकरे गणहरे य णमिऊणं / सूयगडम्स भगवओ, णिज्नुत्तिं कित्तइम्सामि // 1) गाथापूर्वार्द्धनेह भावमङ्गलमभिहितं, पश्चार्द्धन तु पेक्षा पूर्वकारिप्रवृत्त्यर्थं प्रयोजनाऽऽदित्रयमिति। तदुक्तम् -"उक्तार्थं ज्ञातसम्बन्धं, श्रोतुं श्रोता प्रवर्तते। शास्त्राऽऽदौ तेन वक्तव्यः, सम्बन्धः स प्रयोजनः / / 1 / / " तत्र सूत्र कृतस्येत्याभिधेयपदम्, नियुक्ति कीर्तयिष्ये इति प्रयोजनपदम्, प्रयोजनप्रयोजनं तु मोक्षावाप्तिः / सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक् नोक्तः। तदुक्तम्- "शास्त्रं प्रयोजनं चेति, संबन्धस्याऽऽश्रयावुभौ / तदुक्त्यन्तर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात्।।१" इति समुदायार्थः / अधुनाऽवयवार्थः कथ्यते-तत्र तीर्थं द्रव्यभावभेदाद् द्विधा, तत्रापि द्रव्यतीर्थ नद्यादेः समुत्तरणमार्गः, भावतीर्थं तु सम्यग्दर्शनज्ञानचारित्राणि, संसारार्णवादुत्तारकत्वात्, तदाधारोवा, सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थरास्तान् नत्वेति क्रिया / तत्राऽन्येषामपि तीर्थकरत्वसम्भवे तद्व्यवच्छेदार्थमाह-जिनवरानिति रागद्वेषमोहजितो जिनाः, एवम्भूताश्च सामान्यकेवलिनोऽपि भवन्ति, तद्व्यवच्छेदार्थमाह-वराः प्रधानाश्चतुस्त्रिंशदतिशयसमन्वितत्वेन, तान्नत्वेति, एतेषां च नमस्कारकरणमागमार्थोपदेष्टत्वेनोपकारित्वात्, विशिष्टविशेषणोपादानं च शास्त्रस्य गौरवाऽऽधानार्थ, शास्तुः प्राधान्येन हि शास्त्रस्यापि प्राधान्यं भवतीति भावः। अर्थास्य सूचनात्सूत्रतत्करणशीलाः सूत्रकारास्तेच स्वयंबुद्धाऽऽदयोऽपि भवन्तीत्यत आह-गणधराः,तांश्च नत्येति, सामान्याऽऽचार्याणां गणधरत्वेऽपि तीर्थकरनमस्कारानन्तरोपादानागौतमाऽऽदय एवेह विवक्षिताः। प्रथमश्चकारः सिद्धाऽऽधुपलक्षणार्थः, द्वितीयः समुचितौ / क्त्वाप्रत्ययस्य क्रियान्तरसव्यपेक्षत्वात्तामाहस्वपरसमयसूचनं कृतमनेनेति सूत्रकृतस्तस्य, महार्थवत्त्वाद्भगवांस्तस्य, अनेन च सर्वज्ञप्रणीतत्वमावेदितं भवति। सूत्र०१ श्रु०१ अ०१ उ०।