SearchBrowseAboutContactDonate
Page Preview
Page 1385
Loading...
Download File
Download File
Page Text
________________ वीर 1361 - अभिधानराजेन्द्रः - भाग 6 वीर मुशलसहस्रं चोध्वीकृत्य जेणेव सिद्धत्थे खत्तिए' यत्रैव सिद्धार्थः क्षत्रियः 'तेणेव उवागच्छति' तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य च 'सिद्धत्थस्स खत्ति अस्स' सिद्धार्थस्य क्षत्रियस्य तमाणत्तिय पचप्पिणति' तामाज्ञां प्रत्यर्पयन्ति, कृत्वा निवेदयन्ति // 101 // तए णं सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ उवागच्छित्ता० जाव सव्वोवरोहेणं सव्वपुप्फगंधवत्थमल्लालंकारविभूसाए सव्वतुडिअसद्दनिनाएणं महया इड्डीए महया जुईय महया समुदएणं महया तुडि अजमगर्समगपवाइएणं संखपणवभेरिझल्लरिखरमुहिहुडुक्कमुरजमुइंगदुंदुहिनिग्घोसनाइयरवेणं उस्सुक्कं उक्करं उक्किट्ठ अदिजं अमिजं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणिआवरनाडइज्जकलिअं अणेगतालायराणुचरिअं अणुद्धअमुइंग अमिलायमल्लदामं पमुइअपक्वीलियसपुरजणजाणवयं दसदिवसं ठिइवडियं करेइ / / 102 / / तए णं सिद्धत्थे राया दसाहियाए ठिइवडियाए वट्टमाणीए सइए असाहस्सिए अ सयसाहस्सिए अ, जाए अदाए अ भाए अ दलमाणे अदवावेमाणे अ, सइए असाहस्सिए असयसाहस्सिए अलंभे पडिच्छमाणे अ,पडिच्छावेमाणे अ, एवं विहरइ।।१०३|| 'तएणं सिद्धत्थे राया' ततोऽनन्तरं सिद्धार्थो राजा 'जेणेव अट्टणसाला' यत्रैव अट्टनशाला–परिभ्रमणस्थानं 'तेणेव उवागच्छद' तत्रैवोपागच्छति 'उवागच्छिता' उपागत्य 'जाव सवोराहेग' अत्र यावच्शब्दात् 'सब्धिड्डीए, सव्वजुइए, सव्वबलेणं, सव्ववाहणेण, सव्यसमुदएण' इत्येतानि वाच्यानि, तेषां चायमर्थः- 'सब्विड्डीए' ति सर्वया ऋद्ध्या युक्त इति गम्यत, एवं सर्वेष्वपि विशेषणेषु वाच्यं, सर्वया युक्त्या-उचितवस्तुसंयोगेन, सर्वेण बलेन-सैन्येन, सर्वेण वाहनेन-शिबिकातुरगादिना सर्वेण समुदयेन-परिवारादिसमूहेन, एवं यावच्शब्दसूचितमभिधाय, ततः 'सव्वोवरोहेणं' इत्यादि वाच्यग, तत्र 'सव्वोवरोहेणं' ति सर्वावरोधेन सर्वेण अन्तःपुरेणेत्यर्थः। 'सव्वपुप्फगधवत्थमल्लालंकारविभूसाए सर्वया पुष्पगन्धवस्त्रमालालङ्काराणां विभूषया युक्तः 'सध्यतुडियसनिनाएणं' सर्ववादित्राणि तेषां शब्दो निनादः प्रतिरवश्व, तेन युक्तः ‘महयः इड्डीए' महत्या ऋद्ध्या छत्रादिरूपया युक्तः ‘महया जुइए' महत्या युक्त्याउचिताडम्बरेण युक्तः 'महया बलेणं' महता बलेन-चतुरङ्गसैन्येन युक्तः 'महया वाहणेण महता वाहनेन, शिबिकादिना युक्तः 'महया समुदएण' महता समुदयेन स्वकीयपरिवारादिसमूहेन युक्तः 'महया वरतुडियजमगसमगप्पवाइएण' महत्-विस्तीर्ण यत् वराणां-प्रधानानां त्रुटितानावादित्राणां जमगसमग युगपत् प्रवादितः शब्दस्तेन तथा 'संखपणव भेरिझल्लरिखरमुहिहुडुकमुरजमुइंगदुंदुहिनिग्घोसनाइयरवेणं' शस:प्रतीतः, पणवो- मृत्पटहः, ढका-झल्लरी प्रतीता, खरमुखीदुन्दुभिः देववाद्यम्, एतेषः यो निर्घोषो महाशब्दो, नादितं च प्रतिशब्दस्तद्रूपो यो रवस्तेन, एवं रूपया सकलसामग्या युक्तः सिद्धार्थो राजा दश दिवसान् यावत् स्थितिपतिता कुलमर्यादा महोत्सवरूपां करोतीति योजना / / अथ किंविशिष्टां स्थिति-पतितामित्याह- 'उस्सुक्क उच्छुल्का, शुल्कंविक्रेतव्यक्रयाणकं प्रति मण्डपिकायां राजदेयं ग्राह्यं 'दाण' इति लोके, तेन रहिता, पुनः किंविशिष्टाम्- 'उक्कर' उत्करा करो गवादीन् प्रति प्रतिवर्ष राजग्राह्य द्रव्य, तेन रहिताम्, अतएव उकिट्ठ' उत्कृष्टां सर्वेषां हर्षहेतुत्वात्, पुनः किंविशिष्टिाम्- 'अदिजं' अदेयां यत् यस्य युज्यते तत्सर्व तेन हट्टतः ग्राह्यं, न तु मूल्यं देयं, मूल्यं तु तस्य राजा ददातीति भावः, अत एव 'अमिज्ज' अमेयाम् अमितानेकवस्तुयोगात्, अथवाअदेयां विक्रयनिषेधात्, अमेयां क्रयविक्रयनिषेधात्, पुनः किंविशिष्टाम्'अभडपवेस' नास्ति कस्यापि गृहे राजादेशदापनार्थ भटानां राजापुरुषाणां प्रवेशो यत्र सा तथा ता. पुनः किंविशिष्टाम्- 'अदंडकोदंडिम' दण्डो यथाऽपराधराजग्राह्यं धनं कुदण्डो महत्यपराधे अल्पं राजग्राह्य धनं, ताभ्यां रहिताम्, पुनः किंविशिष्टाम- 'अधरिमं' धरिमम्-ऋणं तेन रहिताम् ऋणस्य राज्ञा दत्तत्वात्, पुनः किंविशिष्टाम्-- 'गणियावरनाडइज्जकलिय' गणिकावरैः-नाटकीयैः नाटकप्रतिबद्धैः पात्रैः कलिता, पुनः किंविशिष्टाम्- 'अणेग-तालायराणुचरिअं' अनेकैस्तालाचरैः प्रेक्षाकारिभिः अनुचरितां-सेविता, पुनः किंविशिष्टाम्-'अणु यमुइंग' अनुद्धता वादकैः अपरित्यक्ता मृदङ्गा यस्यां सा तथा ता, पुनः किंविशिष्टाम- 'अमिलायमल्लदाम, अम्लानानि माल्यदामानि यस्या सा तथा ता, पुनः किंविशिष्टाम्- ‘पमुइयपक्कीलिअसपुरजणजाणवयं' प्रमुदिताः प्रमोदवन्तः, अत एव प्रक्रीडितुमारब्धाः पुरजनसहिता जानपदा देशलोका यत्र सा तथा ताम् 'दसदिवसठिइवडियं करेइ' दशदिवसान् यावत्, एवंविधा स्थितिपतितामुत्सवरूपां कुलामर्यादां करोति // 102 / / 'तए णं सिद्धत्थे राया' ततः स सिद्धार्थो राजा 'दसाहियाए ठि इवडियार वट्टमाणीए' दशाहिकायां-दशदिवसप्रमाणायां स्थितिपतितायां वर्तमानायां 'सइए अ' शतपरिमाणान साहस्सिए अ' सहस्र-परिमाणान् ‘सयसाहस्सिए अ' लक्षप्रमाणान् 'जाए अ' यागान अर्हत्प्रतिमापूजाः, भगवन्मातापित्रोः श्रीपार्श्वनाथसन्तानीय श्रावकत्वात्, यजधातोश्च देवपूजार्थत्वात्यागशब्देन प्रतिमापूजा एंव ग्राह्या, अन्यस्य यज्ञस्य असम्भवात्, श्रीपार्श्वनाथसन्तानीयश्रावकत्वं चानयोराचाराङ्गो प्रतिपादितम् ‘दाए अ' दायान् पर्वदिवसादौ दानानि 'भाए अ' लब्धद्रव्यविभागान्मानितद्रव्यांशान् ‘दलमाणे अ' ददत् स्वयं 'दवावेमाणे अ' दापयन सेवकः 'सइए य साहस्सिएय सयसाहस्सिए य' शतप्रमाणान् सहसप्रमाणान् लक्षप्रमाणान्, एवंविधान् 'लंभे पडिच्छमाणे अपडिच्छावेमाणे य' लाभान् ‘वधामणा' इति लोके प्रतीच्छन् स्वयं गृह्णन, प्रतिग्राहयन् सेवकादिभिः ‘एवं विहरइ' अनेन प्रकारेण च विहरति- आस्ते // 103|| तए णं समणस्स भगवओ महावीरस्स अम्मापियरो पढ मे दिवसे ठिइवडियं करेंति, तइए दिवसे चंदसूरदंस
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy