SearchBrowseAboutContactDonate
Page Preview
Page 1384
Loading...
Download File
Download File
Page Text
________________ वीर 1360- अभिधानराजेन्द्रः - भाग 6 णं ते कोडुंबियपुरिसा सिद्धऽत्थेणं रन्ना एवं वुत्ता समाणा हट्ठतुट्ठ० जाव हियया करयल०जाव–पडिसुणित्ता खिप्पामेव कुंडपुरे नयरे चारगसोहणं० जाव उस्सवित्ता, जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छित्ता सिद्धत्थस्स खत्तियस्स तमाणत्तिअंपचप्पिणंति।।१०१।। 'तए णं से सिद्धत्थे खत्तिए' ततोऽनन्तरं स सिद्धार्थः क्षत्रियः, 'भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं' भवनपतयः, व्यन्तराः, ज्योतिष्काः, वैमानिकाः, ततः समासस्तैः एवंविधैः देवैः 'तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए' तीर्थङ्करस्य यो जन्माभिषेकस्तस्य महिम्नि उत्सवे कृते सति पचूसकालसमयंसि' प्रभातकालसमये 'नगरगुत्तिए सद्दावेइ' नगरगोप्तकान्-आरक्षकान् शब्दयति-आकारयतीत्यर्थः। 'सद्दावित्ता' शब्दयित्वा च एवं वयासी' एवमवादीत्॥६६॥ 'खिप्पामेव भो देवाणुप्पिया' क्षिप्रमेव भो देवानुप्रियाः! 'खत्तियकुंडग्गामे नयरे क्षत्रियकुण्डग्रामे नगरे 'चारगसोहणं करेह' चारकशब्देन कारागारमुच्यते, तस्य शोधनं-शुद्धिं कुरुत; बन्दिमोचन कुरुत इत्यर्थः / यत उक्तम्-- "युवराजाभिषेके च, परराष्ट्रोपमईने / पुत्रजन्मनि वा मोक्षो, बद्धानां प्रविधीयते // 1 // " किञ्च- 'माणुम्माणवद्धण करेह' तत्र मानं रसधान्यविषयम्, उन्मानं तुलारूपं तयोर्वर्द्धनं कुरुत, 'करित्ता' कृत्वा च 'कुंडपुरं नयरं सम्भितरबाहिरिअं' अभ्यन्तरे बहिश्च यथोक्तविशेषणविशिष्ट कुण्डपुरनगर कुरुत, कारयत, अथ किंविशिष्टम्- 'आसिअ' आसिक्तं सुगन्धजलच्छण्टादानेन 'संमजिओवलित' संमार्जित कचवरापनयनेन, उपलिप्तं छगणादिना, ततः कर्मधारयः, पुनः किंविशिष्टम्'सिंघाडगतिअचउक्कचचरचउम्मुहमहापहपहेसु' शृङ्गाटक-त्रिकोणं स्थानं, त्रिक-मार्गत्रयसंगमः, चतुष्कंमार्गचतुष्टयसङ्गमः, चत्वरम्अनेकमार्गसङ्गमः चतुर्मुख-देवकुलादि, महापथः-राजमार्गः, पन्थानःसामान्यमार्गाः एतेषु स्थानेषु सित्त' सिक्तानि जलेन, अत एव 'सुइ' शुचीनि पवित्राणि 'संमट्ठ' संमृष्टानि कचवरापनयनेन समीकृतानि 'रत्यंत-रावणवीहियं' रथ्यान्तराणि मार्गमध्यानि, तथा आपणवीथयश्च हट्टमार्गा यस्मिन् तत्तथा. पुनः किंविशिष्टम्- 'मंचाइमंचकलिअंमचामहोत्सवविलोककजनानामुपवेशननिमित्तं मालकाः, अतिमञ्चकाःतेषामपि उपरिकृत्वा मालकास्तैः कलितं, पुनः किंविशिष्टम्-'नाणाविहरागभूसिअज्झयपडागमंडिअं' नानाविधै रागैर्विभूषिता ये ध्वजाः सिंहादिरूपोपलक्षिता बृहत्पटाः, पताकाश्च लघ्व्यस्ताभिर्मण्डितं विभूषितं, पुनः किविशिष्टम- 'लाउल्लोइअमहिय' छगणादिना भूमौ लेपन सेढिकादिना मित्त्यादौ धवलीकरणं, ताभ्यां महितमिव पूजितमिव, पुनः किंविशिष्टम्– 'गोसीससरसरत्तचंदणदहरदिन्नपंचंगुलितल' गोशीर्ष चन्दनविशेषः, तथा सरसं यत् रक्तचन्दन, तथा दर्दरनाम पर्वतजातचन्दनं, तैः दत्ताः पञ्चाङ्गुलितला हस्तकाः कुड्यादिषु यत्र तत्तथा, पुनः किंविशिष्टम् 'उवचियचंदणकलसं गृहान्तश्चतुष्केषु स्थापिताः चन्दन कलशाः यत्र तत्तथा- 'चंदणघडसुकयतोरणपडिदुवारदेसभाग' चन्दन घटैः सुकृतानि रमणीयानि तोरणानि च प्रतिद्वारदेशभाग द्वारस्य द्वार देशभागे यस्मिन् तत्तथा, पुनः किंविशिष्टम्- 'आसत्तोसत्तविपुलवह वग्घारियमल्लदामकलावं' आसक्तो भूमिलग्न उत्सतश्व उपरि ला विपुला-विस्तीर्णो वर्तुलः प्रलम्बितो माल्यदामकलापः-- पुष्पमाला - समूहो यस्मिन् तत्तथा, पुनः किंविशिष्टम्- 'पंचवण्णसरससुरहिमुक्छ / पुप्फपुंजोवयारकलियं, पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताः पुष्पपुजा स्तैर्य उपचारो-भूमेः पूजा तया कलितं, पुनः किंविशिष्टम्-'कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधु आभिराम' दह्यमानाः र कृष्णागरुप्रवरकुन्दुरुक्कतुरुष्कधूपाः, तेषां मघमघायमानो यो गन्धः, तेन 'उद्धृयाभिरामन्ति' अत्यन्तमनोहरम्, पुनः किविशिष्टम्- 'सुगंधवरगधियं' सुगन्धवराः-चूर्णानि तेषां गन्धो यत्र तत्तथा तं, पुनः किंविशिष्टम्गंधवट्टिभूयं' गन्धवृत्तिभूतं-गन्धद्रव्यगुटिकासमान, पुनः किविशिष्टम्'नडनट्टगजल्लमल्लमुट्ठिय' नटा-नाटयितारः, नर्तकाः- स्वयं नृत्यकर्तारः, जल्लावरत्राखेलकाः मल्लाः, प्रतीताः, मौष्टिका-ये मुष्टिभिः प्रहरन्ति ये मल्लजातीयाः 'वेलबग' विडम्बका विदूषकाजनाना हास्यकारिकाः ये स्वमुखविकारमुत्प्लुतयन्ति ते व पवग' प्लवका ये उत्प्लवन्ते गर्ता दिकमुल्लङ्यन्ति, नद्यादिकं वा तरन्ति 'कहग' सरसकथावतारः 'पाढग' सूक्तादीनां पाठकाः 'लासग' लासका ये रासकान् ददति 'आरक्खग' आरक्षका:- तलवराः 'लंख' लड्वा वंशानखेलकाः 'मंख' मखाः- चित्रफलकहस्ता भिक्षुकागौरीपुत्रा इति प्रसिद्धाः 'तूणइल्ल' तूणाभिधानवादित्रवादका:- भिक्षुविशेषाः 'तुंबवीणिय' तुम्बवीणिका-वीणावादकाः, तथा 'अणेगतालायराणुचरियं' अनेके ये तालाचरास्तालादानेन प्रेक्षाकारिणस्तालान् कुट्टयन्तो वा ये कथा कथयन्ति'तैः अनुचरितं संयुक्तम्' एवंविध क्षत्रियकुण्डग्रामं नगर 'करेह कारवेह' कुरुत स्वयं, कारयत अन्यैः, करित्ता कारवित्ता य' कृत्वा कारयित्वा च, 'जूअसहस्सं मुसलसहस्सं च उस्सवेह' यूपाःयुगानि तेषां सहसं तथा मुशलानि प्रतीतानि तेषां सहस्रम् ऊर्वीकुरुत युगमुसलो/करणेन च तत्रोत्सवे प्रवर्त्तम्मने शकटखेटनखण्डनादिनिषेधः प्रतीयते इति वृद्धाः 'उस्सवित्ता' तथा कृत्वा च मम एयमाणत्तिय पचप्पिणह' मम एतामाज्ञां प्रत्यपर्यत 'कार्य कृत्वा कृतम् इति मम कथयतेत्यर्थः / / 100 / / तए णं ते को डुबियपुरिसा' ततः ते कौटुम्बिकपुरुषाः सिद्धत्थे णं रन्ना' सिद्धार्थेन राज्ञा ‘एवं वुत्ता समाणा' एवमुक्ताः सन्तः 'हट्टतुट्ट० जाव हियया 'हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदयाः 'करयल० जाव पडिसुणित्ता' करतलाभ्यां यावत् अञ्जलिं कृत्वाप्रतिश्रुत्य अङ्गीकृत्य 'खिप्पामेव कुंडपुरे नयरे' शीघ्रमेव क्षत्रियकुण्डग्रामे नगरे चारगसोह० जाव उस्सवित्ता' बन्दिगृहशोधन बन्दिमोचनं यावत्
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy