________________ पलंब 715 - अभिधानराजेन्द्रः - भाग 5 पलंब त्यादी। प्रथम द्वाभ्यामपि भावद्रव्याभ्यां वा भावतोऽभिन्नं, द्रव्यसोऽप्यभिन्नम्। द्वितीयं भावतो भिन्नं द्रव्यतोऽविधिभिन्न, तृतीयं भावतोभिन्न, द्रव्यतो विधिभिन्नम्। एवमेव भावतो भिन्नेऽपि भङ्ग त्रयं, तत्रैकं चतुर्थ भावतो भिन्नं द्रव्यतोऽभिन्नं, पञ्चमषष्ठौ भङ्गौ द्वाभ्यामपि भिन्नौ, नवर केवलं पञ्चमे अविधिभिन्न, भावतो भिन्नं द्रव्यतोऽविधिभिन्नमिति भावः / अर्थादापन्नं षष्ठे भावतो भिन्न, द्रव्यतो विधिभिन्नभिति। अथ षट्स्वपि भङ्गेषु यथाक्रमं प्रायश्चित्तमाहलघुगा तीसु परित्ते, लघुओ मासो उतीसु मंगेसु / गुरुगा होति अणंते, पछित्ता संजईणं तु // 241 / / आद्येषु त्रिषु भने षु परीत्तवनस्पती चत्वारो लघुकाः प्राग्वत्तपः कालविशेषिताः भावतोऽभिन्नत्वात् / उत्तरेषु त्रिषु भङ्गेषु परीत्तवनस्पतावेव लघुको मासस्तपःकालविशेषितः प्राग्वत्, भावतो भिन्नत्वात्। अनन्तवनस्पती तु, त एव गुरुकाः कर्तव्याः, चत्वारो गुरवो गुरुमासश्चेति भावः / इत्थं षट्स्वपि भङ्गेषु संयतीनां प्रायश्चित्तानि द्रष्टव्यानि। अथ हस्तकर्मसंभवासंभवौ चेतसि व्यवस्थाप्य प्रकारान्तरेणाव प्रायश्चितमाहअहवा गुरुगा गुरुगा, लहुगा गुरुगाय पंचमे गुरुगा। छटुंसि हवति लहुओ, लहुगत्थाणे गुरूऽणते // 242|| अथवा प्रथमे भङ्गे गुरुका अभिन्नत्वात्, द्वितीयेऽपि गुरुका अविधिभिनत्वात, तृतीय लघुका विधिभिन्नत्वात्, चतुर्थे गुरुकाः अभिन्नत्वात. पञ्चमेऽपि गुरुकाः अविधिभिन्नत्वात् , षष्ठे लघुको मासो विधिभिन्नत्वात् अचित्तत्वाच्च। एतच्च परीत्ते भणितम्, अनन्ते तुलघुकस्थाने गुरुक, यत्र पुनः श्रमणीनामिति वक्तव्यम् ? ताश्च श्रमण्यो द्विविधाः-भुक्तभोगिन्योऽभुक्तभोगिन्यश्चेति समासार्थः। अथ विस्तरार्थोऽभिधीयते- तत्र प्रथमभिन्ने महाव्रतपृच्छाद्वार शिष्यः पृच्छतिनिर्ग्रन्थानां भिन्नमभिन्न वा एक्क कल्पते, निर्गन्थीना पुनर्भिन्नमेव कल्पते, नाभिन्न, तदपि विधिभिन्नमित्यत्र यथा भेदस्तथा किमेवं महाव्रतेष्वपि तासा भेदः? यथा किल तत्र नग्निकाना मते भिक्खूणामर्द्धतृतीयानि शिक्षापदशतानि भिक्षुणीनां पञ्च शिक्षापदशतानि; एवं किं निन्थीनामपि षट् महाव्रतानि, दश वा, येनैवमभिधीयते? उच्यतेन वि छ महव्वया ने-व दुगुणिया जह उ भिक्खुणीवग्गे। बंभवयरक्खणट्ठा, न कप्पती तं तु समणीणं // 246 / / नाऽपि निर्ग्रन्थीनां षट् महाव्रतानि, नैव साधूनां संबन्धिभ्यः पञ्चमहाव्रतेभ्यो द्विगुणितानि, दशेत्यर्थः / यथा सौगतानां मते भिक्षुणीवर्ग द्विगुणानि शिक्षापदानि भवन्ति न तथाऽत्र, किं तु पञ्चैवेति भावः / यद्येवं तर्हि किमर्थभत्र निर्गन्थीनामभिन्न कल्पते? उच्यते-ब्रहाव्रतरक्षणार्थ तत्तु अभिन्न श्रमणीनां न कल्पते, मा करकर्माऽऽदिकमनेन का रिति कृत्वा / न केवलमत्रैव प्रलम्बे श्रमणीनां विशेषः, किं त्वन्यत्रापीति दर्शयतिअन्नत्थ वि जत्थ भवे, एगयरे मेहणुब्भवो तं तु। आयरिउ पवत्तिणीए, पवत्तिणी भिक्खुणी न कहेइ। गुरुगा लहुगा लहुओ, तत्थ वि आणाइणो दोसा / / 243 / / गेण्हतीणं गुरुगा, पवित्तिणीए पवित्तिणी जइवा। न सुणेती गुरुलहुगा, मासलहू भिक्खूणी जाव // 244|| एतत्प्रलम्बसूत्रमाचार्यः प्रवर्त्तिन्या न कथयति चत्वारो गुरवः, प्रवर्तिनी भिक्षुणीनां न कथयति चत्वारो लघवः, यदि भिक्षुण्यो न शृण्वन्ति ततो | लघुमासः। तत्राप्यक थने अश्रवणे वा आज्ञाऽऽदयो दोषाः। यदि भिक्षुणीना प्रलम्वं गृह्णतीनां प्रवर्तिनी सारणाऽऽदिक न करोति तदा प्रवर्त्तिन्याश्चत्वारो गुरवः प्रवर्तिनी यद्याचार्याणां कथयतां न शृणोति तदा चरवारो गुरवः, प्रवर्त्तिन्याः पार्चे गणावच्छेदिनी न शृणोति चत्वारो लघवः, अभिषेका न शृणोति मास गुरु, भिक्षुणी न शृणोति मासलघु। अथ निर्ग्रन्थीरधिकृत्य द्वारगाथामाहअभिन्ने महव्वयपुच्छा, मिच्छत्तविराहणा य देथीए। किं पुण ता दुविहाओ, मुत्तभोगा अभोगा य // 245 / / अभिन्ने महाव्रतपृच्छा कर्तव्या, तथा अङ्गादानसदृशमभिन्न प्रलम्ब गृह्णन्तीं निर्ग्रन्थीं दृष्ट्वा कश्चित् मिथ्यात्वं व्रजेत्-यदेया अङ्गादानाssकारमेवंविधफलं गृह्णाति, तद् नूनमेतासा तीर्थकृता नैष दोषो दृष्टः, असर्वज्ञ एवामूषां गुरुरित्यादिविराधना या भवेत्। तत्र च देव्या दृष्टान्तो अन्यत्राऽपि यत्र भुङ्क्ते स्पृष्टे वा (एगयरे इति) षष्ठीसप्तम्योरर्थ प्रत्यभेदादेकतरस्य साधुपक्षस्य साध्वीपक्षस्य तु तदैवान्येनासंयमलक्षणेन दोषेण प्रतिषिध्यते।। निदर्शनमाहनिल्लोमसलोमऽजिणे, दारुगदंडे सडेंटपाए य। बंभवयरक्खणट्ठा, वीसुं वीसुं कया सुत्ता॥२४८।। यथा निर्गन्थानां निर्लोमाजिनं स्मृतिकरणकौतुकाऽऽदिदोषपरिहारार्थ प्रतिषिद्ध, निर्गन्थीनां पुनः प्राणिदयानिमित्तमतिरिक्तोपधिभारपरिहारार्थ च तदेव प्रतिषिध्यते / एवं सलोमाजिनं निम्रन्थीनां स्मृतिकरणाऽऽदिदोषनिवारणार्थ निर्ग्रन्थाना पुनस्तदेव प्राणिदयानिमित्तं प्रतिषिद्धम् / दारुदण्डकं पादप्रोञ्छनं संवृतपात्रं च निर्ग्रन्थीनां ब्रहाव्रतानुपालनार्थ, निर्ग्रन्थानां निर्ग्रन्थानां पुनरतिरिक्तोपधिदोषपरिहरणार्थ नानुज्ञातम् / एवं ब्रह्मवतरक्षणार्थ निम्रन्थाना निर्गन्थीनां च विष्वक् पृथक् पृथक् सूत्राणि कृतानि। आह-कर्मोदयादेव प्राणिनां मैथुनोद्भवो भवति ततः किमेवं सलोमाऽऽदिपरिहारः क्रियते ? उच्यतेनत्थि अनिदाणओ हो-इ उन्भवो तेण परिहर निदाणं। ते पुण तुल्लाऽतुल्ला, मोहनिदाणा दुपक्खे वि // 246 / / निदानं कारणमित्येकोऽर्थः। तच्चेहेष्टशब्दरूपरसगन्धस्पर्शऽऽत्मक, यत्प्रतीत्य पुरुषवेदाऽऽदि मोहनीयमुदयमासादयति। तदुक्तम् - "कालं भावं च भव, दव्वं खेत्तं तहा समासज्ज / तस्स समामुद्दिट्टो, उदओ कम्मस्स पंचविहो / / 1 / / ' ततश्च नास्ति न