________________ पलंब 712 - अभिधानराजेन्द्रः - भाग 5 पलंब काले जंण खतियं / एवं तेहिं फाडित्ता खइओ। तत्थ जेहिं खातियं ते साहापारगेण भणिता-इतो णित्थिन्ना समाणा पच्छित्तं वहेज्जइ, तत्थे जो सो परिणामगो तेण अप्पसागरियं एगस्स अज्झावगस्स आलोइय तेण सुद्धो त्ति भणियं पंचगब्भं वा दिन्नं। तत्थ जो सो अपरिणामओ सो णित्थिन्नो समाणो सुणगक त्ति सिरे काउंमाह-णमिलिता चाउव्वेजस्स पादेहि पडित्ता साहति, सो चाउव्वेज्जेण घिद्धिकतो णिच्छूडो / जो सो अइपरिणामगो णत्थि किंचि अभ-क्खं अपेयं वा अतिपरिणामपसंगेण सो मायगचंडालो जातो।" अथाक्षरार्थः-चत्वारो मरुका विदेश प्रस्थितास्ततः शाखापारगो वेदाध्ययनपारगतो मरुकस्तेषां मिलितस्तेन च शुनकः सार्द्ध गृहीतः, अरण्ये च गतानां सार्थस्य वधो, मोषणं ततस्तैर्मरुकैरेका दिश गृहीत्वा पलायितैः तृतीयदिने पूतिकुथित मृतकडेवराऽऽकीर्णमुदकं दृष्ट, शाखापारगो वक्ति-एनं शुनकं हत्वा भक्षयामः। अत्र चैकः परिणामको,द्वौ अपरिणती अपरिणामको, अन्तिमश्चतुर्थोऽतीवपरिणामकः प्रथमः शाखापारगवचनं श्रद्दधते, द्वितीयः पुनरपरिणातः कर्णी स्थगितवान्, न श्रृणुम एनां वार्तामपीति कृत्वा मृतः। तृतीयोऽप्यपरिणतश्चिन्तयति-एतदेतस्यामप्यवस्थायामकृत्यं परं किं क्रियते दुःसहं मर्तुमिति शुनकभक्षणं कर्तुं समारब्धः / चतुर्थस्त्यतिपरिणामकःकिमियतः कालात् शिष्टं कथितमित्युक्त्वा अधिक करोति, गोगर्दभाऽऽदिमासान्यपि भक्षयतीति / शाखापारगेण च ते भणिताःअटव्या उत्तीर्णाः प्रायश्चित्तं वहध्वं, तत्र यः प्रथमः परिणामकः स यथालघुकप्रायश्चित्तेन शुद्धो, द्वितीयस्तु मृत एव, तृतीयो निर्धाटितश्चातुर्विद्यैः पङ्क्तेर्बहिष्कृत इत्यर्थः / चतुर्थश्चातिप्रसङ्गात् नास्ति किश्चिदभक्ष्यमपेयं चेति श्वपाकरूपश्चण्डालो जात इति। अथोपयोजनमाहजह पारगो तह गणी, जह मरुगा एव गच्छवासी उ। सुणगसरिसा पलंबा, मडतोयसमंदगमफासं // 212 / / यथा शारखापारगस्तथा गणी आचार्यो, यथा चत्वारो मरुका एव-ममुना प्रकारेण गच्छवासिनः साधवः शुनकसदृशान्यत्र प्रलम्बानि, विप्रकृष्टाध्वाऽऽदिकारणं विना साधूनामभक्षणीयत्वात्। मृततोयसमं मृतकडेवराकुऽऽलोदकतुल्यमप्रासुकोदकं ज्ञातव्यम्, अपेयत्वात्। अथ यदुक्तम्- "एवमिह अद्धाणो, गेलण्णे तहेव ओमम्मि।" तत्राध्यद्वारं विवृणोतिउद्ददरे य सुभिक्खे, अद्धाण पवजणं तु दप्पेणं। लहुगा पुणऽद्धपदे, जं वा आवज्जती तत्थ / / 213 / / ऊर्द्ध दरः पूर्यते यत्र काले तदूर्द्धदरं, प्राकृतशैल्या उद्ददरं, ते दरा / द्विविधाः-धान्यदरा उदरदराश्च / धान्यानामाधारभूता दरा धान्यदराः, कटपल्ल्यादय उदराण्येव दरा उदरदराः / ते उभयेऽपि यत्र पूर्यन्ते तदूर्द्धदरम् / तथा-सुभिक्षं भिक्षाचरैः सुलभभिक्षम् / अत्र चतुर्भङ्गीऊर्द्धदरं सुभिक्षं च 1, ऊर्द्धदरं न सुभिक्षं 2, सुभिक्षं नोर्द्धदरम् 3, नोर्द्धदर नो सुभिक्षम् 4 / तत्र प्रथमभङ्गे तृतीयभङ्गे वा यदाध्वानं दर्पण प्रतिपद्यते यदा यद्यपि न मूलातरगुणविराधनाऽऽदिकं किमप्यापद्यते, तदापि शुद्धपदे चत्वारो लघुकाः प्रायश्चित्तम्, कस्मादप्र्पणाध्वानं प्रतिपद्यते इति ? यद्वा-आत्मविराधनाऽऽदिकं यत्राऽऽपद्यते तत्र तन्निष्पन्न प्रायश्चित्तम् अर्थादापन्नं शेषभङ्गद्वये दुर्भिक्षत्वादध्वगमनं प्रतिपत्तव्यमिति प्रथमतृतीययोरपि भङ्गयोः कारणतो भवेदध्वगमनम्। आह-किं तत्कारणम् ? उच्यतेअसिवे ओमोयरिए, रायडुट्टे भए वऽनागाढे। गेलण्ण उत्तिमढे, नाणे तह दंसणचरित्ते / / 214 // विवक्षितदेशे आगाढमशिवमौदर्य राजद्विष्टं भयं वा प्रत्यनीकाऽऽदिसमुत्थमागाढशब्दः प्रत्येकमभिसंबध्यते, तथा तत्र वसता ग्लानत्वं भूयो भूय उत्पद्यते / यद्वा-देशान्तरे ग्लानत्वं कस्यापि समुत्पन्नं, तस्य प्रतिजागरणं कर्त्तव्यम् / उत्तमार्थं वा कोऽपि प्रतिपन्नस्तस्य निर्यापनं कार्यम् / तथा विवक्षित देशे ज्ञान वा दर्शनं चारित्रं वा नोत्सर्पति। एएहिं कारणेहिं, आगाढेहिं तु गम्ममाणेहिं। उवगरण पुटवपडिले-हिएण सत्थेण गंतव्वं / / 215 / / एतैरनन्तरोक्तैः कारणैरागाद्वैः समुत्पन्नैः सद्भिर्गम्यते, गच्छद्भिश्वाध्वप्रायोग्यमुपकरणं गुलिकाऽऽदिकं गृहीत्वा सार्थः पूर्वमेव प्रत्युपेक्षणीयस्तेन पूर्वप्रत्युपेक्षितेन सार्थेन सार्द्ध गन्तव्यम्। अत्र विधिमाहअद्धाणं पविसंतो, जाणगनीसाए गाहए गच्छं। अह तत्थ न गाहेज्जा, चाउम्मासा भवे गुरूगा / / 216|| अध्वानं प्रविशन्नाचार्यो ज्ञायको गीतार्थस्तन्निश्रया गच्छं सकलमप्यध्वकल्पस्थितिं ग्राहयति। अथ तत्राध्वप्रवेशेऽध्वकल्पस्थितिमाचार्या न ग्राहयेयुस्ततश्चतुर्मासा गुरवः प्रायश्चित्तं भवेयुः / स्यान्मतिः कथं वा गच्छमध्वकल्पं ग्राहयतीति? उच्यतेगीयत्थेण सयं वा, गाहइ छडितो य पचयनिमित्तं / सारिंति तं सुयत्था, पसंग अप्पच्चओ इहरा // 217 / / यद्याचार्य आत्मना केनाऽपि कार्येण व्यापृतस्ततोऽन्येनोपाध्यायाऽऽदिना गीतार्थेन, अथ न व्यापृतस्ततः स्वयमात्मनैवान्यगीतार्थान पुरतः अर्द्धकल्पसामाचारी गच्छ ग्राहयति, स च कथको ग्राहयन्नन्तरान्तरा अर्थपदज्ञातं छईयन् परित्यजन् कथयति,ततो येते श्रुतार्था गीतार्थास्ते तदर्थं यदर्थपदजातं त्यक्तं तत् स्मारयन्ति, यथा विस्मृतं भवतामेव तचैतचार्थपदमिति। किनिमित्तमेवं क्रियते? इत्याह-अगीर्थानां प्रत्ययनिमित्तं-यथा सर्वेऽप्येते यदेनां सामाचारी मित्थमेव जानन्ति, तत् नूनं साऽन्यैवेयामिति: इतरथा यद्येवं न क्रियते, ततस्तेषामगीतार्था ना मध्ये ये अतिपरिणतास्ते अध्वन उत्तीर्णा अपि तत्रैव प्रसङ्ग कुर्युः / ये त्वपरिणामकास्तेषामप्रत्ययो भवेत्, यथैते इदानीमेव स्वबुद्धिकल्पनाशिल्पनिर्मितामेवंविधां स्थितिं कुर्वन्तीति शिष्यः प्राह-या काचिदध्वनि प्रलम्बग्रहणे सामाचारी तामिदानीमेव भणत।