________________ पलंब 706 - अभिधानराजेन्द्रः - भाग 5 पलंब दिटुंतों चउत्थपदं, विकडुभ पलिमंथणाचिन्नं / / 10 / / प्रथमं प्रायश्चित्ते पृच्छा कर्त्तव्या, तत इक्षुकरणेनेचुवाटेन, महर्द्धिकन राज्ञा (दारु ति) दारुभारेण स्थल्या च देवद्रोण्या दृष्टान्तः कर्तव्यः। / चतुर्थ द्रव्यतो भावतोऽपि भिन्नमिति यत्पदं तत्र त्रीणि द्वाराणिविकडुभ, परिमन्थः, अनाचीर्णमिति समासार्थः। अथ विस्तरार्थमाहचोएइ अजीवत्ते, तुल्ले कीस गुरुगो अणंतम्मि। कीस य अचेयणम्मी, पच्छित्तं दिज्जए दवे ?||181 / / शिष्यो नोदयति-भावतो भिन्न द्रव्यतोऽभिन्नं, भावतो भिन्नं द्रव्यतोऽपि भिन्नमिति तृतीयचतुर्थयोर्भङ्गयोः परीत्ते अनन्ते च अजीवत्वे तुल्येऽपि कस्मात् अनन्ते गुरुमासः, परीत्ते लघुमासो दीयते? कस्माचाचेतने द्रव्ये परीत्ते अनन्ते वा जीवोपधातं विनाऽपि प्रायश्चित्तं दीयते ? अपरं च रागद्वेषवन्तो यदचेतने परीने मासलघु, अनन्ते अचेतनेऽपि मासगुरु प्रायच्छन्। तत्र यत्तावन्नोदितं कस्मात्परीत्ते मासलघु, अनन्ते मासगुरु, तद्विषय समाधानमाहसाऊ जिणपडिकुट्ठो, अणंतजीवाण गायनिप्फन्नो। गेहीपसंगदोसा, अणंतकाए अतो गुरुगो॥१५२।। परीत्तादनन्तकायः स्वादुः स्वादुतरः, तथा जिनैस्तीर्थकरैः प्रतिकुष्टः / कारणेऽपि परीत्त ग्रहीतव्यं नानन्तमिति जिनोपदेशात्। अनन्तानां च जीवानां च गात्रेण स निष्पन्नः सुस्वादुत्वाचाधिकतरा तत्र गृद्धिर्भवति, तस्याश्च प्रसङ्गेनानेषणीयमपि गृह्णीयादित्यादयो बहवो दोषा अतोऽनन्तकाये अचित्तेऽपि गुरुको मासः प्रायश्चित्तम् / एवं च द्रव्यानुरूप प्रायश्चित्तं ददतामस्माकं रागद्वेषावपि दुरापास्तप्रसराविति। यचोक्तं कस्मादचित्ते प्रायश्चित्तं प्रयच्छतेति, तत्राऽपि समाधीयते-अनवस्थाप्रसङ्गनियारणार्थ, सजीवग्रहणपरिहारार्थ वाऽचित्तेऽपि प्रायश्चित्तप्रदानमुपपन्नमेवा तथा चात्राऽऽचार्या इक्षुकरणदृष्टान्तमुपदशर्यतिन वि खाइयं नावि वति,न गोणपहियाइए निवारेइ। इतिकरणभईछिण्णो, विवरीऍ पसत्थुवणओ य / / 183|| ''एगेण कुटुंबिणा उच्छुकरणं रोवियं, तस्सपरपेरंतो न वि खाझ्या न वि वईए फलिहियं न वि गोणाई निवारेइ, नावि पहिए खायंते वारेइ, ताहे तेहिं गोणाईहिं अवारिज्जमाणेहिं तं सव्वं उच्छाइयं, एवं करेंतो सो कम्मकरणे भईए छिन्नो, जंच पराइयं खित्त वावि तेण वुत्त-एत्तिय ते दाह तितं पि दायव्यं / एवं सो उच्छुकरणे विणढे मूले छिण्णे जं जस्स देयं तं अदितो बद्धो विणटोय। एस अपसत्थो। अण्णेण वि उच्छुकरणं कयं, सो विवरीतो भाणियट्यो, खाइयादि सव्वं कयं, जे य गोणाई पडति ते तहा अन्ने वि न ढुक्कति। एस पसत्थो।" अथाक्षरार्थः-कश्चित् कुटुम्बी इक्षुकरणं रोपयित्वा नापि खातिकां नापि वृति कृतवान्, न वा गोपथिकाऽऽदीन् खादतो निवारयति, इत्येवं कुर्वन् इक्षुकरणस्य संबन्धिनी या भूतिः कर्मकराऽऽदिदेयं द्रव्यं, तया छिन्नस्त्रुटितः सन् विनष्टः / एतद्विपरीतश्च प्रशस्तदृष्टान्तो वक्तव्यः। उपनयश्च द्वयोरपि दृष्टान्तयोर्भवति। सचाऽयम्को दोस दोहि मिन्ने, पसंगदोसेण अणरुई भत्ते। भिन्नाभिन्नग्गहणे,न तरइ सजिए विपरिहरिउं॥१८४।। कश्चिन्निर्द्धर्मा प्रलम्बानि गृहीतुकामः को दोषः स्यात् द्वाभ्यां द्रव्यभावाभ्यां भिन्ने प्रलम्बे गृह्यमाणे इति परिभाव्य द्रव्यभावभिन्नानि प्रलम्बान्यानोतवान्। यदिच-तस्य प्रायश्चितं न दीयते तदास निर्विशा भूयो भूयस्तानि गृह्णाति, ततश्च लब्धप्रलम्बरसाऽऽस्वादस्य प्रसङ्गदोषेण तैः प्रलम्बैरलभ्यमानैस्तस्य भक्ते अरुचिररोचको भवति, ततो यानि भावतो भिन्नानि द्रव्यतोऽभिन्नानि तेषां ग्रहणे प्रवर्तते, यदा तान्यपि न लभते तदाऽसौ प्रलम्बरसगुद्ध सजीवान्यपि प्रलम्बानि न शक्नोति परिहर्तुमिति। विशेषयोजना त्वेवम्-कुटुम्बिस्थानीय साधुः, इक्षुकरणस्थानीय चारित्रं, परिखास्थानीया अचित्तप्रलम्बाऽऽदिनिवृत्तिः, वृतिस्थानीया गुर्वाज्ञा, गोपथिकाऽऽदिस्थानीया रसगौरवाऽऽदयः, तैरुपद्र्यमाणं प्रलम्बग्राहिणश्चारित्रमचिरादेव विनश्यति, येनाऽसौ कर्षक एकभविकं मरण प्राप्तस्तथाऽयमप्यनेकानि जन्ममरणानि प्राप्नोतीत्येष अप्रशस्त उपनयः / प्रशस्तः पुनरयम्-यथा तेन द्वितीयकर्षकेण कृतं सर्वमपि परिखाऽऽदिकम्, उत्रासिता गवादयः, रक्षितं स्वक्षेत्र, संजातोऽसावहिकानां कामभोगानामाभागी, एवमत्रापि केनाऽपि साधुना द्रव्यभावभिन्नं प्रलम्बमानीतमाचार्याणामालोचितं तैराचार्यः स साधुरत्यर्थ खरण्टितः। ततश्चछड्डाविय कयदंडे, ण कमेति मती पुणो वितं घेत्तुं / न य से बड्डइ गेही,एमेव अणंतकाए वि।।१८।। स साधुराचार्यः प्रलम्बानि छापितः त्याजितः, प्रायश्चित्तदण्डश्च तस्य कृतः, ततश्च छापितकृतदण्डस्य पुनरपि तत्प्रलम्बजातं गृहीतु मतिर्न क्रमते नोत्सहते। न च नैव (से) तस्य प्रलम्बे गृद्धिर्वद्धत, ततश्वाऽसौ विरतिरूपया परिखया गुर्वाज्ञारूपया वृत्त्या परिक्षिप्तमिक्षुकरणकल्पं चारित्रं रसगौरवाऽऽदिगोपथिकैरूपद्रूयमाणं सम्यक् परिपालयितुमीष्ट, जायते चैहिकाऽऽमुष्मिककल्याणपरम्पराया भाजनमेवं तावत्प्रत्येके भणितम्, अनन्तकायेऽप्येवमेव द्रष्टव्यमिति। अथ महर्द्धिकदारूभरदृष्टान्तद्वयमाहकन्नतेपुर ओलोयणेण अनिवारियं विणटुं तु। दारुभरो य विलुत्तो, नगरवारे अवारिंतो // 186|| वितिएणोलोयंती, सव्वा पिंडित्तु तालिता पुरतो। मयजणण सेसाणं वि, एमेव य दारुहारी वि॥१८७|| महिड्डिओ, राया भण्णइतस्स कन्नतेपुरवायायणेहिं ओलोएइतनकोऽवि वारेइ, ताहे तेणं पसंगेणं निग्गंतुमाढत्ताओ तह विण को वि निवारेइ, पच्छा विडपुत्तेहिं समं आलावं काउमाढत्ताओ। एवं अवारिजंतिओ विणट्ठाओ। दारुभरदिढतो- एगस्स सेहिस्सदारुभरिया भंडी पविसति, नगरदारे एक दारुअंसयंपड़ियं तं गेण्हतं पासित्ता नवारिय ति काउं अण्णेण चेडरूवेण भंडीओचेवगहिय, तं अवारिजमाणं पासित्ता सव्यो दारुभरो विलुत्तोलोगेणं। एते अपसस्था / इमे पसत्था वितिएण अंतेपुरपालगेण एगा ओलोपती