________________ पलंब 708 - अभिधानराजेन्द्रः - भाग 5 पलंब जोणिग्याते व हतं, तदादि वा होइ वणकाओ।।१२८|| लोकः प्रायेण बीजभोजी, तने कारणेन बीजमादौ कृतम् / यदा-हे नोदक! समये त्रिविधाऽनुपूर्वी प्ररूप्यते। तद्यथा-पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी च / त्रिविधाऽपि च यथावसरं व्याख्याङ्गमित्यत्र पश्चानुपूर्वी गृहीता / अथवा-बीजं वनस्पतिनो योनिरुत्पत्तिस्थानम्, अतस्तस्य घाते विनाशे सर्वमपि मूलाऽऽदिकं निरपेक्षतया हतं भवति / यदि वातदादिर्वनस्पतिकायो भवति, तबीजमादिर्यस्य स तदादिः, सर्वेषामपि वनस्पतीनां तत एवं प्रसूतेः, अतो बीजाऽऽदिग्रहणं कृतम्। ततश्चविरइसभावं चरणं, बीयासेवी हु सेसघाती वि। अस्संजमेण लोगो, पुट्ठो जह सो वि हु तहेव // 126 // यो बीजाऽऽसेवी स नियमात् शेषाणां मूलाऽऽदीनामपिघाती विज्ञेयो, यश्च मूलाऽऽदीनि घातयति तस्य विरतिस्वभाव यचरणं चारित्रं तन्न भवति। यथा च बीजाऽऽदिप्रतिसेवको लोकोऽसंयमेन स्पृष्टस्तथैवासावपि तैः प्रलम्बैरासेवितैरसंयमेन स्पृष्ट इति। गता संयमविराधना। (10) आत्मविराधनामाहतं चेव अभिहणेजा, आवडियं अहव जीहलोलुपता। बहुगाइं मुंजित्ता, विसूचिकाईहिँ आयवहो / / 130 / / तैलगुडाऽऽदिकं क्षिप्त पुनरापतितं सत् तमेव साधुमभिहन्यात, इदं च प्रागुक्तमपि स्थानाशून्यार्थमत्रोपात्तमिति न पुनरुक्तदोषः। अथवाजिह्वालोलुपतया बहुकानि प्रलम्बानि भुक्त्वा विसूचिकाऽऽदिभी रोगैरुत्पन्नैरात्मवधो भवति / उक्ताऽऽत्मविराधना। तदुक्तौ च व्याख्याता आज्ञाऽऽदयश्चत्वारोऽपि दोषाः। बृ०१उ०२ प्रक० / (गीतार्थेन गच्छसारणा न कर्तुं शक्यते इति 'गच्छसारणा' शब्दे तृतीयभागे 806 पृष्ठे उक्तम्) (प्रलम्बाधिकारे द्रव्यतः परीतमनन्तं वा येन लक्षणेन जानाति तदभिहितम्, 'अणंतजीव' शब्दे प्रथमभागे 263 पृष्ठे) (11) अथ ग्रहणद्वारम्चउभंगि गहणे पक्खे-वए अ एगम्मि मासियं लहुयं / गहणे पक्खेवम्मी, होति अणेगा अणेगेसु // 176| चतुर्भङ्गी ग्रहणे प्रक्षेपके च द्रष्टव्या। तद्यथा एकं ग्रहणम् एकः प्रक्षेपकः 1. एकं ग्रहणमनेके प्रक्षेपकाः 2, अनेकानि ग्रहणानि एकः प्रक्षेपकः 3, अनेकानि ग्रहणानि अनेके प्रक्षेपकाः४ / अत्रच हस्तेन यत् प्रलम्बमादानं तद् ग्रहणम्, यत्पुनर्मुखे प्रवेशनं स प्रक्षेपकः / तत्र प्रथमभङ्गे एकस्मिन् ग्रहणे प्रक्षेपके च प्रत्येकं मासलघु। द्वितीयभङ्गे एकस्मिन् ग्रहणे मासलघु, प्रक्षेपस्थाने यावतः प्रक्षेपकान करोति तावन्तिमासलघूनि। तृतीयभङ्गे तु यावन्ति ग्रहणानि तावन्ति मासलघुकानि,प्रक्षेपकविषयस्त्वेको मासलघु। चतुर्थभङ्गे अनेकेषु ग्रहणेषु प्रक्षेपकेषु वाऽनेकान्येव मासलघुकानि, एतच सामाचारनिष्पन्नं मन्तव्यम् / यत्पुनर्जीवघातनिष्पन्नं चतुर्लधुकाऽऽदिकं तत् स्थितमेव / एतच ग्रहणप्रक्षेपकनिष्पन्न प्रायश्चित्तं / यथा केवली जानाति तथा गीतार्थोऽपीति / गतं ग्रहणद्वारम्। (12) अथ तुल्ये रागद्वेषाभाव इति द्वारम्। तत्र शिष्यः प्राऽऽहपडिसिद्धा खलु लीला, विइए चरिमे य तुल्लदव्येसुं। निद्दयता वि हु एवं, बहुघाए एगें पच्छित्तं / / 177 / / अहो भगवन्तो रागद्वेषाध्यासितमनसः। तथाहि-तुल्यद्रव्येषु, समानेऽपि प्रलम्बद्रव्याणां जीवत्वे इत्यर्थः द्वितीयभने एकफलस्य, चरमभङ्गे बहूनां फलानां बहून् वारान प्रक्षेपं करोतीति बहूनि मासिकानि, इत्थं तृतीयभड्ने तु बहूनि वनफलानि गृहीत्वा वा एकः प्रक्षेपक इति कृत्वैकं मासिकं च दद्धे तन्मम मनसि प्रतिभा-सते-नूनं लीलैव युष्माभिः प्रतिषिद्धा न पुनर्जीवोपघातः। एवं च भगवतां द्वितीये भङ्गे प्रलम्बजीवानामुपरि रागो, बहुमासिकदा-नात् तृतीयभने तु द्वेषः,एकस्यैव मासिकस्य दानात् / यद्वा-द्वितीये भङ्गे गृह्णतां शिष्याण मुपरि द्वेषः। तृतीये तु रागः, कारणं प्राग्वदेव / किं च-युष्माकमेवं बहुधाते युगपद्हूनां मुखे प्रक्षिप्य भक्षणे एकमेव मासिक ददतां निर्दयता भवति। अथरागद्वेषाभावं समर्थयन सूरिः परिहारमाहचोयग ! निद्दयतं चिय, णेच्छंता विडसणं पिनेच्छामो। निवमेच्छछगलसुरकुड-मतामते लिंपभक्खणता // 178|| हे चोदक ! निर्दयतामेव नेच्छन्तो वयं विदशनमपि नेच्छामः, विविध दशन भक्षणं विदशनं, लीला इत्यर्थः / म्लेच्छद्वयदृष्टान्त वर्णयति"जहा एगस्स रनो दो मेच्छा ओलग्गगा, तेण रन्ना तेसि मेच्छाणं तुटेण दो सुरकुडा दो य छगला दिण्णा, ते तेहि य तुट्ठा, तत्थ एगेणं छगलो गलप्पहारेण मारितूण खाइओ दोहिं तिहिं वितिओ एकेक अंग छेत्तुं खायति, तं पिसो छेदे थामं लोणेणं आसुरीहिं वा छगणेण वा लिंपइ।एवं तस्स छगलस्स जीवंतस्सेव गाताणि घेत्तुं खझ्याणि, मतो य पढमस्स एगप्पहारेण एक्को वधो, वितियस्स जत्तिएहिं छेदेहिं मरति तत्तिया वधा, लोगे य पावो गणिजति / एवं जेण पलंबस्स एको पक्खेवो कओ, तस्स एकं मासियं, जो विडसंतो खायति तस्स तत्तिया पच्छित्ता घणचिक्कजाए य पारितावणियाए किरियाए वट्टति। विउसणा णाम-आसादेतो थोवं खायति।" अत एवाऽऽह-"निवभेच्छ' इत्यादि। कस्यचिद् नृपस्य द्वौ म्लेच्छाववलगको, तेन तुष्टन तयोः छगलको सुराकुटौ च दत्तौ, तत्रैकेन छगलकस्य मृतस्य द्वितीयेन पुनरमृतस्यैवैकैकमनं छित्त्वा लक्षणाऽऽदिभिरालिम्प्य भक्षणं कृतमिति। किंचअच्चित्ते वि विदसणा, पडिसिद्धा किमु सचेयणे दवे ? कारणे पक्खेवम्मि तु, पढमो तइओ अजयणाए / / 176 // अचित्तेऽपि द्रव्ये विदशना प्रतिषिद्धा, किं पुनः सचेतने द्रव्ये?, सचित्तं प्रलम्ब सुतरा विदशनया न भक्षणीयमिति भावः। यत्र पुनः कारणे सचित्तं मुख प्रक्षिपति, तत्राऽपि प्रथमभङ्गः एकग्रहणकप्रक्षेपरूपः, तृतीयो भङ्गस्त्वनेकग्रहणैकप्रक्षेपरूपो यतनया सेवितव्यः। अथानन्तकायस्य वर्जनति द्वारम् / यतः प्रथमतो द्वारगाथामाहपायच्छित्ते पुच्छा, उच्छुकरणमहिड्डिदारुयथलीय।