SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ परिग्गहवेरमण 563 - अभिधानराजेन्द्रः - भाग 5 परिग्गहवेरमण - नवरम् अपरिग्रहरूपं विरमणं यत्तत्तथा (पढमं ति) पञ्चाना मध्ये प्रथम भावनावस्तु शब्दनिस्पृहत्वं नाम / तच्चैवम्श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् मनोज्ञाः सन्तो ये भद्रकास्ते मनोज्ञभद्रकास्तान्। (किं ते ति) तद्यथावरमुरजा महामईला, मृदङ्गा मर्दला एव, पणवा लघुपटहाः, (ददुर त्ति) दर्दुरटः चविनद्धमुखः कलशः, कच्छमी वाद्यविशेषः, वीणा विपञ्ची वल्लकी च वीणाविशेषाः वद्धीशकं वाद्यविशेष एव, सुघोषा घण्टाविशेषः, नन्दी द्वादश-तूर्यनिर्घोषः / तानि चामूनि- ''भभा मउद्द मद्दल हुडुक्क तिसिला य करड कंसाला। काहल वीणा वंसो, संखो पणवो य बारसभो / / 1 // " तथा-सूसरपरिवादिनी वीणाविशेष एव, वंशो वेणुः, तूणको वाद्यविशेषः, पवाकोऽप्येवम्, तन्त्री वीणाविशेष एव, तला हस्ताः, ताला कसिकाः, तलताला वा हस्ततालाः, एतान्येव तूर्याणि वाद्यानि, एषां यो निर्घोषो नादः, तथा गीत गेय, वादितं च वाद्यं सामान्यमिति द्वन्द्वः / ततः श्रुत्वेति योगाद् द्वितीया / तथा नटनर्तकजल्लमल्लपौष्टिकविडम्बककथकप्लवकलाशकाऽऽख्यायकलङ्क मङ्ख तूणइल्लतुम्बबीणकतालाचरैः पूर्व व्याख्यातैः प्रक्रियन्ते विधीयन्ते यानि तानि नटाऽऽदिप्रकरणानि तानि च / कानि तानीत्याह-बहूनि अनेकानि, मधुरस्वराणां कलध्वनीनां गायकानां यानि गीतानि सुख स्वराणि, तानि श्रुत्वा तेषु श्रमणेन न सक्तव्यमिति सम्बन्धः / तथा काञ्ची कट्याभरणविशेषः, मेखलाऽपि तद्विशेष एव, कलापको जीवाऽऽभरण, प्रतरकाणि प्रतरेकश्वाऽऽभरणविशेषः, पादजालकं पादाऽऽभरणं, घण्टिका प्रतीता, किड् किण्यः क्षुद्रप्पण्टिकास्तत्प्रधानम्, (रयण त्ति) रत्नसम्बन्धि ऊऊहजड्ने योर्जालक यत्तत्तथा। (छुद्विय त्ति) क्षुद्रिकाऽऽभरणविशेषः, नूपुरं पादाऽऽभरण, चलनमालिकाऽपि तथैव, कनकनिगडानि जालकं चाऽऽभरणविशेषः / एतान्येव भूषणानि तेषां ये शब्दास्ते तथा / किंभूतानीत्याह-लीलाचड् क्रम्यमाणानां हेलया कुटिलगमनं कुर्वाणानामुदीरितान् संजातान्, लीलासंचलनसंजनितानीत्यर्थः / तथा तरुणीजनस्य यानि हसितानि भणितानि च कलानि माधुर्यविशिष्टध्वनिविशेषरूपाणि रिभितानि स्वरवोलनान्यतिमञ्जुलानि च मधुराणि तानि तथा, गुणवचनानि च स्तुतिवादाश्च, बहूनि प्रचुराणि मधुरजनभाषितान्यमत्सरलोकभणितानि श्रुत्वा / किमित्याह-तेष्वित्युत्तरस्येह संबन्धात् तेषु अन्येषु चैवमादिकेष्वेवप्रकारेषु शरदेषु मनोज्ञभद्रकेषु न तेष्विति योजितमेव, श्रमणेन न सक्तव्यमिति सम्बन्धः / वाऽपि न रक्तव्यं न रागः कार्यः, न गर्द्धितव्यम् अप्राप्तेष्वाकाङ्गान कार्या, न मोहितव्यं तद्विपाकपर्यालोचनाया न मूड्डेन भाव्यम्, न विनिवातं तदर्थमात्मनः परेषां वा विनिहननम् आफ्तव्यं प्राप्तव्यं, न लोब्धव्यं सामान्येन लोभो न विधेयः,न तोष्टव्यं प्राप्ती न तोषो विधेयः, न हसितव्यं प्राप्तौ विस्मयेन हासो न विधेयः, न स्मृति वा स्मरणं मतिं वा तद्विषय ज्ञान (तत्थ त्ति) तेषु शब्देषु कुर्यात् / पुनरपि चेति शब्दगतं प्रकारान्तरं पुनरन्यदपि चोच्यत इत्यर्थः / श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् अमनोज्ञाःसन्तो ये पापकारस्ते अमनोज्ञपापकाःतान्। (किं ते त्ति) तद्यथा-आक्रोशो मियस्वेत्यादि वचनं, | परुषरे मुण्ड ! इत्यादि खिंसनं निन्दावचनम् अशीलोऽसावित्यादिकम्, अपमाननमपूजावचन-यूयमित्यादि वाच्ये त्वमित्यादि, तथा तर्जनं ज्ञास्यसि रे ! इत्यादि वचनं, निर्भर्सनम् अपसर मे दृष्टिमार्गादित्याऽऽदिकं, दीप्तवचनं कुपितवचनं, त्रासनं फेल्काराऽऽदिकं भयकारि, उत्कूजितम् अव्यक्तमहाध्वनिकरणं, रुदितम् अश्रुविमोचनयुक्तं शादित, रटितमारटीरूपं, क्रन्दितमाक्रन्दिः इष्टवियोगाऽऽदाविव, निधुष्ट निर्घोषरूप, रसितं शूकराऽऽदिशब्दितमिव, करुणं, करुणोत्पादक, विलपितमार्तस्वरुपामिति / एषां द्वन्द्वः / ततस्तानि श्रुत्वा, तेष्विति सम्बन्धात्तथाऽऽक्रोशाऽऽदिशब्देषु अन्येषु चैवमा दिषु शब्देष्वमनोज्ञपापकेषु न तेष्वितियोजितमेव, श्रमणेन रोषितव्यं, न हीलितव्यं नाऽवज्ञा कार्या, न निन्दितव्यं निन्दा न कार्या, न खिसितव्यं लोकसमक्षं निन्दा न कार्या न छेत्तव्यम् अमनोज्ञहेतुतो द्रव्यस्य छेदो न कार्यः, न भेत्तव्यं तस्यैव भेदो न विधेयः / (न वहेयव्वं ति) न वधो विधेयः, न जुगुप्सा वृत्तिका वा जुगुप्सावर्त्तनं, लभ्या उचितोत्पादयितुं जनयितुं. स्वस्य परस्य वा। प्रथमभावनानिगमनार्थमाह-एवमुक्तनीत्या श्रोत्रन्द्रियविषया भावना श्रोत्रेन्द्रिय निरोद्धव्यमन्यथाऽनर्थ इत्येवंरूपा परिभावना आलोचना, तया भावितो वासितो, भवति जायतेऽन्तरात्मा, ततश्च मनोज्ञाऽमनोज्ञत्वाभ्यां ये (सुडिभदुभि त्ति) शुभाऽशुभाः, शब्दा इति गभ्यते, तेषु क्रमेण यो रागद्वेषो तयोर्विषये प्रणिहितः संवृत आत्मा यस्य स तथा, साधुनिर्वाणसाधनपरः, मनोवचनकायगुप्तः, संवृतः संवरवान्, पिहितेन्द्रियो निरुद्धहषीकः, प्रणिहितेन्द्रियो वा तथाभूतः सन्, चरेदनुचरेदनुपालयेद्धर्म चारित्रम / प्रश्न०५ सं० द्वार। अहावरं पंचमं भंते ! महव्वयं सव्वं परिग्गहं पच्चक्खामि, से अप्पं वा बहु वा अणुं वा थूलं वा चित्तमंतमचित्तं वा णेव सयं परिग्गहं गिण्हेजा, णेवऽण्णेहिं परिग्गहं गिण्हावेजा, अण्णं पि परिग्गहं गेण्हतं ण समणुजाणेज्जाजाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणासोयओ णं जीवे मणुण्णामणुण्णाई सद्दाई सुणेइ, मणुण्णा-मणुण्णेहिं सद्देहिं णो सञ्जञ्जा, णो र ज्जा, णो गिज्झेज्जा, णो मुच्छेज्जा, णो अज्झोववजेज्जा, णो विणिग्यायमावजेज्जा, केवली बूयाणिग्गंथे णं मणुण्णामणुणे हिं सद्देहिं सज्जमाणे रज्जमाणे०जाव विणिग्घायमावञ्जमाणे संति भेया संति विभंगा संति केवलिपण्णत्ताओ धम्माओ भंसेज्जा, "ण सका णं सोउंसद्धा, सोयविसयमागया। रागद्दोसा उजे तत्थ, ते भिक्खू पडिवज्जए / 11 / / " सोयओ जीवे मणुण्णा-मणुण्णाई सद्दाइंसुणेति पढमा भावणा ||1|| आचा०२ श्रु०३ चू०! विइयं चवखुइंदिएण पासिय रूवाणि मणुण्णभद्दकाई सचित्ताचित्तमीसकाई, कटे पोत्थे य चित्तकम्मे लेप्पकम्मे सेले य दंतकम्मे पंचहिं वण्णे हिं अणेगसंठाणसंठियाई गंथिमवेढिमपूरिमसंघाइमाणि मल्लाइं बहुविहाणि य अहियं
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy