________________ परिग्गहवेरमण 562 - अभिधानराजेन्द्रः - भाग 5 परिग्गहवेरमण सम एव समिकः समभावो यस्य स तथा / यथाहि वाताभावे हदः समो भवति अनिम्नोन्नतजलोपरिभाग इत्यर्थः / तथा-साधुः सत्कारव्य - त्कारयोः अमुन्नतानिम्नभावतया समा भवतीति / उद्धृष्टसुनिर्मलमिवाऽऽदर्शमण्डलतलं, प्रकटभावेन निर्मायितया अनिगूहितभावेन सुस्वभावः शोभनस्वरूपः, शुद्धभावो वेति। शौण्डीरश्चाऽऽरभटः कुञ्जर इवपरीषहसैन्यापेक्षया वृषभ इव जातस्थामा अङ्गीकृतमहाव्रतभारोबहने जातसामर्थ्यः, सिंह इव यथा मृगाधिपः, इति स्वरूपविशेषणं भवति, दुःप्रधृष्टः अपरि-भवनीयो मृगाणामेवं साधुः परीषहाणामिति / / 10 / / सारयसलिलं व सुद्धहियए भारंडे चेव अप्पमत्ते खग्गिविसाणं व एगजाए खाणू विव उड्डकाए सुण्णागारे व्व अप्पडिकम्मे सुण्णागाराऽऽवणस्संऽतो निवापसरणपदीवज्झाणमिव निप्पकंपे जहा खुरे चेव एगधारे जहा अही चेव एगदिट्ठी आगासं विव णिरालंबे विहगे विव सव्वओ विप्पमुक्के कयपरनिलए जहा चेव उरए अपडिबद्धो अनिलो व्व जीवो व्व अपडिहूयगई गामे गामे य एगरायं नगरे णगरे पंचरायं दूइज्जंते य (11) / शारदसलिलमिव शुद्धहृदयो, यथा शारदजलं शुद्धं भवती त्येवमयं शुद्धहृदय इति भावना भारण्ड इव अप्रमत्तः, यथा भारण्डाभिधानः पक्षी अप्रमतश्चकितो भवतीत्येवमयमपीति खनि: आटव्यः चतुष्पदविशेषः, स ह्येकशृङ्गो भवतीत्युच्यते, खङ्गिविषाणभिवैकजातो रागाऽऽदिसहायवकल्यादकीभूत इत्यर्थः। स्थाणुविवोर्द्धकायः कायोत्सर्गकाले, शून्यागारमिवाप्रतिकर्मा इति व्यक्तम्। (सुन्नागाराऽऽवणस्संतो ति) शून्यागारस्य शून्याऽऽपणस्य चान्तर्मध्ये वर्तमानः। किमिवकिम्विध इत्याहनिर्वातः शरणप्रदीपध्यानमिव वातवर्जितगृहदीपज्वलनमिव निःप्रकम्पो दिव्याऽऽद्युपंसर्गसंसर्गेऽपि शुभध्याननिश्चलः (जहाखुरे घेव एगधारे त्ति) चेवशब्दः समुचये / यथा क्षुर एकधार एवं साधुरुत्सर्गलक्षणेकधारः / (जहा अही चेव एगदिट्ठित्ति ) यथा अहिरेकदृष्टिद्धिलक्ष, एवं साधुर्मोक्षसाधनकदृष्टिः / (आगासे चेव निरालंबे त्ति) आकाशमिव निरालम्बो, यथाऽऽकाशमनालम्बनं तथा साधुः न किशिदालम्बते, एवं साधुग्रामदेशकुलाऽऽद्यालम्बनरहित इत्यर्थः। विहग इव सर्वतो विप्रमुक्तः,निःपरिग्रह इत्यर्थः। तथा परकृतो निलयो वसतिर्यस्य स परकृतनिलयो, यथोरगः सर्पः, तथाऽप्रतिबद्धः प्रतिबन्धरहितोऽनिल इव वायुरिव, जीव इव अप्रतिहतगतिः अप्रतिहतविहार इत्यर्थः / ग्रामे ग्रामे चैकरात्रि यावत्, , नगरे नगरे च पञ्चरात्रिम्। (दूइज्जते इति) विहरंश्चेत्यर्थः एतश्च भिक्षुप्रतिमाप्रतिपन्नसाध्वपेक्षया सूत्रमवगन्तव्यम् (11) / कुत एवंविधोऽसावित्याहजिइंदिए जियपरिसहे जओ निभए विऊ सचित्ता- | चित्तमीसके हिं दव्वे हिं विरागयं गए संचयतो विरए मुत्ते | लहुके निखकंखे जीवियमरणाऽऽसविप्पमुक्के निस्संघं निव्वर्ण | चरित्तं धीरे कारण फासयंते सययं अज्झप्पज्झणजुत्ते निहुके एगे चरेज धम्मं / इमंच परिग्गहवेरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहियं अत्तहियं पेचाभाविकं आगमेसि भदं सुद्ध नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाणं विउसमणं (12) जितेन्द्रियो जितपरिषहो यत इति निर्भयो भयरहितः (वि उत्ति) विद्वान् गीतार्थः / पाठान्तरेण-विशुद्धो निरतिचारः। सचित्ताचित्तमिश्रकेषु द्रव्येषु विरागतां गतः, संचयाद्विरतः, मुक्त इव मुक्तः,लघुकः गौरवायत्यागात्, निरवकाक्षः आका-ड्क्षावर्जितः, जीवितमरणयोराशया वाञ्छ्या विप्रमुक्तो यः स तथा, निःसन्धि चारित्रपरिणामव्यवच्छेदाभावेन निःसन्निधानं निणं निरतिचारं चारित्रं संयम, धीरो बुद्धिमान, अक्षोभी वा, कायेन कायक्रियया, न मनोरथमात्रेण स्पृशन्, सततमनवरतमध्यात्मनाशुभमनसा ध्यानं यत्तेन युक्तो यः स तथा निभृत उपशान्तः, एको रागाऽऽदिसहायाभावात्, चरेदनुपालयेद्धर्म चारित्रलक्षणमिति // 12 // भावनातस्स इमा पंच भावणाओ चरिमस्स वयस्स हुंति (अ) परिग्गहवेरमणरक्खणाट्ठयाए / पढमं सोइंदिएण सोचा सहाई मणुण्णभद्दगाई, किं ते वरमुरयमुइंगपणवदद्दुरकच्छभिवीणविपंचिवल्लयिवद्धीसकसुघोसणंदीसूसरपरिवादिणिवं सतूणकपवायतंतीतलतालतुडियनिग्रोसगीयवाइयाइं णडणट्टगजलमल्लमुडिकवेलंवककहकपवकलासआइक्खकलंखमंखतूणइल्लतुंववीणियतालायरपकरणाणि य बहूणि महुरसरगीयसुस्सराई कं चीमेहलाकलावगपतरकपतरेकपायजालकघंटि यखिं खिणिस्यणोरुजालयछु दियनेउरचलणमालियकणगनियलजालकभूसणसद्दाणि लीलाचंदकम्ममाणाणुदीरियाइ तरुणीजणहसियभणियकलरिभियमंजुलाइं गुणवयणाणि य बहूणि महुरजणभासियाई अण्णेसु य एवमाइएसु सद्देसु मणुण्णभद्दएसुन तेसु समणेण सज्जियव्वं न रजियव्वं न गज्झियव्वं न मुच्छियव्वं न विनिघायं आवजियव्यं न लुलियव्यं नतुसियव्वं न हसियव्वं न सतिं च मतिं च तत्थ कुआ। पुणरवि य सोइंदिएण सोचा सहाई अमणुण्णपावकाइं, किंते ? अक्कोसफरुसखिंसणअवमाणणतज्जणनिब्भत्थणदित्तवयणतासणउक्कू जिणरुण्णरडियकं दियनिरघुट्ठरसियकलुणविलवियाई अण्णेसु य एवमाइएसु सद्देसु अमणुण्णपावएसुन तेसु समणेणं रुसियव्वं न हीलियव्वं न निंदियव्वं न खिंसियध्वं न छिंदियव्वं न पिंदियव्वं न वहेयव्वं न दुगुंछावत्तिया वि लम्भा उप्पाएउ / एवं सोइंदियभावणाभाविओ भवइ अंतरप्पा मणुण्णामणुण्णे सुबिभदुडिभरागदोसे पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पहिइंदिए चरेज्ज धर्म? (13) / (इमा पंचेत्यादि) "रक्खणट्टयाए'' इत्येतदन्तं सुगमम्,