________________ पत्त 410- अभिधानराजेन्द्रः - भाग 5 पत्त मनापृच्छ्य अनामन्त्र्य या अन्येषां यदृच्छ्या दातुं वा अनुप्रदातुं वा, / कल्पते (से) तस्यतान् आपृच्छ्य आमन्त्र्य च अन्येषां दातुवा अनुप्रदातुं वा, एष सूत्राक्षर संस्कारः / / 210 / / अधुना भाष्यकृत्सामान्यविशेषवचनरूपयोरुद्देशनिर्देशयोःस्वरूपमाहसाहम्मिय उद्देसो, निद्देसो होइ इत्थिपुरिसाणं। गणि वायग उद्देसो, अमुय गणी वायओ इयरो // 211 / / साधर्मिक इत्युद्देशो भवति स्त्रीणां पुरुषाणां वाऽभिधानमिति निर्देशः / अथवा-गणी वाचक इत्युद्देशः: अमुको गणी, अमुको वाचक इतीतरो निर्देशः। सम्प्रति नियुक्तिविस्तरःऊणातिरित्तधरणे, चउरो मासा हवंति उग्घाया। आणाइणो य दोसा, संघट्टणमादि पलिमंथो॥२१॥ गणनया प्राणेन च ऊनस्यातिरिक्तस्य वा उपकरणस्य धरणे प्रायश्चित्तं चत्वारो मासा उद्घाता लघवः, आज्ञाऽऽदयश्च दोषाः। तथा पात्रपरिकर्मणां कुर्वन् तज्जातान् प्राणान्संघट्टयति, आदि-शब्दात्परितापयति, अभद्रावयति वा, ततस्तन्निमित्तमपि तस्य प्रायश्चित्तम्। तथा प्रतिदिवसमुभयकालं पात्राणि अन्यद्वाऽतिरिक्तमुपकरणं प्रत्युपेक्षमाणस्य परिमन्थः सूत्रार्थव्याघातः, तस्मात् गणनया प्रमाणेन सूत्रोक्तमुपकरणं धारयितव्यम्। तत्र पात्रमधिकृत्यातिरेक व्याख्यानयतिदो पायाऽणुण्णाया, अतिरेग तइययं पमाणातो। धारतें प णघट्टण, भारे पडिलेह पडिमंथो / / 213 / / द्वे पात्रे तीर्थकरैरनुज्ञाते, तद्यथा-पात्रममत्रं च। तत्र यदि तृतीयं गृह्णाति तदा गणनयाऽतिरेकं भवति, यच प्रमाणं पात्रस्योक्तं, ततो यदि बृहत्तरं गृह्णाति तदा प्रमाणतोऽतिरेकम्। तत्र गणनया प्रमाणेन चातिरिक्तं पात्रं धारयति कर्मणा तज्जातप्राणसंघट्टयनम्, उपलक्षणमेतत्-प्राणानां परितापनमपद्रावणं च / तथा-अव्वनि तद्वहने भारः, उभयकालं प्रतिदिवसं प्रतिलेखने परिमन्थः। अथ परः प्रश्नमुपदर्शयतिचोदेती अतिरेगे, जइ दोसा तो धरेउ ओमं तु। एक बहूण कप्पइ, हिंडंतु य चक्कवालेणं // 214|| अत्र परश्वोदयति-यद्यतिरेके पात्रे गृह्यमाणेऽनन्तरोक्तदोषास्ततोऽवमं गणनया हीनं पात्रं धारयतु, यथा यथा अल्पोपधिता तथा बहुबहुतरगुणसंभवात्। कथं तया हीनंधारयत्वित्याह-एकं बहूनां पञ्चानां कल्पते, ते च पञ्चजनाचक्रवालेन एकस्मिन् दिने एको द्वितीय इत्यादिरूपेण हिण्डन्ताम्। एतदेव स्पष्टयतिपंचण्हमेगपायं, दसमेण एक एक्कों पारेउ। संघट्टणाऽऽदि एवं, न हों ति दुविहं च ओमम्मि।।२१५।। पञ्चानां जनानामेकं पात्रं भवतु, तेषां च मध्ये एकैकक्रमेण चक्रवाललक्षणेन दशमेन पारयतु, यस्मिन् दिवसे पारणकं सत्पात्रं गृहीत्वा | हिण्डन्तामेवं च तेषां परिपाट्या दशमदशमातिक्रमे दिवसे वारको भवति / एवं च संघटनाऽऽदयो दोषा न भवन्ति / किं च-तेषां यद् द्विविधभवम.. मवमौदर्य पञ्चानामेकस्य पात्रस्य भवेत्तदवभौदर्य च दशमदशमातिक्रमण वारणात् तद् गुणो भवति। एतदेवाऽऽहआहारे उवगरणे, दुविहं ओमंच होति तेसिं तु / सुत्ताभिहियं च कयं, वेहारियलक्खणं चेव // 216 / / द्विविधं द्रव्यभावभेदतो द्विप्रकारमवमं भवति, तेषामाहारे उपकरणे च आहारविषयं भावमुपकरणविषयं द्रव्यावममित्यर्थः। सूत्रे चाभिहित वैहारिकलक्षणं गच्छतामल्पोपधिताऽल्पोहारता च प्रकृतं भवति। एतदेवाऽऽहवेहारियाण मण्णे, जह सिं जल्लेण मइलियं अंग। मइलाय चोलपट्टा, एगं पायं च सव्ये सिं // 217 / / मन्ये यथाऽमीषा वैहारिकाणां जल्लेन शरीरोच्छेदेन मलिनमङ्ग , यथा च मलिनाश्चोलपट्टास्तथा सर्वेषामेकं पात्रं भवति / न एक-पात्रग्रहणे विहारिकलक्षणं कृतं भवति। अत्राऽऽचार्य आहजेसिं एसुवदेसो, तित्थगराणं तु कोविया आणा। चउरो य अणुग्घाया, णेगे दोसा इमे होति / / 218 / / येवामेष उपदेशस्तैस्तीर्थकराणामाज्ञा कोपिता, तीर्थकरैः पात्रद्वयस्य प्रत्येकमनुज्ञानात, तेषां च प्रायश्चित्तं चत्वारो मासा अनुद्धाता गुरवः, यत इमे वक्ष्यमाणा अनेके दोषा भवन्ति। तानेवाऽऽहअद्धाणे गेलन्ने, अप्पपर वयाइँ भिन्नमारियाए। आदेसबालवुड्डा, सेहा खमगा य परियत्ता / / 216 / / अध्वनि ग्लानत्वेन च आत्मा परश्च तैस्त्यक्तः / इयमत्र भावना-ये अध्वनिर्गता विस्मरणतः पतितोपधयः स्तेनोपहृतोपधयो वा भिन्नपात्रा वा तद्विषये आत्मा परो वा त्यक्तो भवति, यदि तेषां पात्रं ददाति तदा आत्मात्यक्तः, पात्राभावे भिक्षाऽटनासंभवात्। अथ नददाति अध्वनिर्गतरत्यक्त्वा अपि बहूनामेषां पात्रमित्युक्तं तत एकेन पात्रेण यदानीत न तेन बहवोऽध्वनिर्गताः संस्तरेयुः, तथा ग्लानविषयेऽप्यात्मा परो वा त्यक्तः स्यात्। तथाहि-यदिग्लानस्यददातितत्पात्रंतदात्मात्यक्तोऽथ न ददाति तदा परो ग्लान इति, अन्यस्याध्वनिर्गतानां ग्लानस्य वा तत्पात्रार्पणे स्वयं कुलालभाण्ड यावतिकं स्यात्तचाऽऽनीतं, यदि कथमपि भिद्येत तदा तन्मूल्यदाप्ये कलहाऽऽदयो वा दोषाः स्यु। (वयाइं ति) व्रतान्यपि च परित्यक्तानि स्युर्यतः प्रत्येकपात्रगहणे एकत्र संसक्तं भक्तपानं वा गृहीत्वा प्रत्युपेक्ष्यान्यत्र प्रक्षिपति, बहूना त्वेकपात्राभ्यनुज्ञाने शीतोष्णानि संसक्तासंसक्तपानानि गृह्णतः प्राणानां विराधना / तथा चव्रतानि परित्यक्तानि,(भिन्न त्ति) एकं पात्रं कदाचिद् भिन्नं स्यात् तदा कुतोऽन्यत्तत्कालं लभ्यतेऽन्यत्र मार्गयतः स एव पलिमन्थदोषः / कुलालभाण्डग्रहणे च प्रागुक्ता दोषास्तथा एकपात्रपरिग्रहे आचार्या आदेशाः प्राघूर्णका बालवृद्धाः शैक्षकाः क्षपकाश्च परित्यक्ताः, यत ए