________________ पढिमा 377 - अभिधानराजेन्द्रः - भाग 5 पढिमा पढिमा स्त्री० (प्रतिमा) "चूलिकापैशाचिके तृतीय-तुर्ययोराद्यद्वितीयौ" ||8/4:325 / / इति सूत्रे निर्दिष्टोऽयं शब्दः / बिम्बे, प्रा०४ पाद। अभिग्रहविशेषे, "तत्संबन्धिप्रतिष्ठित जिनबिम्बं वन्य तर्हि ते कथ न वन्द्याः ? इति प्रश्ने, उत्तरम्- "पासत्थो उसन्नो कुसीलसंसत्तउ अहाछंदो / दुगदुगदुगेण तिविहा, अवंदणिज्जा जिणमयम्मि'' ||1|| इत्यादिवचनात्तेषामन्द्यत्वम्, प्रतिमानांत्वन्यतीर्थिकपरिगृहीतप्रतिमाव्यतिरेकाणान्यासां वन्द्यत्वमस्तीति / 130 प्र० / सेन० 3 उल्ला० / अभिनिवेशमिथ्यादृकप्रतिष्ठितं जिनबिम्बं वन्द्यतां प्राप्तं तत्र किं बीजम् ? इति प्रश्ने, उत्तरम्-आत्मपूर्वसूरिभिस्तद्वन्दनादौ अनिवारणमेव बीजम्, किंच शास्त्रेऽभिनिवेशमिथ्यादृष्टित्वं निन्हवानां प्रोक्तम्, सांप्रतीना रक्तमतिनो दिगम्बरं विहाय निन्हवा इति न व्यवन्हियन्ते, तथैव गुर्वादीनामाज्ञासद्भावादिति / 131 प्र० / सेन०२ उल्ला० / अप्रतिष्ठितजिनबिम्बमर्चयतः, पादादिनाऽऽशातयतो वा लाभालाभौ न वा ? इति / लाभश्चेत्तर्हि प्रतिष्ठायां किंप्रयोजनम् ? इति प्रश्ने, उत्तरम्-अप्रतिष्ठितप्रतिमानां वन्दने व्यवहारो नास्तीति कथं लाभः? आशातनाकरणे तु प्रत्यवायो भवत्येव, तासु तीर्थकरा-कारोपलम्भादिति // 133 प्र० / सेन० 2 उल्ला०। श्राद्धविधिवृत्तौ प्रतिमायाः सृष्ट्या नवागतिलककरणमुक्तं तत्र प्रथमं किं वामपादे तत्कर्तव्यम्, अथवा दक्षिणपादे ? इति प्रश्ने, उत्तरम्-जिनप्रतिमायाः पूजाकरणावसरे नवाङ्गेषु तिलकानि दक्षिणचरणादारभ्याऽङ्गसृष्ट्या विधेयानीति 213 प्र०। सेन०२ उल्ला० / आचार्यादीनां प्रतिमास्तूपप्रतिष्ठाऽक्षराणि कुत्र ग्रन्थे सन्ति? इति प्रश्ने, उत्तरम्आचार्यमूर्ति स्तूपयोःस्थापनमन्त्रो यथा-"उँनमो आयरियाणं, भगवंताणं, नाणीणं, पंचविहायारसुट्टियाणं; इह भगवंतो आयरिआ अवयरंतु, साहु-साहुणी-सावय-साविआपूर्य पडिच्छंतु, सव्वसिद्धिं दिसंतुस्वाहा' अनेन मन्त्रेण वासक्षेपः। उपाध्याय-मूर्तिस्तूपयोः उँनमो उवज्झायाणं, भगवंताणं, बार-संगपढणपाढगाणं, सुअहराणं सज्झायज्झाणसत्ताणं; इह उवज्झाया भगवंतो अवयरंतु, साहु-साहुणी सावय सावियापूअं पडिच्छंतु, सव्वसिद्धिं दिसंतु 'अनेन मन्त्रेण वासक्षेपः। साधु-साध्वीमूर्ति स्तूपयोः- “ओनमो सव्वसाहूणं. भगवंताणं, पंचमहव्वयधराणं, पंचसमियाणं, तिगुत्ताणं, तवनियम-णाण-दसण-जुत्ताणं, मुक्खसाहगाणं, साहुणो भगवंतो इह अवयरंतु भगवईउ साहुणीउ इह अवयरंतु, साहु-साहुणी-सावय-साविआकयं पूअंपडिच्छतु, सव्वसिद्धिं दिसंतु स्वाहा'' अनेन मन्त्रेण वासक्षेप इत्याचारदिनकरे श्रीवर्द्धमानसूरिकृते, इत्यादिग्रन्थानुसारेण आचार्यादीनां प्रतिमास्तूपप्रतिष्ठापनाक्षराणि ज्ञेयानीति॥७ प्र० 1 सेन० 3 उल्ला० / विक्रयकारिसमुच्छेदितनाम लाञ्छनानां प्रतिष्ठितार्हत्प्रतिमानां पुनर्लक्ष्मादिकरण शुद्ध्यति न वा? इति प्रश्ने, उत्तरम्तासामभिधान लक्ष्मादिकरणं प्रायो न शुक्ष्यति कदाचित्कारणे यद्यावश्यकं कर्तव्यं स्यात् तदा तद्विधानानन्तरं प्रतिष्ठितवासक्षेपादिना शुद्धिर्भवतीति श्रीभगवत्पादानामनुशिष्टिरिति / / 25 प्र० / सेन०३ उल्ला० / प्रतिमाधरो यतिर्यदि परीषहादिना न क्षुभ्यति तदाऽवधिज्ञानादि प्राप्नोति, यदि च क्षुभ्यति तदोन्मत्तरोगातङ्कादि वा प्राप्नुयात् परं स कथं क्षुभ्यति? यतः स्वयं पूर्वधरस्ततः पूर्वं दत्तोपयोगो भविष्यति, पूर्वधराऽऽज्ञया च प्रतिमा प्रतिपन्नोऽस्तीति प्रश्ने उत्तरमयथा प्रतिमाप्रतिपत्तुःस्वयं पूर्वधरत्वम् तथाऽऽज्ञादातुरपि, तथाऽपि तयोश्छद्यस्थत्वे तस्मिन्समये श्रुतोपयोगाभावोऽपि भवति नेन स कथं क्षुभ्यति इत्याशङ्कानिरवकाशः इति / 142 प्र० सेन० 3 उल्ला० पञ्चशतधनुःप्रमा-णाया:प्रतिमायाःपूजनं कया युक्त्या देवैर्विधीयते, किंच कुर्यादुत्प्लुत्य वा? तत्र राजप्रश्नीयमध्ये महत्परिमाणशरीर सूर्याभदेवेन कृतमित्युक्तम, उत्प्लुत्य तु न शोभते, यथा भवति तथा प्रसाद्य-मिति प्रश्ने, उत्तरम्-प्रतिमानुसारेण देवाःशरीरं कृत्वा पूजां कुर्वन्ति, अनभिधाने त्वविवक्षैव बीजमिति संभाव्यते। 183 प्र०। सेन० 3 उल्ला० / जिनालये क्षेत्रपालप्रतिमाया मानने, पूजने, सिन्दूरचढापने च सम्यक्त्वस्य दूषणं लगति न वा? इति प्रश्ने, उत्तरम् क्षेत्रपालप्रतिमायाः क्षेत्ररक्षाकरत्वेन सिन्दूर-तैलचढापने दूषणं न लगति, मानने तु सम्यक्त्वस्य दूषणं लगतीति। 217 प्र०। सेन०३ उल्ला० / अष्टम्यां प्रतिमाया स्वयमारम्भकरणनिषेधोऽस्ति, तत्र सचित्तपुष्पादिभिः पूजा करोति न वा ? इति प्रश्ने उत्तरम्-तत्र पूजां करोति परं प्रयोगेण सचित्तपुष्पादिभिः कारयति, परं तत्र स्वयं सचित्तपुष्पादिभिः पूजा न करोतीति। 226 प्र०। सेन०३उल्ला०। पञ्चम्यां प्रतिमायां कच्छटिकावालन निषिद्धमस्ति तदाश्रित्य कश्चिद्वक्ति-रात्रौ चतुर्दिक्षु कायोत्सर्गे एव कच्छटिका न वालनीयाऽन्यदा सर्वकालं कच्छटिका वालनीयैव तदाश्रित्य , कथमस्ति? इति प्रश्ने, उत्तरम्-पञ्चमीप्रतिमातो बद्धकच्छ इत्येवं ग्रन्थे दृष्टमस्तीति कायोत्सर्गकाले एव कच्छटिका मोच्येति यो वक्ति स एवं प्रष्टव्यः एवं विधान्यक्षराणि क सन्ति ? इति / 307 प्र० / सेन० 3 उल्ला० / चन्दनवत्प्रतिमानां कस्तूरीलेपः क्रियते नवेति प्रश्ने, उत्तरम्-जिनप्रतिमानां कस्तूरीलेपो न क्रियत इत्यक्षराणि न सन्ति, प्रत्युत सामान्यतस्तत्करणाक्षराणि श्राद्धविध्यादौ सन्ति, यक्षकईममध्यगता तु कस्तूरी सांप्रतमपि जिनार्चने व्यापार्यमाणा दृश्यते इति / 365 प्र०। सेन०३ उल्ला। प्रतिष्ठितजिनप्रतिमाविक्रयकारिभिः समुच्छेदितनामलक्षणाः श्राद्धैव्यव्ययेन गृहीताः सन्ति, तेन तन्नामोचारावसरे कस्य जिनस्येयं प्रतिमेति वक्तुं कथं शक्यते ? ततो यदि लक्ष्मादिकरणविधिर्भवति तर्हि तथा प्रसाद्यमिति प्रश्ने,उत्तरम् -प्रतिष्ठित-जिनप्रतिमानामभिधानलक्षणादि प्रायस्तु न कर्त्तव्यम् पुनः प्रतिष्ठाकर्तुरज्ञातत्वादिकारणेन यद्यावश्यकं कर्त्तव्यं भवति तदा तद्विधाय प्रतिष्ठितवासक्षेपादिना शुद्धिर्भवतीति ज्ञायते इति / 41 प्र० / सेन० 4 उल्ला० / श्रावकः, श्राविका वा चतुर्थीपौषधप्रतिमां वहते, तस्य सामाचार्यनुसारेण चतुर्विधाहारपोषधः कर्तव्यः कथितोऽस्ति, तथा समवायाङ्ग वृत्त्यनुसारेण तु त्रिविधाहारः संभवति, तस्मास्त्रिविधाहारपौषधं विहाय चतुर्थी प्रतिमा वहते, किं वा न ? इति प्रश्ने, उत्तरम् प्रवचनसारोद्धारादिग्रन्थे श्राद्धचतुर्थप्रतिमायां चतुष्पव्वीदिने परिपूर्णश्चतुष्प्रकारपौषधः कथितोऽस्ति, तदनुसारेणाऽष्टप्रहरपौषधश्चतुर्विधाहारोपवासः कर्तव्यो युज्यते, परं सामाचार्यनुसारेणैतावान् विशेषो ज्ञायते-यत्पक्षिकायां षष्ठकरणशक्तिर्न भवति तदा पूर्णिमायाममावस्याया त्रिविधाहारोपवासस्तथाऽऽचाम्ल-शक्त्यभावे निर्विकृतिकमपि कर्त्तव्यम्, तत्र प्रथमोपवासस्तु शास्त्रानुसारेण चतुर्विधाहारोपवासः कर्त्तव्य इति ज्ञायते। समवायाङ्ग