SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ पडिलेहणा 346 - अभिधानराजेन्द्रः - भाग 5 पडिलेहणा योत्सर्गाऽऽदि। अयं प्रेक्षासंयमः / इदानीमुपेक्षासंयम उच्यतेसा चोपेक्षा द्विविधा-कथम ? संयतव्यापारोपेक्षा, गृहस्थव्यापारोपेक्षा च / तत्र थासंख्य चौटना-चोदनविषयसंयतस्य चोदनविषया व्यापारोपेक्षा। एतदुक्तं भवतीति-साधु विषीदन्तं दृष्ट्वा संयमव्यापारेषु चोदयतः संयमव्यापारोपेक्षा। उपेक्षाशब्दश्चात्र-'ईक्ष' दर्शने। उप सामीप्येन ईक्षा उपेक्षा, गृहस्थस्य च व्यापारी-पेक्षागृहस्थम् अधिकरणव्यापारेषु प्रवृत्तं दृष्ट्वा अधिकरणव्यापारेषु प्रवृत्तं चोदयतः गृहस्थव्यापारोपेक्षोच्यते। उपेक्षाशब्दश्चात्र अवधारणायां वर्तत इति। इदानी "परिद्ववित्ता वि संजमो" व्याख्यायते, तत्राऽऽहउवगरणं अइरेगं, पाणाई वाऽवहट्ट संजमणा। सागारियअपमजण-संजमों सेसे पमज्जणया।।४५२|| उपकरणं वस्त्राऽऽदि यदतिरिक्तं गृहीत. तथा- [पाणाइ वा] तथा पानकाऽऽदि वा यदतिरिक्तं गृहीत तत् [अवहटु त्ति] परित्यज्य, किम् ? [संजमणा) संयमो भवतीति। आदिग्रहणाद्भक्तं वा परित्यक्त, परित्यज्य संयमः। इदानीं 'पमज्जेता वि संजमो'" व्याख्याते- [सागारियअपमजणसंजमो| सागारिकाणामग्रतः पादाप्रमार्जनम्, असावेय संयमः।। सेसे पमज्जणय त्ति| शेषेषु सागारिकाऽऽद्यभावेषु प्रमार्जनेन च संयमः। इदानीं योगत्रयसंयमप्रतिपादनायाऽऽहजोगतिग पुव्वभणियं, समत्तपडिलेहणाएँ सज्झाओ। चरिमाए पोरिसिए, ताहे पडिलेहँ पत्तदुगं // 453 / / योगत्रयं पूर्व मेव व्याख्यातम् - ''मणसाइतिविहकरणमाउत्तो'' इत्यस्मिन् ग्रन्थे, अत्रापि तथैव द्रष्टव्यम्। उक्तः सप्तदश प्रकारः संयमः / तत्प्रतिपादनाच उक्ताऽथ वस्त्रप्रत्युपेक्षणा / तत्समाप्तौ च किंकर्तव्यमित्यत आह- (समत्तपडिलेहणाएँ सज्झाओ) समाप्तायां प्रत्युपेक्षणाया स्वाध्यायः कर्तव्यः, सूत्रपौरुषीत्यर्थः, पादोनप्रहरं यावत् / इदानी पात्रप्रत्युपेक्षणामाह- (चरिमाए) चरिमायां पादोनपौरुष्या प्रत्युपेक्षेत ताहे ति] तदा तस्मिन् काले स्वाध्यायानन्तरं पात्रकद्वितीयम्। इदानीमिदमुक्तं चरमपौरुष्या पात्रकद्वितयं प्रत्युपेक्षणाया तत्र पौरुष्येव न ज्ञायते, किंयमाणा? तत्प्रतिपादनायाऽऽहपोरिसिपमाणकालो, निच्छयववहारिओ जिणक्खाओ। निच्छयओ करणजुओ, ववहारमओ परं वोच्छं / 454 // पौरुष्याः प्रमाणकालो द्विविधः-निश्चयतो, व्यवहारतश्च ज्ञातव्यः। तत्र निश्चयपौरुषीप्रमाणकालप्रतिपादनायाऽऽहअयणातीयदियगणे, अट्ठगुणेगट्ठिभाइए लद्धं / उत्तरदाहिणमादी, पोरिसिपयसोहि पक्खेवो // 455 / / ओघ०। (पोरुसी' शब्दे व्याख्यास्यते) एतस्यां चरमपौरुष्या पात्रकाणि प्रतिलेख्यन्ते, सच पात्रकः प्रत्युपेक्षणसमये पूर्वमेन व्यापार करोति, अत आहउवउंजिऊण पुव्वं, तल्लेसो जइ करेइ उवओगं। सोएण चक्खुणा घा-णाएण जीहाएँ फासेण / / 460 // उययुज्य उपयोग दवा पूर्वमेव यदुत सर्वाण्यस्यां वेलायां पात्रकाणि प्रत्युपेक्षणीयानीत्येवमुपयुज्य पुनः तल्लेश्य एव प्रत्युपेक्षणाभिमुख एव यतिः प्रव्रजितः पात्रसमीपे उपविश्य उपयोग करोति मतिं व्यापारयति / कथम् ? श्रात्रेन्द्रियेण पात्रके उपयोग करोति, कदाचित्तत्र भ्रमराऽऽदि गुञ्जति पुनस्तं यतनयाऽपनीय तत् पात्रकं प्रत्युपेक्षते, तत्र वा चक्षुषा उपयोग ददाति, कदाचित्तत्र मूषिकोत्कीर्णाऽऽदिरजो भवति ततस्तद् यतनया अपनयति, घ्राणेन्द्रियेण चोपयोग करोति, कदाचित्तत्र सुरुडविकाऽऽदिर्मर्दितो भवति, पुनश्च घ्राणेन्द्रियेण ज्ञात्वा यतनया अपनयति, जिहया रसं च ज्ञात्वा यत्र गन्धस्तत्र रसोऽपि, गन्धपुद्रलैरोष्ठो यदा घ्रातो भवति तदा जिह्वायां रसं जानातीति, स्पर्शनेन्द्रियेण चोपयोग ददाति, कदाचित्तत्र मूषिकाऽऽदिः प्रविष्टः सन्निःश्वासवायुश्च शरीरे लगति, ततश्चैवमुपयोगं दत्त्वा पात्रकाणि प्रत्युपेक्षते।। __इदानीं भाष्यकृत् किञ्चिद् व्याख्यानयन्नाहपडिलेहणियाकाले, फिडिए कल्लाणगं तु पच्छित्तं / पायस्स पासवेट्ठो, सोयादुवउत्त तल्लेस्सा।।४६१।। प्रत्युपेक्षणाकाले प फिडिएब अतिक्रानते, एककल्याणक यतः प्रायश्चित्तं भवति, अतः पूर्वमुपयोगं प्रत्युपेक्षणाविषये करोति / किविशिष्टोऽसौ उपयोग करोतीत्यत आह- [पायस्स पासवेट्ठो] पात्रकस्य पार्चे उपविष्टः श्रोत्राऽऽदिभिरुपयुक्तः तल्लेश्यः तचित्तो भवतीति। कथं पुनः पात्रप्रत्युपेक्षणां करोतीत्यत आहमुहणंतएण गोच्छ, गोच्छगगहियंगुलीहिँ पडलाई। उक्कुड्डुभाणवत्था, पलिमंथादीसु तेण भवे // 462 / / रजोहरणमुखवस्त्रिकाया गोच्छकं वक्ष्यमाणलक्षणं प्रमार्जयति, पुनः तदेव गोच्छकमड्गुलीभिर्गृहीत्वा पटलानि प्रमार्जयति। अत्राऽऽहः परःपउमडुयभाणवत्थाब उत्कुटुकस्य भा० जनवस्त्राणि गोलकाऽऽदीनि प्रत्युपेक्षयन्ततो वस्त्रप्रत्युपेक्षणा उत्कुटुकेनैव कर्तव्या। आचार्य आह|पलिमंथादीसुतेण भवे | तदेतत् भवति यचोदकेनोक्त, यतः पलिमन्थः सूत्रार्थयोर्भवति कथम् ? प्रथममसौपादपुञ्छने निषीदति, पश्चात् पात्रकवस्त्रप्रत्युपेक्षणायाम उत्कुटुको भवति, पुनः पात्रकप्रेक्षणायां पादपुञ्छने निषीदति, एतत्तस्य साधोश्चिन्तयतः सूत्रार्थयोः पलिमन्थो भवति, यतः अतः पादपुञ्छने निषण्णेनैव पात्रकवस्त्रप्रत्युपेक्षणा कर्तव्या इति। ततः किं करोतीत्यत आहचउकोणभाणकत्तं, पमज पायकेसरिय तिउणं तु। भाणस्स पुप्फगधं, इमेहिं कजेहिं पडिलेहा / / 463 / / पटलानि प्रत्युपेक्ष्य पुनः गोच्छक वामहस्तानामिकाङ्गुल्या गृह्णाति, ततः पात्रककेसरिकां पात्रमुखवस्त्रिका पात्रकस्थामेव गृह्णाति, [चतुकोण| ति चतुःपात्रबन्धकोणान् सत उपरिस्थापितान प्रमार्जयति, पुनर्भाजनस्य कर्त्तमपि प्रमार्जयति, पुनश्च पात्रकं केसरिकमेव त्रिगुणं तिस्र एव वारा बाह्यतः, अभ्यन्तरतश्च तिस्र एव वारा प्रमार्जयति ततः भाण्डस्य पात्रकस्य पुष्पकं बुधं तत एतानिवक्ष्यमाणलक्षणानि कार्याणि यदि न भवन्ति ततः प्रथमं बुधगन्धं पात्रकस्य प्रत्युपेक्षते।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy