________________ पडिक्कमण 283 - अभिधानराजेन्द्रः - भाग 5 पडिक्कमण बदन्यथा न क्रियते, तदाचरणाभावात्ः कृतं तु क्रियते / यथा बहुगुणं भवति तथा त एव जानते इति गाथार्थः / समर्थितस्तृतीयः पादिकविचारणलक्षणोऽधिकारः / जीवा०३ अधि०। जंय इमं गुणरयण-सायरमविराहिऊण तिण्णसंसारा। हे मगलं करित्ता, अहमवि आराहणाभिमुहो ||2|| (जे यइमं इति) ये महामुनयः, चशब्दो मङ्गलान्तरसमुच्चयार्थः / इमं जनशासनप्रसिद्धं (गुणरराणसायरं ति) गुणा महाव्रताऽऽदयस्त एव रत्नानि विशिष्टफलहेतुत्वात्सर्ववस्तुसारत्वाच्च गुणरत्नानि तान्येव बहत्वात्सागर इन सागरः समुद्रो गुणरत्नसागरः, तम्। किमित्याहअविराध्य अखण्डमनुपाल्य, तीर्णसंसारा लधितभवोदधयो जातासताम् परमात्मनो मङ्गल कृत्वा, शुभमनोवाक्कायगोचरं समानीयेत्यर्थः। उमापे, न केवलमुक्तन्यायेनाऽऽराधकत्वात् ते तीर्णभवार्णवाः, कि त्वहमपि संसारार्णवलधनार्थमेवाऽऽराधनायाः संपूर्णमोक्षमार्गानुपालनाया अभिमुखः संमुखः, कृतोद्यम इत्यर्थः, आराधनाऽभिमुखः संजात इति / तथामम मंगलमरिहंता, सिद्धा साहू सुयं च धम्मो य / खंती गुत्ती मुत्ती, अज्जवया मद्दवं चेव ||3|| (मम इति) मम मे, मङ्गलं श्रेयः कल्याणमिति यावत्। क एते? इत्याह(अरिहत त्ति) अशोकाऽद्यष्टमहाप्रातिहार्याऽऽदिरूपां पूजामहन्तीत्यहन्तस्तीर्थनायकाः / तथा- (सिद्ध त्ति) सितं बद्ध कर्म ध्मातं येषां ते सिद्धाः, शुक्लध्यानानलनिर्दग्धकर्मन्धना मुक्तिपदभाजो जीवाः / तथा-(साहु त्ति) निर्वाणसाधकान योगान् साधयन्तीति साधवो मुनयस्तद्गाच्चाऽऽचार्योपाध्याया अपि गृहीता एव द्रष्टव्याः / यतो न हितेन साधवः। तथा-(सुयं च त्ति) श्रूयत इति श्रुतम्, सामायिकाऽऽद्यागमः। चशब्दस्तगतभेदप्रदर्श-नार्थः / तथा-(धम्मो यत्ति) धारयति दुर्गती प्रपतन्तमात्मानामेति धर्मश्चारित्रलक्षणः, चशब्दः स्वभेदप्रदर्शकः / तथा-क्षान्तिः क्रोधपरित्यागो, गुप्तिः संलीनता, मुक्तिर्निर्लोभता। कापि "अहिंसा खंती मुत्ती'' इति पाठः सच सुगम एव। आर्जवता मायावर्जनं, मार्दवं मानत्यागः, चः समुच्चये, एवशब्दः पूरणे, अनेनापि गाथाद्वयेन मङ्गलमुक्तम्, लत्प्रयोजनं च प्राग्वत् / न चाऽत्र स्तोतव्यपदाना पौनरुवत्यचिन्ता कार्या, स्तुतिवचनेषु पुनरुक्तदोषानभ्युपगमात्। आह च- "सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु / संतगुणकित्तणासु य, न होति पुणरुत्तदोसा उ॥२॥" अथाऽऽराधनाङ्गभूतामेव महाव्रतोच्चारणा कर्तुकाम इदमाहलोगम्मि संजया जं, करेंति परमरिसिदेसियमुयारं / अहमवि उवट्ठिओ तं, महवयउच्चारणं काउं।।४।। लोके तिर्यग्लोकलक्षणे, सम्यग्यताः संयताः साधवः, यां महाव्रतोचारणां प्रत्यहमुभयकालं विशेषतस्तु पक्षान्ताऽऽदिषु, कुर्वन्ति विदधति, किं विशिक्षा महाव्रतोचारणाम् ? अत आहपरमर्षिभिस्तीर्थकरगणधरैर्देशिता कथिता परमर्षिदेशिता, ता पुनः कर्थभूताम् ?- | उदारां विशिष्टकर्मक्षयकारणत्वात्प्रधानाम, अत एव चाऽऽदावियमेव प्रतिज्ञाता, अन्यथा श्रुतकीत्तर्नाऽऽदेरप्यत्र करिष्यमाणत्वात् अहमपिन केवलमन्ये साधव इत्यपिशब्दार्थः। उपस्थितः प्रवीभूतोऽभ्युद्यत इति यावत् / ता पूर्वोक्तविशेषणविशिष्ट महान्ति बृहन्ति तानि च तानि व्रतानि च नियमा महाव्रतानि, महत्त्वं चैतेषां सर्वजीवाऽऽदिविषयेन महाविषयत्वात्। उक्तं च - 'पढमम्मि सव्वजीवा,बीए चरिमेय सव्वदयाई। सेसा महव्यया खलु, तदेकदेसेण दव्वाण "||1|| इति (तदेकदेसेणं ति) तेषां द्रव्याणामेकदेशेनेत्यर्थः। तथा यावजीव त्रिविधं त्रिविधेनेति प्रत्याख्यानरूपत्वाच तेषामिति, देशविरतापेक्षया महतोवा गुणिनो व्रतानि महाव्रतानीति, तेषामुच्चारणा समुत्कीर्तना महाव्रतोचारणा महद्वतोचारणा या, तां कर्तुं विधातुमिति। (23) महाव्रतोच्चारणा तत्रेदमादिसूत्रम् - से किं तं महव्वयउच्चारणा ? | महव्वयउच्चारणा पंचविहा पन्नत्ता राईभोयणविरमणछट्ठा ||5|| अथास्य सूत्रस्य कः प्रस्ताव इत्युच्यते प्रश्रसूत्रमिदं, एतत्त्वादावुपन्यस्यन्निदं ज्ञापयति, पृच्छतो मध्यस्थस्य बुद्धिमतोऽर्थिनो विनेयस्य भगवदर्हदुपदिष्टतत्वप्ररूपणा कार्या नान्यस्य। तथा चोक्तम्- 'मध्यस्थो बुद्धिमानर्थी, श्रोता पात्रमिति स्मृतः।" इति। पात्रं योग्योऽर्होऽधिकारी चोच्यते, तस्मा इदमप्यध्ययनं देयमितिा आह-शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थितानां सर्वत्र सत्त्वहिताय चोधतानां महापुरुषाणां किं योग्यायोग्यविभागनिरीक्षणेन, न हि परहितार्थ मिह महादानोद्यता महीयांसोऽर्थिगुणमपेक्ष्य दानक्रियायां प्रवर्तन्ते दयालव इति / अत्रोच्यतेननु यत एव शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थिताः सर्वसत्त्वहितोद्यताः महापुरुषाश्च गुरवोऽत एव योग्यायोग्यविभागनिरीक्षणं न्याय्यं, मा भूदयोग्यप्रदाने तत्सम्यग्नियोगाक्षमार्थिजनाऽनर्थ इति। न खलु तत्त्वतोऽनुचितप्रदानेन दुःखहेतुना विवेकिनमर्थिजनमनुयोजयन्तोऽप्यनवगतपरार्थसंपादनोपायाः पुरुषा भवन्ति दयालव इत्यवधूय मिथ्याभिमानमालोच्यता-मेतदिति। आहक इवायोग्यप्रदाने दोष इति / उच्यते-स ह्यचिन्त्यचिन्तामणि कल्पमनेकभवशतसहस्रपात्तानिष्टदुष्टाष्टकर्मराशिजनित-दौर्गत्यविच्छेदकमपीदमयोग्यत्वादवाप्य न विधिवदासेवते, लाघवं चास्यासावापादयति, ततो विधिसमासेवक इव कल्याणम् अविधिसमासेवको महदकल्याणमासादयतीति। उक्तं च"आमे घडे निहत्तं, जहा जलं तं घड विणासेइ। इय सिद्धतरहस्सं, अप्पाहारं विणासेइ // 1 // " ततोऽयोग्यश्रुतप्रदाने दातृकृतमेव वस्तुतस्तस्य तदकल्याणमि-त्यलं प्रसङ्गेन / प्रकृतं प्रस्तुमः-तत्र 'से' शब्दो मागधदेशीप्रसिद्धो निपातोऽथशब्दार्थ द्रष्टव्यः, सच वाक्योपन्यासार्थः, किमित परप्रश्ने / ततश्चायं वाक्यार्थः-अथ किंतवस्तु महाव्रतोच्चारणा, प्राकृतशैल्याऽभिधेयवल्लिङ्गवचनानि भवन्तीति न्यायादेवं द्रष्टव्यम् / अथ का सा महाव्रतोच्चारणे ति ? एवं सामान्येन के नचित्प्रश्ने कृते सति भगवान गुरुः शिष्यवचनानुरोधेनाऽऽदरार्थ किञ्चिच्छिष्योकुं प्रत्यु