SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ पच्छित्त 146 - अभिधानराजेन्द्रः - भाग 5 पच्छित्त एतानेव दृष्टान्तान् गाथापूर्वार्द्धन भाष्यकृदाहकुंचिएँ जोहे माला-गारे मेहेपलिउंचिए तिगट्ठाणा (141) द्वैमासिकाऽऽदिपरिहारस्थानेषु प्रतिकुञ्चितेषु यथाक्रममिमे कुचिकाsऽदयो दृष्टान्ताः। तद्यथा-द्वैमासिक परिहारस्थानमापन्नस्य प्रतिकुञ्चकस्य दृष्टान्तः कुञ्चिकस्तापसः / त्रैमासिक परिहारस्थानमापन्नस्य योधः / चतुर्मासिकं परिहारस्थान-मापन्नस्य मालाकारः। पाश्चमासिक परिहारस्थानमापन्नस्य मेघः। (पलिउंचिए त्ति) प्रतिकुश्चनायां कृतायामाचार्येण सम्यगालोचय मा प्रतिकुशय मा प्रतिकुञ्चनां कार्षीरित्युपालब्धः स सम्यक् प्रत्यावर्त्ततेभगवन्मिथ्या मे दुष्कृतं, सती चोदना सम्यगालोचयामीति / ततः स श्रुतव्यवहारी प्रतिकुचिते कृते तं तथाप्रत्यावृत्तं सन्तं पुनरपि त्रीन्वारान् आलोचापयति। तत्र यदि त्रिभिरपि वारैः सदृशमालोचयति ततो ज्ञातव्यो, यथा-सम्यगेष प्रत्यावृत्त इति / तदनन्तरं च यद्देयं प्रायश्चित्तं तदातव्यमिति। अथ विसदृशमालोचयति, ततो भणति-अन्यत्र त्वं शोधिं कुरु, नाहं तब शक्नोम्येतादृश्या आलोचनायाः सद्भावमजानानः शोधि कर्तुमिति / अथवा शिष्यः पृच्छति-भगवन् ! एतानि मासाऽऽदीनि षण्मासपर्यन्तानि परिहारस्थानानि कुतः प्राप्तानि ? सूरिराह-(तिगट्ठाणा) उक्रमाऽऽदित्रिकरूपात् स्थानात् / किमुक्तं भवति ? उद्गमोत्पादनैषणासु यत् अकल्पाप्रतिसेवनया अनाचारकरणं तस्मादेतानि प्राप्नोति। साम्प्रतं पाण्मासिकं परिहारस्थानसूत्रमाहतेण परं पलिउंचियए वा अपलिउंचियए वा ते चेव छम्मास्सा / / 5 / / (तेण परं पलिउचियएवा अपलिउंचियएवातेचेवछामासा) तेनेत्यव्यय तत इत्यर्थे / ततः पाञ्चमासिकात् परिहारस्थानात् परमित्येतदप्यव्ययं सप्तम्यर्थप्रधानम्, परस्मिन् पाण्मासिके परिहारस्थाने प्रतिसे विते आलोचनाकाले प्रतिकुञ्चिते, प्रतिकुञ्चनया वा आलोचिते इत्यर्थः / ते एव प्रतिसेवनानिष्पन्नाः स्थिताः षण्मासाः, नाधिकं प्रतिकुश्शनानिमित्त - मारोपणम् / कस्मादिति चेत? उच्यते-इह जीतकल्पोऽयम्-यस्य तीर्थकरस्य यावत्प्रमाणमुत्कृष्ट तपःकरणं तस्य तीर्थे तावदेव शेषसाधू- / नामुत्कृष्ट प्रायश्चित्तदानम्। चरमतीर्थकरस्य तु भगवतो वद्धमानस्वामिन उत्कृष्ट तपः षाण्मासिकं, ततोऽस्य तीर्थ सर्वोत्कृष्टमपि प्रायश्चित्तदान षण्मासा एवेति षाण्मासिकं परिहारर-थानं प्रतिसेव्य प्रतिकुञ्चनयाऽप्यालोचयतो नाधिकमारोपणमतस्त एव षण्मासाः स्थिता उक्ताः। बहूमासिकम्जे भिक्खू बहुसो मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स मासियं, पलिउंचियं आलोएमाणस्स दोमासियं / / 6 // यो भिक्षुर्बहुशोऽपि त्रिप्रभृतिवारानपि, आस्तामेकं. द्वौ वा वारावित्यपिशब्दार्थः / मासिक परिहारस्थान प्रतिसेव्य आलोचयेत्, तस्याप्रतिकुञ्च्याऽऽलोचयतो मासिकमेकं प्रायश्चित्तम् / प्रतिकु - च्यालोचनानिष्पन्नो गुरुमासो दीयते इति द्वैमासिकम्। इयमत्र भावनाकेनापि गीतार्थेन कारणे अयतनया त्रीन्वारानबहून्वा वा वारान् मासिक परिहारस्थानं प्रतिसेवितम्, आलोचनाकाले चाऽप्रतिकुञ्चनयाऽऽलोचितं, तस्मै एकमेव मासिक प्रायश्चित्तं दीयते, न तु यावतो वारान् प्रतिसेवना मासिकस्य कृतवान् तावन्ति मासिकानीति, कारणे प्रतिसेवनायाः कृतत्वात्। अथ प्रतिकुञ्चनयाऽऽलोचनयति ततो द्वितीयो मासो मायानिष्पन्नो गुरुर्दीयते इति द्वैमासिकम् / एवं शेषाण्यपि द्वैमासिकाऽऽदिविषयाणि चत्वारि सूत्राणि भावनीयानि। नवरं द्वैमासिकसूत्रे तृतीयो मायानिष्पन्नो गुरुमासो दीयते इति त्रैमासिकम्। त्रैमासिकसूत्रे चतुर्थो मायानिष्पन्नो मास इति चातुर्मासिकम् / चातुर्मासिकसूत्रे पञ्चमा मायाप्रत्यय इति पश्चिमासिकम् / पाशमासिकसूत्रे षष्टो मायानिष्पन्नो गुरुमास इति षाण्मासिकम् / ततः परं पाण्मासिके परिहारस्थाने आलोचनाकाले प्रतिकुञ्चनायां वा त एव स्थिताः षण्मासा इति। अमीषां पञ्चानामपि सूत्राणां सूचकमिदं गाथायाः पश्चार्द्धम्पंच गमा नेयव्वा, बहूहिँ उक्खडमडाहिं वा / / 141 / / पञ्च गमाः सूत्रप्रकारा ज्ञातव्याः / कथमित्याह- (बहूहिं इत्यादि) "उक्खडमडा" इति देशीपदमेतत् पुनः पुनः शब्दार्थे द्रष्टव्यम्। उक्तं च- "उक्खडमड त्ति वा भुजो भुजो वा पुणो पुणो त्ति वा एगहूँ।'' पुनः पुनः शब्दार्थश्च वारं वारं बहुभिरिर्विशेषिता बहुश इति; बहु इति पदविशोषिता इत्यर्थः। अत्र चोदक आहबहुएसु एगदाणे, रागो एक्के कदाणे दोसो उ। एवमगीते चोयग ! गीयम्मिय अजतसेविम्मि / / 142|| ननु यूयं न मध्यस्थाः , रागद्वेषकरणात् / तथाहि-बहुशः प्रतिसेवितेष्वेतेषु पञ्चसु सूत्रेषु मासिकेषु परिहारस्थानेषु बहुशः शब्दविशेषितेष्वपि एकमेव मासं प्रयच्छथ, द्वैमासिकेषु परिहारस्थानेषु बहुश: प्रतिसेवितेष्वप्येक द्वैमासिकम्, त्रैमासिकेषु परिहारस्थानेषु बहुशः प्रतिसे वितेष्वप्यकं त्रैमासिकम्, चातुर्मासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेष्वेकं चातुर्मासिकम्, पाञ्चबासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेषु एक पाञ्चमासिकम्। एवं बहुकेषु बहुशः प्रतिसेवितेषु मासादिषु परिहारस्थानेष्वेकदाने एकैकसंख्याकस्य मासिकाऽऽदेर्दानीयेष्येकं प्रयच्छथतेषु रागः। आधेषु पञ्चसुसूत्रेषु एकैकदाने एकैकवार यत् प्रतिसेवितं मासिकाऽऽदि तस्य परिपूर्णस्यदानेष्वेवं प्रयच्छथ तेषु विषये द्वेष एव। तुशब्द एवकारार्थः। न च रागद्वेषवन्तः परेषां शोधिमुत्पादयितुं क्षमाः, सम्यक् प्रायश्चित्तदानविधेरकरणादिति / अत्र सूरिराद (एवमित्यादि) अहो चोदक ! एवमादिकेषु पञ्चसु सूत्रेषु यावन्मात्र प्रतिसेवित तावन्मात्रस्य परिपूर्णस्य दानमगीते अगीतार्थे प्रतिसेवके यत्पुनर्बहुशःशब्दविशेषितेषु पञ्चसुसूत्रेषु बहुशः प्रतिसेवितेष्टापि मासिकाऽऽदिषु स्थानेष्वप्येकैकसंख्याकस्य मासिकाऽऽटेनं तत् गीत गीतार्थ, अयतसेविनि अयतनया प्रतिसेवके। ततो गीतार्थागीतार्थभेदेन प्रतिसेवकस्य भेदादित्थं प्रायश्चित्तविधानमित्यदोषः / अत्रैवार्थे दृष्टान्तमाहजो जत्तिएण रोगो, पसमइ तं देइ भेसजं विनो।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy