SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ पच्छित्त 145 - अमिधानराजेन्द्रः - भाग 5 पच्छित्त उत्पद्यते यस्मादिति उत्पत्तिः, अर्थस्योत्पत्तिर्व्यवहारः उच्यते, तस्यामोन्पत्तै करणव्यवहारे असदृशनिवेदने दण्डः / इयःमत्र भावना-यथा को पि पुरुषोऽपन्यायपीडितो राजकरणमुपस्थितो निवेदयति-अहं देवदतेनाऽपन्यायेन पीडितः। ततः कारणिकाः पृच्छन्ति-कथमन्यायः संवृत्तः / सोऽकथयत् कथिते करणः प्रतिब्रूते, पुनः कथय / ततो, भूयः कथयति। ततः पुनरपि बूते-भूयोऽपि कथय। तत्रयदि तिसृष्वपि वेलासु सदृशं वक्ति ततो ज्ञायते-यथा अनेन यथावस्थितः सद्भावः कथितः / अ विसदृशं ततो जानाति करणपतिःएष प्रतिकुञ्च्य कथयति; ततः म निर्भसयतिकिमिति राजकुलेऽपि समागतस्त्वं मृषा वदसीति पूर्व मायामृषाप्रत्ययं दण्ड ते (पच्छ ववहारो इति) पश्चाद्व्यवहारः कार्यते। व्यवहारेऽपि यदिपरा जितो भवति ततो द्वितीयवेलंदण्ङ्यते। एष दृष्टान्तः / दान्तिकयोजनामाह-(इय इत्यादि) एवमुक्तप्रकारेण लोकोत्तरेऽपि वारत्रयमालोचनादापनेन यदि कुञ्चितो भावो ज्ञातो भवति / ततस्तं कुञ्चितभावं कुटिलभाव ज्ञात्वा पूर्वमाचार्यो निर्भर्त्सयतिकिमित्यालोचनायानुपस्थितो मृषा वदसि? ततः (दंडेइ त्ति) प्रथमतो मायानिछान्न मासगुरुप्रायश्चित्तेन दण्डयति, पश्चाद् यदापन्नं मासिकं, तेन द्वितीयपेल दण्डयति। अथवारत्रयमालोचनादापनेऽपि कथं श्रुतव्यवहा रिणो मायामन्तर्गतां लक्षयन्ति। तत आहआगारेहि सरेहि य, पुव्वावरवाहयाहि य गिराहिं। नाउं कुंचियभावं, परोक्खनाण / ववहरंति // 140 / / आकाराः शरीरगता भावविशेषाः, तत्र यः शुद्धस्तस्य सर्वेऽप्या-काराः संविग्नभावोपदर्शका भवन्ति, इतरस्य तुन तादृशाः। स्वरा अप्यालोचयतः शुद्धस्य व्यक्ता विस्पष्टा अक्षुभिताश्च निस्सरन्ति, इतरस्य त्वव्यक्ता अस्पष्टा क्षुभितगद्दाश्च / तथा शुद्धवाणी पूर्वापराऽव्याहता, इतरस्य तु पूर्वापरविसंवादिनी। तत एवं परोक्षज्ञानिनः श्रुतव्यवहारिण आकारः स्वरैः पूर्वापरव्याहताभिश्व गीर्भिस्तस्याऽऽलोचकस्य कुञ्चितभाव कुटिलभावं ज्ञात्वा तथा व्यवहरन्ति ; पूर्व मायाप्रत्ययेन प्रायश्चित्तदण्डेन दण्डयन्ति, पश्चादपराधप्रत्ययेन प्रायश्चित्तदण्डेनेति भावः / द्वैमासिकं प्रायश्चित्तम्जे भिक्खू, दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्सदोमासियं,पलिउंचियं आलोएमाणस्स तिमासियं // 2 // यो भिक्षीभ्यां मासाभ्यां निर्वृत्तं द्वैमासिक परिहारस्थानं प्रतिसेव्य आलोचयति, तस्याप्रतिकुञ्च्य मायामकृत्वा आलौचयतो द्वैमासिक प्रायश्चित्त शुद्धत्वात्। प्रतिकुञ्च्याऽऽलोचयतस्वैमासिकम्, प्रतिकुश्चनानिष्पन्नस्य गुरुमासस्य प्रक्षेपात्। इह द्वैमासिकं परिहारस्थानमापन्नस्य प्रतिकुञ्चकस्य दृष्टान्तः / कुञ्चिको नाम तापसः। तद्यथा- "कुंचिगो तावसो. सो फलाम अटाए अडविंगतो, तेण नदीए सय मतो मच्छो दिट्टो तेण अप्पसागारियं पइत्ता खइतो, तस्स तेण अणुचियाहारेण अजारतेण लन्न जाय, तेण विजो पुच्छिओ। वेजो पुच्छइ-कितेखइय, जतो रोगो / उप्पन्ना? तावसो-भणइ-फलाई मोत्तुं अन्नं न किंचिखइयं। वेजो भणइकंदादीहिं ते निक्करिसियं सरीरं, तो थयं पिवाहि / तेण पीयं सुहुयर गिलाणीभूतो पुणो पुच्छितो विजो। तेण भणियंसम्मंकहेहि। कहियंमच्छो मे खइतो / ततो विजेण संसोहणवमणविरेयणकिरियाहिं लट्ठीकओ। इमो उवणओ। जो पलिउचइ तस्स पच्छित्तकिरिया न सक्कइ गुणं काउं सम्म। पुण इयरे रोग आलोयंतस्स सक्काइ।' त्रैमासिकम्जे भिक्खू तेमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलो एमाणस्स तेमासियं, पलिउंचियं आलोएमाणस्स चउमासियं / / 3 / / (जे भिक्खू तेमासियं परिहारट्ठाणमित्यादि) अत्र व्याख्या पूर्ववत् नवरं त्रैमासिकमिति त्रिभिर्मासैर्निर्वृत्तं त्रैमासिकम् / शेषं तथैव / केवलं त्रयो मासा अवस्थिताः, अन्यो मायाप्रत्ययनिष्पन्नश्चतुर्थो मासो गुरुर्दीयते इति चातुर्मासिकम् / अत्र प्रतिकुश्विकस्य दृष्टान्तः। तद्यथा-"दो रायाणो संगाम संगामेति। तत्थ एगस्स रण्णो एगो मणूसो सूरत्तणेणं अतीव वल्लभो, सो बहूहि सल्लेहिं सल्लितो। ते तस्स सल्ले वेज्जो अवणेइ, अवणिज्जमाणेहि य सल्लेहिं सोऽतीव दुक्खाविज्जइ तओ एक्कम्मि अंगे सल्लो विज्जमाणो वि दुक्खा-विजामि त्ति वेज्जस्स न कहिती / ताहे सो तेण सल्लेण विघट्टमाणेण बलं न गेण्हइ, दुव्वली भवति। पुणोतेण पुच्छमाणेण निव्वंधे कहियं / भीणितो सल्लो, पच्छा बलवं जातो।" अत्राप्युपनयः प्राग्वत्। चातुर्मासिकम्जे भिक्खू चाउम्मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स चाउम्मासियं, पलिउंचियं आलोएमाणस्स पंचमासियं / / 4 / / अस्य व्याख्या प्राग्वत्, नवरं प्रतिकुञ्चनानिष्पन्नः पञ्चमो गुरुमासोऽधिको दीयते इति पाञ्चमासिकम् / अत्र प्रतिकुञ्चके दृष्टान्तो मालाकार:"दो मालागारा, कोमुंदीबारो आसन्नीभूतो ति पुप्फाणि बहूणि आरामातो उच्चिणित्ता वीहीए कड्ढेऊण एगेण पागडाणि कयाणि।वीएण न पागडाणि कयाणि। जेण पागडाणि कयाणि तेण बहुलाभो लद्धो, जेण न पागडाणि कयाणि तस्स न कोइ कयगो अल्लीणो, तेण न लडो लाभो। एवं जो मूलगुणावराहे, उत्तरगुणावराहे य न पगडेइ सो निव्वाणलाभं न लहइ।" पाश्चमासिकं पाण्मासिकं चजे भिक्खू पंचमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स पंच-मासियं, पलिउंचियं आलोएमाणस्स छम्मासियं // (जे भिक्खू पंचमासिय परिहारहाणमित्यादि) इदमपि तथैव, नानात्वमिदम्, प्रतिकुचनाया षष्ठो गुरुमासोऽधिको दीयते इति षागमासिकम् / अत्र प्रतिकुञ्चके मेघदृष्टान्तः / यथा- "मेघो गजिता नामेगे, नो वरिसिता / एवं तुम पि आलोएमि त्ति गजित्ता निजित्तं काउं आलोइउमाढतो, पलिउचेसि मा विप्रतिज्ञो भवाहि, सम्म आलोएहि।"
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy