SearchBrowseAboutContactDonate
Page Preview
Page 1533
Loading...
Download File
Download File
Page Text
________________ भासा 1525 - अभिधानराजेन्द्रः - भाग 5 भासा मा! आसइस्सामो तं चेव०जावन एसा भासा मोसा। (सूत्रम्४०३) 'अह भंते !' इत्यादि, अथेति परिप्रश्नार्थः ‘भंते ! ति भदन्त ! इत्येवं भगवन्ते महावीरमामन्त्र्य गौतमः पृच्छति-(आसइस्सामोत्ति) आश्रयिष्यामो वयमाश्रयणीयं वस्तु (सइस्सामो त्ति) शयिष्यामः 'चिट्टिस्सामो त्ति' ऊर्द्धस्थानेन स्थास्यामः, निसीइस्सामो ति' निषेत्स्याम उपवेक्ष्याम इत्यर्थः / 'तुयहिस्सामो त्ति' संस्तारके भविष्याम इत्यादिका भाषा किं प्रज्ञापनी? इति योगः।। अनेन चोपलक्षणपरवचनेन भाषाविशेषाणामेवंजातीयानां प्रज्ञापनीयत्वं पृष्टमथ भाषाजातीनां तत्पृच्छति'आमंतणि गाहा'-तत्र आमन्त्रणी-हे देवदत्त ! इत्यादिका, एषा च किल वस्तुनोऽविधायकत्वादनिषेधकत्वाच्च सत्याऽऽदिभाषात्रयलक्षणवियोगतश्चासत्यामृषेति प्रज्ञापनाऽऽदावुक्ता, एवमाज्ञापन्यादिकामपि 'आणवणि त्ति' आज्ञापनी कार्ये परस्य प्रवर्तनी यथा घटं कुरु 'जायणि त्ति' याचनी-वस्तुविशेषस्य देहीत्येवं मार्गणरूपा, तथेति समुच्चये 'पुच्छणी य त्ति' प्रच्छनी-अविज्ञातस्य संदिग्धस्य वाऽर्थस्य ज्ञानार्थ तदभियुक्तप्रेरणरूपा, 'पण्णवणि त्ति' प्रज्ञापनी विनेयस्योपदेशदानरूपा यथा- "पाणवहाउ नियत्ता, भवंति दीहाउया अरोगा य / एमाई पन्नवणी, पन्नत्ता वीयरागेहिं // 1 // " पच्चक्खाणीभास त्ति प्रत्याख्यानी याचमानस्याऽदित्सा मे अतो भां मायाचस्वेत्यादिप्रत्याख्यानरूपा भाषा 'इच्छाणुलोम त्ति' प्रतिपादयितुर्या इच्छा तदनुलोमातदनुकूला इच्छानुलोमा यथा कार्ये प्रेरितस्य एवमस्तु ममाप्यभिप्रेतमेतदिति वचः / 'अणभिग्गहिया भासा गाहा' अनभिगृहीता-अर्थानभिग्रहेण योच्यते डित्थाऽऽ-दिवत् 'भासा य अभिग्गहम्मि बोद्धव्वा' भाषा चाभिग्रहे बोदव्या-अर्थमभिगृह्य योच्यते घटाऽऽदिवत्, 'संसयकरणीभास त्ति।' याऽनेकार्थप्रतिपत्तिकरी सा संशयकरणी यथा सैन्धवशब्दः पुरुषलवणवाजिषु वर्तमान इति 'वोयड त्ति' व्याकृता लोकप्रतीतशब्दार्था, 'अव्वोयड त्ति अव्याकृता-गम्भीरशब्दार्था मन्मनाक्षरप्रयुक्ता वाऽनाविर्भावितार्था, 'पन्नवणी णं ति' प्रज्ञाप्यतेऽर्थोऽनयेति प्रज्ञापनी अर्थकथनी वक्तव्येत्यर्थः, 'न एसा मोस त्ति नैषा मृषानार्थानभिधायिनी नावक्तव्येत्यर्थः, पृच्छतोऽयमभिप्रायः-आश्रयिष्याम इत्यादिका भाषा भविष्यक्तालविषया सा चान्तरायसम्भवेन व्यभिचारिण्यपि स्यात्, तथैकाऽर्थविषयाऽपि बहुवचनान्ततयोक्तेत्येवमयथार्था, तथा आमन्त्रणीप्रभृतिका विधिप्रतिषेधाभ्यां न सत्यभाषावद्वस्तुनि नियतेत्यतः किमियं वक्तव्या स्यात् ? इति, उत्तरंतु 'हंता' इत्यादि। इदमत्र हृदयम्आश्रयिष्याम इत्यादिकाऽनवधारणत्वाद्वर्त्तमानयोगेनेत्येतद्विकल्पगर्भत्वादात्मनि गुरौ चैकार्थत्वेऽपि बहुवचनस्याऽनुमतत्वात्प्रज्ञापन्येव तथाऽऽमन्त्रण्यादिकाऽपि वस्तुनो विधिप्रतिषेधाविधायकत्वेऽपि या निरवापुरुषार्थसाधनी सा प्रज्ञापन्येवेति। भ०१० श० 3 उ०। सत्याऽऽदिभाषासे नणं भंते ! मण्णामीति ओहारिणी भासा चिंतेमीति ओहारिणी मासा, अह मण्णमीति ओहारिणी भासा अह चिंतेमीति ओहारिणी भासा तह मण्णमीति ओहारिणी भासा तह चिंतेमीति ओहारिणी भासा? हंता ! गोयमा ! मण्णामीति ओहारिणी भासा चिंतेमीति ओहारिणी भासा अह मण्णामीति ओहारिणी भासा अह चिंतेमीति ओहारिणी भासा तह मण्णामीति ओधारिणी भासा तह चिंतेमीति ओधारणी भासा। ‘से णूणं भंते ! मण्णामि इति ओहारणी भासा' इत्यादि, से' शब्दोऽथशब्दार्थः, स च वाक्योपन्यासे, नूनमुपमानावधारणत प्रश्नहेतुषु इहावधारणे, भदन्त ! इत्यामन्त्रणे, मन्ये-अवबुध्ये इतिएवं, यदुत अबधारणी भाषा अवधार्यते-अवगम्यतेऽर्थोऽनयेत्यवधारणी-अवबोधबीजभूता इत्यर्थः, भाष्यते इति भाषा, तद्योग्यतया परिणामितनिसृज्यमानद्रव्यसंहतिः, एष पदार्थः वाक्यार्थः पुनरयम अथ भदन्त ! एवमहं मन्ये , यदुतावश्यमवधारिणी भाषेति, न चैतत् सकृदनालोच्यैव मन्ये, किंतु चिन्तयामि युक्तिद्वारेणाऽपि परिभावयामीति-एवं यदुत अवधारणीयं भाषेति. एवमात्मीयमभिप्रायं भगवते निवेद्याधिकृतार्थविनिश्चयनिमित्तमेवं भगवन्तं पृच्छति- (अह मण्णामी इइ ओहारिणी भासा इति) 'अथशब्दः प्रक्रियाप्रश्नाऽऽनन्तर्यमङ्गलोपन्यासप्रतिवचनसमु-चयेषु,' इह प्रश्ने, काक्वा चास्य सूत्रस्य पाठस्ततोऽयमर्थः- अथ भगवन्नेवमहं मन्ये एवमहं मननं कुर्यां , यथा अवधारिणी भाषेति द्वितीयाभिप्रायनिवेदनमधिकृत्य प्रश्रमाह- (अह चिंतेमि ओहा-रिणी भासा इति) अथ भगवन् ! एवमहं चिन्तयामि एवमहं चिन्तनं कुर्या , यदुतावधारिणी भाषेति निरवद्यमेतदित्यभिप्रायः, सम्प्रति पृच्छासमयात् यथा पूर्व मननं चिन्तनं वा कृतवानिदानीमपि पृच्छासमये तथैव मनन चिन्तनं वा करोमि नान्यथेति भगवतो ज्ञानेन संवादयितुकामः पृच्छति- (तह मन्नामी इति ओहारिणी भासा तह चिंतेमीति ओहारिणी भासा इति) 'तथेति समुच्चयनिर्देशावधारणसादृश्यप्रश्रेषु' इह निर्देशे, काक्वा चास्यापि पाठः, ततः प्रश्रार्थत्वावगतिः, भगवन् ! यथा पूर्व मतवानिदानीमप्यहं तथा मन्ये इति-एवं यदुत अवधारिणी भाषेति / किमुक्तं भवति? नेदानीन्तनमननस्य पूर्वमननस्य च मदीयस्य कश्चिद्विशेषोऽस्त्येतत् भगवन्निति; तथा यथा पूर्व भगवन् ! चिन्तितवान् इदानीमप्यहं तथा चिन्तयामि इति-एवं यदुत अवधारणी भाषेति, अस्त्येत-दिति ? एवं गौतमेनाभिप्रायनिवेदने प्रश्रे चकृते भगवानाह- 'हंता गोयमा ! मन्नामी इति ओहारिणी भासाइति,' 'हन्तेति सम्प्रेषणप्रत्यवधारणविवादेषु' इह प्रत्यवधारणे, मन्नामी इत्यादीनि क्रियापदानि प्राकृतशैल्या छान्दसत्वाच युष्मदर्थेऽपि प्रयुज्यन्ते, ततोऽयमर्थः- हन्त गौतम ! मन्यसे त्वं यदुत अवधारणी भाषेती जानाम्यहं केवलज्ञानेनेदमित्यभिप्रायः, तथा चिन्तयसि त्वमित्येवं यदुतावधारिणी भाषेति इदमप्यहं वेधि केवलित्वात्, (अह मन्नामी इति ओहारिणी भासा इति)अथेत्यानन्तर्ये मत्संमतत्वात्ऊर्द्धनिःशङ्कमन्यस्व, इति एवं यदुतावधारिणी भाषेति। अथ इत ऊर्द्ध निःशङ्क चिन्तय इति एवं
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy