SearchBrowseAboutContactDonate
Page Preview
Page 1532
Loading...
Download File
Download File
Page Text
________________ भासा 1524 - अभिधानराजेन्द्रः - भाग 5 भासा तथा च विगतविषया सत्यामृषा यथैकं ग्राममधिकृत्याऽस्मिन्नद्य दश वृद्धा विगता इत्यभिदधतस्तन्न्यूनाधिकभावे, एवं मिश्रका सत्यामृषा उत्पन्नविगतोभयसत्यामृषा, यथैक पत्तनमधिकृत्याऽऽहास्मिन्नद्य दश दारका जाता दश च वृद्धा विगता इत्यभिदधतस्तद्न्यूनाधिकभावे, जीवामिश्रा जीवविषया सत्यामृषा यथा जीवन्मृतकृमिराशौ जीवराशिरिति। अजीवमिश्रा च- अजीवविषया, सत्यामृषा यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति / जीवाजीवमितिजीवाजीवविषया सत्यामृषा यथा तस्मिन्नेव जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तद्न्यूनाधिकभावे / तथाऽनन्तमिश्रा खल्विति अनन्तविषया सत्यामृषा यथा मूलकन्दाऽऽदौ परीतपत्राऽऽदिमत्यनन्तकायोऽयमित्यभिदधतः, परीतमिश्रापरीतविषया सत्यामृषायथाऽनन्तकायलेशवति परीतम्लानमूलाऽऽदौ परीतोऽयमभिदधतः / अद्धामिश्राकालविषया सत्यामृषा यथा कश्चित्कस्मिंश्चित्प्रयोजने सहायाँस्त्वरयन् परिणतप्राये वासर एष रजनी वर्तत इति ब्रवीति / अद्धद्धमिश्रा च दिवसरजन्येकदेशः अद्धद्धोच्यते, तद्विषया सत्यामृषा यथा कस्मिँश्चित्प्रयोजने त्वस्यन् प्रहरमात्र एव मध्याह्न इत्याह ! एवं मिश्रशब्दः प्रत्येकमभिसंबध्यते इति गाथार्थः / उक्ता सत्यामृषा। साम्प्रतमसत्यामृषामाहआमंतणि आणवणी, जायणि तह पुच्छणी य पन्नवणी। पचक्खाणी भासा,भासा इच्छाणुलोमा य॥२७६।। आमन्त्रणी यथा हे देवदत्त ! इत्यादि, एषा किलाप्रवर्तकत्वात् सत्यादिभाषात्रयलक्षणवियोगतस्तथाविधदलोत्पत्तेरसत्याभूषेति एवमाज्ञापनी यथेदं कुरु, इयमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतः अदुष्टविवक्षाप्रसूतत्वादसत्यामृषेति। एवं स्वबुद्ध्याऽन्यत्रापि भावना कार्यति यावनी यथा- भिक्षां प्रयच्छति, तथा प्रच्छनी यथा कथमेतदिति, प्रज्ञापनी यथा हिंसाप्रवृत्तो दुःखिताऽऽदिर्भवति, प्रत्याख्यानी भाषा यथा अदित्सेति भाषा / इच्छानुलोमा च यथा केनचित् कश्चिदुक्तः साधुसकाशं गच्छाम इति।स आह-शोभनमिदमिति गाथाऽर्थः। अणमिग्गहिआ भासा, भासाय अभिग्गहम्मि बोधव्वा। संसयकरणी भासा, वायड अव्वायडा चेव / / 277 / / अनभिगृहीता भाषा अर्थमनभिगृह्य योच्यते डित्थाऽऽदिवत्, भाषा चाभिग्रहे बोधव्या-अर्थमभिगृह्य योच्यते घटाऽऽदिवत्, तथा च संशयकरणी च भाषा-अनेकार्थसाधारणा योच्यते सैन्धवमित्यादिवत् / / व्याकृतास्पष्टा प्रकटा देवदत्तस्यैष भ्रातेत्यादिवत् / अव्याकृता चैवअस्पष्टा अप्रकटार्था बालकाऽऽदीना थपनिकेत्यादिवदिति गाथार्थः / उक्ता असत्यामृषा। (4) साम्प्रतमोघत एवास्याः प्रविभागमाहसव्वा वि असा दुविहा, पज्जत्ता खलु तहा अपज्जत्ता। पढमा दो पज्जत्ता, उवरिल्ला दो अपज्जत्ता ! // 278 // सर्वाऽपि च 'मा' सत्याऽऽदिभेदभिन्ना भावा द्विविधाऽपर्याप्ता खलु, तथा अपर्याप्ता / पर्याप्ता या एकपक्षे निक्षिप्यते सत्या वा मृषा वेति तद्व्यवहारसाधनी, तद्विपरीता पुनरपर्याप्ता, अत एवाऽऽह- प्रथमे द्वे भावे सत्यामृषे प्रर्याप्ते, तथा स्वविषयव्यवहारसाधनात्, तथा उपरितने द्वे सत्यामृषाऽसत्यामृषाभाषे अपर्याप्त, तथा स्वविषयव्यवहारासाधनादिति गाथार्थः। उक्ता द्रव्यभावभाषा। (5) साम्प्रतं श्रुतभावभाषामाहसुयधम्मे पुण तिविहा, सच्चा मोसा असचमोसाय। सम्मद्दिट्ठी उसुओ-वउत्तु सो भासई सच्चं // 276 / / श्रुतधर्म इति श्रुतधर्मविषया पुनस्विविधा भावभाषा भवति। तद्यथासत्या, मृषा, असत्यामृषा चेति / तत्र सम्यग्दृष्टिस्तु सम्यगदृष्टिरेव, श्रुतोपयुक्त इत्यागमे यथावदुपयुक्तोयः स भाषते, सत्यम् आगमानुसारेण वक्तीति गाथार्थः। सम्मट्ठिी उ सुयम्मि, अणुवउत्तो अहेउगं चेव। जं भासई सा मोसा, मिच्छादिट्ठी वि अतहेव // 280 / / सम्यगदृष्टिरेव सामान्येन श्रुते आगमे अनुपयुक्तः प्रमादात् यत्किश्चित् अहेतुकं चैव युक्तिविकलं चैव यद्भाषते तन्तुभ्यः पट एव भवतीत्येवमादि सा मृषा, विज्ञानाऽऽदेरपि तत एव भावादितिः मिथ्यादृष्टिरपि तथैवेत्युपयुक्तोऽनुपयुक्तो वा यद्भाषते सा मृषैव, घुणाक्षरन्यायसंवादेऽपि सदसतोरविशेषाद्यदृच्छोपलब्धेरान्मत्तवदिति गाथार्थः। हवइ उ असचमोसा, सुयम्भि उवरिलए तिनाणम्मि। जं उवउत्तो भासइ, उत्तो वोच्छं चरित्तम्मि॥३८१।। भवतितु असत्यामृषा श्रुते आगम एव परावर्तनाऽऽदि कुर्वतस्तस्याssमन्त्रण्यादिभाषारूपत्वात् तथा उपरितने अवधिमनः पर्याय-केवललक्षणे, त्रिज्ञान इति ज्ञानत्रये यदुपयुक्तो भाषते सा असत्यामृषा, आमन्त्रण्यादिवत् तथाविधाध्यवसायप्रवृत्तेः, इत्युक्ता श्रुतभावभाषा। अत ऊर्द्ध वक्ष्ये चारित्र इति-चारित्रविषया भाव-भाषामिति गाथार्थः। पढमविइआ चरित्ते, भासा दो चेव होंति नायव्वा। सचरित्तस्स उभासा, सच्चामोसा उइअरस्स।।२८२॥ प्रथमद्वितीय सत्यामृषे, चारित्र इति चारित्रविषये भाषे द्वे एव भवतो ज्ञातव्ये; स्वरूपमाह- सचरित्रस्य चारित्रपरिणामवतः, तुशब्दाद् तबृद्धिनिबन्धनभूता च भाषा द्रव्यतस्तथाऽन्यथाभावेऽपि सत्या, सतां हितत्वादिति। मृषातु इतरस्य अचारित्रस्य तद्वृद्धिनिबन्धनभूता चेति गाथार्थः / दश०७ अ०२ उ०। भ०। प्रव० संथा०। स०ा बृला आव० दर्श०। नं० प्रतिविभागोपदर्शन भाषाविशेषान भाषणीयत्वेन प्रदर्शयितुमाहअह भंते ! आसइस्सामो सइस्सामो चिहिस्सामो निसीइस्सामो तुयट्टिस्सामो। "आमंतणि आणवणी, जायणि तह पुच्छणीय पण्णवणी। पचक्खाणी भासा, भासा इच्छाणुलोमा य / / 1 / / अणभिग्गहिया भासा, भासा य अभिग्गहम्मि बोद्धव्वा / संसयकरणी भासा, वोयडमव्वोयडा चेव / / 2 / / " पन्नवणी णं एसान एसा भासा मोसा? हंता ! गोयमा!
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy