SearchBrowseAboutContactDonate
Page Preview
Page 1509
Loading...
Download File
Download File
Page Text
________________ भाव 1501 - अभिधानराजेन्द्रः - भाग 5 भाव भावेन युतैः कलितैः पूर्वोक्तैः क्षायोपशमिकपारिणामिकौदयिकैरेव निष्पन्नस्य सांनिपातिकभावस्य गतिचतुष्कं प्रतीत्य चत्वारश्वतुःसंख्या भेदा भवन्तीति शेषः / तद्यथा-क्षायोपशमिकानीन्द्रियाणि, पारिणामिकं जीवत्वम्, औदयिकी नरकगतिः, औपशमिक सम्यक्त्वमित्येको नरकगत्याश्रितः चतुष्कसंयोगः / एवं तिर्यड्मनुष्यदेवगत्यभिलापेनत्रयो भङ्गा अन्येऽपि वाघ्याः / तदेवमभिहिता गतिचतुष्टयमाश्रित्यैकेन त्रिकसंयोगेन द्वाभ्यां चतु-ष्कसंयोगाभ्यां द्वादश विकल्पाः। संप्रतिशुद्धसंयोगत्रयस्वरूप शेष भेदत्रयं निरूपयिषुराह- (केवलिपरिणामुदय खइए त्ति) केवली मेवारलानी कामिणमिकौढयिकमायिके सानिपातिकभर्द त्रिकसोगरूप वर्तते / यतस्तस्य पारिणामिक जीवत्वाऽऽदि औदयिकी मनुजगतिः, क्षायिकाणि ज्ञानदर्शनचारित्राणि, तदेयमेकस्विकसंयोगः केवलिषु संभवतीति। खयपरिणामिसिद्धा, नराण पण जोगुवसमसेढीए। इय पन्नर संनिवाइयभेया वीसं असंभविणो॥६८।। सिद्धा निर्दिग्धसकलकर्मेन्धनाः क्षायिकपारिणामिके सांनिपातिकभेदे द्विकसंयोगरूपे वर्तन्ते / तथाहि- सिद्धानां क्षायिकं ज्ञानदर्शनाऽऽदि, पारणामिक जीवत्यमिति द्विकसंयोगो भवति / नराणां मनुष्याणां पञ्चकसंयोगः सांनिपातिकभेद उपशमश्रेण्यामेव प्राप्यते, यतो यः क्षायिकसम्यगदृष्टिर्मनुष्य उपशमश्रेणिं प्रतिपद्यते तस्यौपशमिक चारित्रं, क्षायिक सम्यक्त्वं, क्षायोपशमिकानीन्द्रियाणि, औदयिकी मनुजगतिः, पारिणामिक जीवत्वं, भव्यत्वं चेति / इत्यमुना दर्शितप्रकारेण गत्यादिषु संयोगषट्कचिन्तनलक्षणेन परस्परविरोधाभावेन संभविनः पञ्चदश सानिपातिकभेदाः षड्भावविकल्पाः प्ररूपिता इति शेषः। (वीस असभविणो त्ति) विंशतिसंख्याः संयोगाः असंभविनः प्ररूपणामात्रभावित्वेन नजीवेषु तेषां संभवोऽस्तीति। ननुषड्विंशतिभेदाः प्राक् प्रदर्शिताः, इह तु पञ्चदशानां विंशतेश्च मीलने पञ्चत्रिंशत्-संख्या भेदाः प्राप्नुवन्तीति कथं न विरोधः? अत्रोच्यते- ननु विस्मरणशीलो देवानांप्रियो यतोऽनन्तरमेवोदितं गत्यादिद्वारेणैव ते चिन्त्यमानाः पञ्चदश भवन्ति, मौला द्व्यादिसंयोगास्तु षडेव तथा होको द्विकसंयोगः द्वौ त्रिंकसंयोगौ, द्वौ चतुष्कसंयोगौ, एकः पञ्चकसंयोग इति षण्णां विंशत्या मीलने षड्विंशतिसंख्यैवोपजायते इति नात्र कश्चन विरोध इति॥६८ अभिहिताः सप्रभेदा जीवानामौपशमिकाऽऽदयो भावाः। (6) साम्प्रतमेतानेव कर्मविषये चिन्तयन्नाहमोहे व समो मीसो, चउघाइसु अट्ठकम्मसु य सेसा। घम्माइपारिणामियभावे खंधा उदइए वि॥६६॥ मोहे एव षष्ठीसप्तम्योरर्थ प्रत्यभेदाद् यथा वृक्षे शाखा वृक्षस्य शाखा, मोहनीयस्यैव कर्मणः शम उपशमोऽनुदयावस्था भस्मच्छन्नाग्नेरिव नतु / समस्तानां कर्मणां (मीसो चउघाइसु ति) मिश्रः क्षयोपसमस्तत्र क्षय उदयावस्थस्यात्यन्ताभावस्तेन सहोपशमोऽनुदयावस्था दरविध्यातवह्निवत् क्षयोपशमः, चतुषु चतुः संख्येषु घातिषु ज्ञानाऽऽदिगुणघातकेषु कर्मस्वित्युत्तरोक्तमत्रापि संबन्धनीयम्; ततः ज्ञानाऽऽवरणदर्शनाऽऽव रणमोहनीयान्तरायलक्षणानां धातिकर्मणामेव क्षयोपशमो भवति, न त्वाघातिकर्मणामिति। अष्टकर्मसु ज्ञानाऽऽवरणऽऽद्यन्तरायावसानेषु चः पुनरर्थे / अष्टसु-कर्मसु पुनः शेषा औदयिकक्षायिकपारिणामिकभावा भवन्ति / तत्रोदयो विपाकानुभवन, क्षयोऽत्यन्ताभावः, परिणामस्तेन तेन रूपेण परिणमनमित्यक्षरार्थः। भावार्थस्त्वयम् - मोहनीयकर्मणः पञ्चापि भावाः प्राप्यन्ते, मोहनीयवर्जितज्ञानाऽऽवरणदर्शनाऽऽवरणान्तसयलक्षणानां तु त्रयाणांघातिकर्मणामुदयक्षयक्षयोपश-मपरिणामस्वभावाश्चत्वार एव भावा भवन्ति न पुनरुपशमः। शेषाणां वेदनीयाऽऽयु - मगोत्रस्वरूपाणां चतुमिप्यघातिकर्मणामुदयक्षयपरिणामलक्षणास्वय एव भावा भवन्ति, न तु क्षयोपशमापशमावति प्रतिपादिता जावा तदाश्रितकर्मसु च पञ्चापि भावाः। अधुना तानजीवेषु विभणिषुराह(धम्माह इत्यादि) इह पदैकदेशे पदसमुदायोपचाराद् धर्मस्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्रलास्तिकायः, कालद्रव्यं चेति परिग्रहः / (कर्म० 4 कर्म०) (धर्मास्तिकायव्याख्या 'धम्मत्थिकाय' शब्दे चतुर्थभागे 1718 पृष्ठे गता) (अधर्मास्तिकायव्याख्या अधम्मत्थिकाय' शब्दे प्रथमभागे 567 पृष्ठे गता) (आकाशास्तिकायः 'आगासत्थिकाय' शब्दे द्वितीय भागे 18 पृष्ठे गतः) (पुगलास्तिकायः 'पोग्गलत्थिकाय' शब्देऽस्मिन्नेव भागे 1106 पृष्ठे गतः)(कालद्रव्यम्'कालदव्व' शब्दे तृतीय भागे 461 पृष्ठे निरूपितम्) ततो धर्मास्तिकायाधर्मास्तिकायाऽऽकाशास्ति कायपुद्गलास्तिकायकालद्रव्याणि पारिणामिके तेन तेन रूपेण परिणमनस्वभावे पर्यायविशेषे, वर्तन्त इति शेषः / तथाहि- धर्माधर्माऽऽकाशास्तिकायानामनादिकालादारभ्य जीवानां पुद्गलानां च गतिस्थित्युपष्टाभावकाशदानपरिणामेन परिणतत्वादनादिपारिणाभिकभाववर्तित्वं, कालरूपसमयस्याप्यपरापरसमयोत्पत्ति तयाऽवलिकाऽऽदिपरिणामपरिणतत्वादनादिपारिणामिकभाववर्तित्वमेव, व्यणुकाऽऽदिस्कन्धानां सादिकालात्तेन तेन स्वभार्वन परिणामाद् सादिपारिणामिकत्वमेवानादिस्कन्धानांत्वनादिकालात्तेन तेन रूपेण परिणामादनादिपारिणामिकभाववर्तित्वं चेति। आह- किं सर्वेऽप्यजीवाः पारिणामिक एव भावे वर्तन्ते, आहो-स्वित् केचिदन्यस्मिन्नपीत्याह(खंधा उदये विति) स्कन्धा अनन्तपरमाण्वात्मका न तु केवलाणवः, तेषां जीवेनाग्रहणात्। औदयिकेऽप्योदयिकभावेऽपिन केवलं पारिणामिक इत्यपिशब्दार्थः। तथाहि-शरीरादिनामोदयजनित औदारिकाऽऽदिशरीरतयौदारिकाऽऽदीनां स्कन्धानामेवोदय इति भावः। उदय एवौदयिक इति व्युत्पत्तिपक्षे तु कर्मस्कन्धलक्षणेष्वजीवेष्वौदयिकभावो भवतीति भावः। तथाहि-क्रोधाऽऽद्युदये जीवस्य कर्मस्कन्धानामुदयस्तेषामेवीदयिकत्वमिति / नन्वेव कर्मस्कन्धाऽऽश्रिता औपशमिकाऽऽदयोऽपि भावाअजीवानां संभवन्त्यतः तेषामपि भणनं प्राप्नोति-सत्यं तेषामविवक्षितत्वात्, अत एव कैश्विदजीवानां पारिणामिक एव भावोऽभ्युपगम्यत इति। व्याख्याता अजीवाऽऽश्रिता अपि भावाः / कर्म० 4 कर्म०। प्रव०॥ (7) द्विविधभावमाहदुविहो य होइ भावो, लोइय लोउत्तरो समाणेणं / एक केको विय दुविहो, पसत्थओ अप्पसस्थो य / / 464||
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy