________________ बंधण 1237 - अभिधानराजेन्द्रः - भाग 5 बंधण ल्लब्ध कल्पनया रातरुपं च एतावति भागे वर्तन्ते आयुर्बन्धकाः शेषजीवाणां तदबन्धकानामित्यर्थः, ता किल लक्षाऽपेक्षया शतं संख्येयतमो भागोऽतो बन्धकेभ्योऽबन्धकाः संख्येयगुणा भवन्तीति। एतदेव भाव्यते-- "ज संसेजइभागो ठिइकालस्साऽऽउबंधकालो उ। तम्हा संखगुणा से, अबंधया बंधएहितो।।२८।।" (से ति) आयुषः / "सजोगऽप्पायबहुय, आहारगसव्वबंधगा थोवा। तस्सेव देसबंधा, संखगुणा ते य पुव्वुत्ता।।२६ / / तत्तो वेउव्वियस व्यबधगा दरिसिया असंखगुणा। जनसंखा देवाऽऽह, उववजंतेगसमएण।।३०।। तस्सव देसबंधा, असंखगुणिया हवंति पुव्वुत्ता। तेवगकम्माबंधा-ऽणतगुणिया य ते सिद्धा। 131 / / तत्तो उ अणतगुणा,ओरालियसव्वबंधगा होति। तस्सेव लओ बंधा, देसब्बंधा य पुवुत्ता।।३२।। तत्तो तेयगकम्मा-ण देसबंधा भवे विसेसऽहिया। ते चेवोरालियदे-सबंधगा होंति मेवन्ने।।३३।। जे तस्स सव्वबंधा, अबंधगा जेय नेरइयदेवा। एपहिसाहियाते.पूणाइके सव्वसंसारी।।३४।। वेउब्वियस्स तत्तो, अबंधगा साहिया विसेसेण। ते चेवइ नेरइया-इँविरहिया सिद्धसंजुत्ता।।३५ / / आहारगस्स तत्तो, अबंधगा साहिया विसेसेण / ते पुण के सव्वजिया, आहारगलद्धिए मोत्तु / / 36 / / " भ०८श०६उ०। कइविह णं भंते! बंधे पण्णते? गोयमा! दुविहे बंधे पण्णत्ते। तं जहा-इरियावहियाबंधे य, संपराइयबंधे य। (कइविहेत्यादि) (बंधे त्ति) द्रव्यतो निगडाऽऽदिबन्धो, भावतः कर्मबन्धः / इह च प्रक्रमात्कर्मबन्धोऽधिकृतः / (इरियाबहियाबंधेउ त्ति) ईयागमनं तत्प्रधानः पन्थामार्गःईर्यापथस्तत्रा भवमैर्यापथिक, केवलयोगप्रत्ययं कर्म, तस्य यो बन्धः, स तथा चैकस्य वेदनीयस्य। (संपराइयबंधे य त्ति) संपरेतिसंसारं पर्यटति एभिरिति संपरायाः कषायास्तेषु भवं सांपरायिकं कर्म, तस्य यो बन्धः स सांपरायिकबन्धः कषायप्रत्यय इत्यर्थः / स चावीतरागगुण स्थानकेषु सर्वेष्विति। भ०५ श० 8 उ01 ('इरियाबहियबंध' शब्दे 2 भागे 627 पृष्ट तद्वत्कव्यता। 'संपराइयबंध' शब्दे तद्वक्तव्यता च।) सहजं तु मलं विद्या-त्कर्मसंबन्धयोग्यताम् / आत्मनोऽनादिमत्वेऽपि, नायमेनां विना यतः / / 164 / / सहज तु सहजं पुनर्मलं विद्याज्-जानीयान, कामित्याह कर्मसंबन्धयोग्यतांज्ञानाऽऽवरणाऽऽदिकर्मसंश्लेषनिमित्त भावम्। कस्येत्याहआत्मनोजीवस्य / कुत इत्याह - अनादिमत्वेऽपि बन्धस्य न-नैवायं बन्धः, एना योग्यतां जीवस्य विनाऽन्तरेण, यतः-यस्मात्कारणात्किलानादिमान भावो गमनाऽऽदिर्ग कञ्चन हेतुं स्वस्वभावलाभे अपेक्षते, बन्धश्च प्रवाहापेक्षयैवाऽनादिमांस्ततो न जीवयोग्यतामन्तरेणैव उपप द्यतेऽन्यथाऽनेकदोषप्रसङ्गात्। एतदेव दर्शयतिअनादिमानपि शेष, बन्धत्वं नातिवर्तते। योग्यतामन्तरेणापि, भावेऽस्यातिप्रसङ्गता।।१६५।। अनादिमानपि हि आदिभूतबन्धकालविकलोऽपि प्रवाहापेक्षया किं पुनव्याक्तिमपेक्ष्याऽऽदिमानित्यपिहि शब्दार्थः। एवबन्धो, बन्धत्यं जीयेन गृह्यमाणकारर्मणवर्गणा पुद्रलरुपतया कृतकत्वम्, नातिवर्तते-अतिक्रामति। ततो यो वो बन्धः स स बध्यमान-योग्यतामपेक्षतः, यथा वस्त्रकम्बलाऽऽदीनां मजिष्ठालाक्षाऽऽदिरागरुपः, बन्धश्च जीवस्य कर्मणा संयोगस्तरमादवश्यं तयोर्योग्यतामपेक्षते इति / अत्रीय विपक्षे बाधामाह -योग्यता योग्यकषायपरिणतिरुपा मन्तरेणाऽपि विना किं पुनः प्राच्यप्राच्यतराऽऽदिबन्धमित्यपि शब्दार्थः / भावेसत्तायामस्य बन्धस्याभ्युपगम्यमानेऽति प्रसङ्गताऽतिव्याप्तेः सत्वमिति। इदमेव भावयतिएवं चानादिमान मुक्तो, योग्यताविकलोऽपि हि। बध्येत कर्मणा न्याया-तदन्यामुक्तवृन्दवत्॥१६६ / / एवं चातिप्रसङ्गे च सति, अनादिमान्मुक्तः सदा शिवरुपः परपरिकल्पितः। किमित्याह-योग्यताविकलोऽपि हि प्रस्तुत योग्यतारहितः, किं पुनस्तद्युक्त इत्यपिहिशब्दार्थः / बध्येत पारवश्यमानीयेत, कर्मणाsदृष्टसंज्ञेन, न्यायातयोग्यतावैकल्याऽऽदिविशेषलक्षणात्। दृष्टान्तमाह - "तदन्यामुक्तवृन्दवत् “तस्मादनादिमतो मुक्ताद्यदन्यदमुक्त वृन्दं संसारि जीवलक्षण तद्वत्। अत्रा पर :तदन्यकर्मविरहा-न चेत्तद्वन्ध इष्यते। तुल्ये तद्योग्यताभावे, न तु किं तेन चिन्त्यताम् ? ||167 / / दन्यकर्मविरहात्तस्मात्संप्रतिबन्धुमिष्टाद्यदन्यत्प्राकालबद्धं कर्म तद्विरहात्, ने चेद्यदि, तद्बन्धस्तस्मादनादिमतो मुक्तस्य बन्ध इष्यते अभिमन्यते आचार्याः / तुल्ये-समाने सर्वजन्तुषु, तद्योग्यताभावे कर्मबन्धयोग्यताया विरहः / न त्विति परपक्षा-क्षमायाम्। किं प्रयोजन तेन प्राच्यकर्मबन्ध विरहेणोत्तरतया परिकल्पितेन, चिन्त्यतां-परिभाव्यतामेतत् / अयमभिप्रायः-यदि योग्यतामन्तरेणाऽपि शेषसंसारिणां कर्मबन्धोऽभ्युपगम्यते तदाऽनादिमुक्तेऽपि सोऽस्तु, उभयत्रोऽपि योग्यता विरहाविशेषात्। अथोपसंहरन्नाहतस्मादवश्यमेष्टव्या, स्वाभाविक्येव योग्यता। तस्यानादिमती सा च, मलनान्मल उच्यते // 168 // तरमाद्-अनादियुक्तकर्मबन्धप्रसङ्गाद्धेतोरवश्यं नियमेनेष्टव्या स्वाभाविक्येवस्वभावभूतैव योग्यता कर्मबन्धं प्रति। तस्याऽऽत्मनोऽनादिमती अनादिकालप्रवृत्ता। सा च योग्यता पुनर्मलनात् जीवस्वभावविष्कम्भणान्मल उच्यत इति। एनामेव तन्त्रान्तरमताऽऽविष्करणेन समर्थयमान आह दिदृक्षाभावबीजाऽऽदि-शब्दवाच्या तथा तथा। इष्टा चान्यैरपि ह्येषा, मुक्तिमार्गावलम्बिभिः / / 166 // पुरुषस्य प्रकृतिविकारान् द्रष्टु मिच्छा दिदृक्षा सांख्यानां,