________________ पुरेकम्म 1060- अभिधानराजेन्द्रः - भाग-५ पुला पुलाकिमिय पुं० (पुलाकृमिक) पायुप्रदेशोत्पन्नेषु कृमिषु जी०१ प्रति०। 'प्रज्ञा पुलाग पुं० (पुलाक) बल्लचणकाऽऽदिकेऽसारे, उत्त० 8 अ०। आचा० भ०। प्रथमे चारित्रिणि, दर्श० 4 तत्व। धन्नमसारं भन्नइ, पुलायसद्देण तेण जस्स समं। चरणं सो हु पुलाओ, लद्धीसेवाहिं सो य दुहा / / 730|| पुलाकशब्देन असारं निःसारं धान्यं तन्दुलकणशून्यं पलञ्जिरूप भण्यते, तेन पुलाकेन समं सद्दशं यस्य साधोश्चरणं चारित्रं भवति स पुलाकः, पुलाक इव पुलाक इति कृत्वा। अथमर्थः-तपःश्रुतहे कयोः संघाऽऽदिप्रयोजने सबलबाहनस्य चक्रवदिरपि चूर्णन समर्थाया लब्धेरूपजीवनेन ज्ञानाऽऽद्यतिचाराऽऽसेवनेनवा सकलसंयमसारगलनात्पलजिञ्जवन्निसारो यः स पुलाकः। स च द्विधा-लब्ध्या, सेक्या चा लब्धिपुलाकः, सेवापुलाकश्चेत्यर्थः। तालब्धिपुलाको देवेन्द्रर्द्धिसमसमृद्धिको लब्धिविशेषयुक्तः। यदाह-संघाइआण कजे, चुण्णेज्जा चक्कवट्टिमवि जीए। तीए लद्धीऍ जुओ, लद्धिपुलाओ मुणेयव्यो / / 1 / / " अन्ये त्वाहुरासेवनतो यो ज्ञानपुलाकस्तस्येयमीद्दशी लब्धिः, स एव च लब्धिपुलाको, न तद्व्यतिरिक्तः कश्चिदपर इति। आसेवापुलाकस्तु पञ्चविधः-ज्ञानपुलाकः, दर्शनपुलाकश्चारित्रपुलाकः, लिङ्गपुलाकः, यथासूक्ष्मपुलाकश्च / तत्रा स्खलितमलिनाऽऽदिभिरतिचारैज्ञानमाश्रित्याऽऽत्मानमसारं कुर्वन् ज्ञानपुलाकः एवं कुदृष्टिसंस्तवाऽऽदिभिदर्शनपुलाकः, मूलोत्तरगुणप्रतिषेधनया चारित्राविराधनकश्चपुलाकः, यथोत्कलिङ्गाधिक ग्रहणान्निः कारणान्यलिङ्गकरणाद्वा लिङ्ग पुलाकः, किञ्चित्प्रमादान्मनसा अकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाकः। अन्यत्रा पुनरेवमुक्तम्- "अहासुहुमो य एएसु चेव चउसु वि जो थोवथोयं विराहेइ त्ति।" प्रव०६३ द्वार। व्य०। पं०भा०राधा सूत्राबृ०॥ कल्प० / स्था०। उत्त। पुलाका:पुलाए पंचविहे पन्नते। तं जहा–णाणपुलाए, दंसणपुलाए, चरित्त, पुलाए, लिंगपुलाए, अहासुहुमपुलाए नाम पंचमे / 2 / पुलाकस्तन्दुलकणशून्या पलञ्जिस्तद्वत् यस्तपः श्रुतहेतुकायाः सघाऽऽदिप्रयोजने चक्रवादरपि चूर्णनसमर्थाया लब्धेरुपजीवनेन ज्ञानाऽऽद्यतिचाराऽऽसेवनेन वा संयमसाररहितः स पुलाकः। अत्रोक्तं जिनप्रेरितदागमात्-सद्वैवाप्रति पातिनो ज्ञानानुसारेण क्रियाऽनुष्ठायिनी लब्धिमुपजीवन्तो निर्ग्रन्थाः पुलाका भवन्तीति। स्था० 5 ठा०३ उ०। उत्ता (पुलाकस्य सर्वाणि द्वाराणि 'णिग्गंथ' शब्दे चतुर्थभागे 2034 पृष्ठे उक्तानि) पुलागभत्त न० (पुलाकभत्क)। निःसाराऽऽहारे, निष्पावाऽऽदिधान्ये निर्ग्रन्थ्याः पात्रो पुलाकभक्तं प्रतिगृहीतं स्यात् / वृ०॥ निग्गंधीए य गाहावइकुलं पिंडवायपडियाए अणुप्पविहाए अन्नयरे पुलागभत्ते पडिग्गाहिए सिया, सा य तेणेव संथरिज्जा, तओ कप्पइ से तदिवस तेणेव भत्तट्टेणं पजोसवित्तए, नो से कप्पइ दुचं पि गाहावइकुल पिंडवायपडियाए पविसित्तए, अह से य न संथरिजा, तओ से कप्पइ दुचं पि गाहावइकुलं पिंडवायपडियाए पविसित्तए / / 54|| अस्य संबन्धमाहपु (उ) त्तरिय पञ्चयट्ठा, सुत्तमिणं मा हु हुज्ज वहिभावो। जससंरक्खणमुभए, सुत्तारंभो उ वइणीए।।३६५।। लोकोत्तरिका (नां) नाम परिणामकाति परिणामकाना प्रत्ययार्थं सूत्र मिदमनन्तरमुक्तं, मा तेषां बहिर्भावो भवेदितिकृत्वा। अयं तु व्रतिनीविषयः प्रस्तुत सूत्र स्याऽरम्भं उभये लोके लोकोत्तरे च यशःसंरक्षणार्थ क्रियतें। अनेन संबन्धेनाऽऽयातस्यास्य (45 सूत्रस्य) व्याख्यानिन्थ्या गृहपतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टाया अन्यरत् धान्यगन्धरसफलकानां वल्लविकटदुग्धाऽऽदिरुपाणामेकतरं पुलाकभक्तं प्रतिगृहीतं स्यात्, सा च तेनैव भक्तेन संस्तरेत् दुर्भिक्षाऽऽद्यभावानिर्वहेत् / ततः कल्पते तस्याः तदिवसं तेनैव भक्तार्थेन पर्युषितं निर्वाहयितु नो (से) तस्याः कल्पते द्वितीयमपि वारं गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुम। अथास्या न संस्तरेत्, ततः कल्पते तस्या द्वितीयमपि वारं गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुम् / इति सूत्रार्थः। अथ नियुक्तिभाष्यविस्तरःतिविहं होइ पुलागं, धण्णे गंधे य रसपुलाए य। चउगुरुगाऽऽयरियाई,समणीणुद्धदरग्गहणे // 366 / / त्रिविध पुलाकं भवति। तद्यथा-धान्यपुलाकं, गन्धपुलाकं रसपुलाकं चेति। एतत्सूत्रमाचार्यः प्रवर्त्तिन्या न कथयति चतुर्गुर, आदिशब्दात्प्रवर्तिनी निर्गन्थीनां न कथयति चतुर्गरु, निन्थ्यो न प्रतिशृण्वन्ति मासलघु, श्रमणीनामप्यूर्दू दरेसुभिक्षे पुलाकं गृह्यतीनां चतुर्गुरु / अथ त्रीण्यपि धान्यपुलाकाऽऽदीनि व्याचेष्ट - निप्फाबाई धण्णा, गंधे वादिगपलंडुलसुणाई। खीरं तु रसपुलाओ, चिचिणिदक्खारसाई य॥३६७॥ निष्पावा वल्लास्तदादीनि धान्यानि पुलाकं तथा 'वाइगं' विकट, पलाण्डुलसुनेच प्रतीते, तदादीनि यान्युत्कटगन्धानि तद् गन्धपुलाकम्, यत्पुनः क्षीरं, ये च चिञ्चिणिकाया गोस्तनिकाया रसोवा आदिशब्दादपरमपि यद् भुल्कमतीसारयति तत्सर्वमपि रसपुलाकम्। अथ किमर्थमेतानि पुलाकान्युच्यन्ते? इत्याहआहारिया आसारा, करेंति वा संजमाउ णिस्सारं। निस्सारं च पवयणं, दटुं तस्सेविणिं बिंति॥३६८|| इह पुलाकमसारमुच्यते, तत आहारितानि वल्लाऽऽदीनि यतोऽसारणि सन्ति ततः पुलाकानि भण्यन्ते, संयमाद्वा संयममङ्गीकृत्य यतः क्षीराऽऽदीनि निस्सारां साध्वीं कुर्वन्ति, ततस्तान्यपि पुलाकानि, प्रवचनं वा निस्सारं, तेषां विकटाऽऽदीनां सेवनशीला संयतीं दृष्टवा जना ब्रुवते ततस्तानि पुलाकान्युच्यन्ते। पशुदोषानाहआणाइणो य दोसा, विराहणा मज्जगंधमय खिंसा। निग्गहणे गेलण्णं, पडिगमणाईणि लज्जाए॥३६६।। एषां त्रयाणामपि पुल कानां ग्रहणे आज्ञाऽऽदयो दोषाः विराधना संयमाऽऽत्मविषया भवति, तथा गन्धपुलाके पीते सति मद्यगन्धमाघाय मदविहला वा नां दृष्टा लोक: खि