SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2307 - अभिधानराजेन्द्रः - भाग 4 तित्थयर तानि, हिंसाऽऽदिभ्यः सर्वतो निवृत्तिरूपत्वात्। इति गाथार्थः / / / 275 / / अथ श्राद्धानां त्रीणि गुणव्रतान्याह-(दिसिविरई भोगु-वभो-गमाण तहऽणत्थदंडविरई यत्ति) दिग् विरतिः६, भोगोप-भोगमानं 7, तथाऽनर्थदण्डविरतिश्चेति त्रीणि गुणव्रतानि / अथ चत्वारि शिष्यव्रतान्याह-(समइय देसऽवगासिअ पोसह तिहि संविभागक्या) सामायिकम् 6, देशावकाशिकम् 10, पौषधः 11, अतिथिसंविभागः 12 / एतानि व्रतानि गृहमेधिनां ज्ञेयानीति गाथार्थः / / 276 / / सत्त० 127 द्वार। साधुव्रतसंख्यासाहुगिहीण वयाई, कमेण पण वार पढमचरिमाणं / अन्नेसिंचउ बारस, चउत्थपंचमवएगत्ता / / 274 / / श्रीऋषभतीर्थे, श्रीवीरस्य तीर्थे च साधूनां पञ्च महाव्रतानि, श्राद्धानां द्वादश व्रतानि, (अन्नेसिं चउ बारस चउत्थपंचमवएगत्ता) अन्येषा द्वाविंशतिजिनाना तीर्थे चत्वारि व्रतानि साधूनां, श्राद्धाना द्वादश व्रतानि / कस्मात्? चतुर्थपञ्चमव्रतेकत्वात् चतुर्थपञ्चमव्रतयोरेकत्वाद् भेदात्, परिग्रहप्रत्याख्याने कृते स्त्रीप्रत्याख्यानं कृतमेव, स्त्रीणामपि परिग्रहरूपत्वात, परिग्रहमन्तरेणाऽसंभवाच / / इति गाथार्थः / / 274 / / सत्त०१२७ द्वार। (122) अथ तीर्थकरमातुः चतुर्दश स्वप्नानाहगय वसह सीह अभिसे-य दाम ससि दिणयरं झयं कुंभ। पउमसर सागर विमाण भवण रयणऽग्गि सुविणाई 70 / / गजः 1, वृशभः 2, सिंह 3. लक्ष्म्या अभिषेकः ४.(दाम ससि दिणयरं झयं कुंभ) पुष्परस्त्रक् 5, चन्द्र 6, दिन करोतीति दिनकरः सूर्यः७,ध्वजः, 8 कुम्भः पूर्णकलशः 6, (पउमसरसागरविमाण) पद्मसरः 10, सागरः समुद्रः 11, विमानम् 12 // (भवणरयणऽगि सुविणाई ति) भवनम 12, रत्नोपचयः 13. निधूमाग्निश्चेति 14 स्वप्ना ज्ञेयाः। इति गाथार्थः / / 70 / / स्वप्नाकारणान्याहनरयउवट्टाण इह, भवणं सग्गचुयाण उ विमाणं। वीरुसहसेसजणणी, नियंसु ते हरिविसहगयाइँ / 71 / / नरकोट्टताना नरकादागताना जिनाना जननी अत्र भवनं पश्यति, (सग्गचुआण उ विमाणं) स्वर्गाच्च्युतानां तु जननी स्वप्ने विमान पश्यति। (वीरुसहसेसजणणी) जननीशब्दः प्रत्येकमभिसंबध्यते। वीरजननी 1, ऋषभजननी 2, शेषजिनानां च जनन्यः 22, (निअंसुते हरिवसहगयाइं) ददृशुस्तान् स्वप्नान् सिंह 1 वृषभ२ गजा२२दीनवीरजननी पूर्व सिंह ददर्श, ऋषभवेदस्य जननी पूर्व वृषभं ददर्श, शेषजिनानां जनन्यः पूर्व गजं ददृशुः / इति गाथार्थः / / 71 / / दुनरयकप्पगिविजा, हरी अनिरमविमाणएहिं जिणा। पढमा चक्कि दुनरया, बला चउसुरेहि चकिबला॥७२।।। द्विनरकादागताः-द्वादशकल्पादागताः ग्रैवेयकादागताच हरयो वासुदेवा भवन्तीति / (निरयविमाणएहि जिणा) प्रथमद्वितीयतृतीयनरकादागताश्व तीर्थड्रा भवन्ति। प्रथमनरकादागताश्चक्रिणो भवन्ति। (दुनरया बला) द्विनरकादागताश्च बलदेवा भवन्ति / (चउसुरेहिं चक्किबला) भवनपतिव्यन्तरज्योतिष्कवैमानिका-सुरेभ्यः समागताश्चक्रिबलभद्रा भवन्तीति गाथार्थः / / 72|| जिणचक्कीण य जणणी, नियंति चउदस गयाइँ वरसुविणे। सगचउतिइगाइ हरी-बलपडिहरिमंडलियमाया।।७३।। (जिणचक्कीण य जणणि ति) जिनानां चक्रवर्तिनां च जनन्यः (नियंति चउदसगयाइ वरसुविणे) पश्यन्ति चतुर्दश गजाऽऽदीन् प्रधानस्वभान् (सगचउतिइगाइ हरी बलपडिहरिमंडलिअमाया) मातृशब्दस्य प्रत्येक योगात् सप्त हरिमातरः, चतुरो बलदेवमातरः, त्रीन् प्रतिवासुदेवमातरः, एकाऽऽदीन मण्डलिकमातरः, स्वप्नान् पश्यन्तीति गाथार्थः / / 73 / / सत्त०१८ द्वार। स्वप्नविचारकाःपढमस्स पिया इंदा, सेसाणं जयण-सुविणसत्थविऊ। अट्ठ वियारिंसु सुहे, सुविणे चउदस जणणिदिखे // 74 / / प्रथमस्य ऋपभजिनस्य पिता, तथा इन्द्राः स्वप्नान विचारयन्ति स्म। शेषजिनानां जनकाः, तथा स्वप्नशास्त्रविदो विप्राः, (अट्ट वियारिंसु त्ति) प्राकृतत्वाद् विभक्तिलोपाद् अर्थेन विचारयन्ति स्म। कान्? (सुहे सुविणे ति) शुभान् स्वप्नान् चतुर्दशसंख्याकान् / पुनः कथंभूतान् ? (जणणिदिट्ठ त्ति) जननिदृष्टान् मातृभिर्विलोकितान्। सत्त० 16 द्वार / ('वीर' शब्दोऽत्र विलोकनीयः) शेषश्रुतप्रवृत्तिकालः..............., सेससुअपवित्तिजा तित्थं / / 328 / / शेष इति पूर्वव्यतिरिक्तः श्रुतप्रवृत्तिः यावत् यस्य तीर्थङ्करस्य तीर्थ तावत्कालं स्थास्यति / सत्त०१६३ द्वार। तीर्थकरजीवानां नरके परमाधार्मिककृता पीडा भवति, नवेति? प्रश्ने, उत्तरम् अत्राप्येकान्तो ज्ञातो नास्ति ।६प्र०ाही०३प्रका० (123) जंबुद्दीवे णं दीवे उक्कोसपए चोत्तीसं तित्थयरा समुप्पज्जंति। (उको सपए चोत्तीसं तित्थगरा समुप्पाजंति त्ति) समुत्पद्यन्ते, सम्भवन्तीत्यर्थः; न त्वेकसमये जायन्ते, चतुमिवैकदा जन्मसंभ-वात्। तथाहि मेरी पूर्वापरशिलातलयोढ़े द्वे सिंहासने भवतोऽतो द्वावेव द्वावेवाभिषिच्यत, अतो द्वयोर्द्वयोरेव जन्मेति। दक्षिणोत्तरयोः क्षेत्रयोस्तदानी दिवससद्रावान्न भरतैरावतयोर्जिनोत्पत्तिः, अर्द्धरात्र एव जिनोत्पतेरिति / स०३४ सम० भरतक्षेत्रेऽतीतोत्सर्पिण्यां जिनेश्वराःकेवलनाणी निव्वाणि सागरो जिण महाजसो विमलो। सव्वाणुभूइ सिरिहर, दत्तो दामोयर सुतेओ।॥२६॥ सामिजिणो य सिवासी, सुमई सिवगइ जिणो य अत्थाहो। नाह नमीसर अनिलो, जसोहरो जिण कयग्यो य / / 261 / / धम्मीसर सुद्धमई सिवकर जिण संदणो य संपइय। ऽतीउस्सप्पिणिभरहे, जिणेसरे नामओ वंदे // 26 // केवलज्ञानी, निर्वाणी, सागरो जिनो, महायशाः, विमलो, नाथसुतेजाः / अन्ये सर्वानुभूतिमाहुः। श्रीधरो, दत्तः, दामोदरः, सुतेजाः, इति प्रथमगाथायां दश / स्वामिजिनः, चः समुचये। शिवासी। अन्ये मुनिसुव्रतमाहुः / सुमतिः 13, शिवगतिः 14, जिनः अस्ताघः१५, नाथः नमीश्वरः, अनिलो, यशोधरो जिनः कृतार्थश्च / द्वितीयगाथायामस्या नव // धर्मीश्वरः / केचिन्जिनेश्वरमाहुः / शुद्धमतिः, शिवकरजिनः, स्यन्दनश्च, सम्प्रतिजिनश्च। अतीतोत्सर्पिण्यां भारते जिनेश्वरानेतानामता वन्देऽमिति तृतीयगाथायां पञ्च जिनाः। प्रव०७ द्वार।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy