________________ तित्थयर 2282 - अमिधानराजेन्द्रः - भाग 4 तित्थयर प्राप्तः, एक महान्तं शलाकहस्तकं सरित्पर्णाऽऽदिशलाकासमुदाय, सरित्पर्णाऽऽदिशलाकामया सम्मार्जनीमित्यर्थः / वाशब्दो विकल्पार्थः / दण्डसपुंसनी दण्डयुक्तां सम्मार्जनी, वेणुशलाकिका वंशशलाकानिवृत्ता संमार्जनी गृहीत्वा राजाऽङ्गणं वा, राजाऽन्तः पुरं वा, देवकुलं वा, सभां वा-पुरप्रधानानां सुखं निवेशनहेतुमण्डपिकामित्यर्थः / प्रपा वा पानीयशालाम्, आरामं वा दम्पत्योर्नगराऽऽसन्नरतिस्थानम्, उद्यान वा क्रीडार्थाऽऽगतजनानां प्रयोजनाभावेनोवलम्बितयानवाहनाऽऽद्याश्रयभूतं तरुखण्डम्, अत्वरितमचपलमसंभ्रान्तम्, त्वरायां चापल्ये संभ्रमे वा सम्यक्कचवराऽऽद्यपगमासंभवात्। तत्र त्वरा मानसौत्सुक्य,चापल्य कायोत्सुक्यम्, संभ्रमश्च गतिस्खलनमिति / निरन्तरं, न तु अपान्तरालमोचनेन, सुनिपुणमल्पस्याप्यचोक्षस्यापसारणेन संप्रमाजयेदिति। अथोक्तदृष्टान्तस्य दान्तिकयोजनायाऽऽह-तथैवैता अपि योजनपरिमण्डलं योजनप्रमाणं वृत्तक्षेत्रं संप्रमार्जयन्तीति। यत्तत्र योजनपरिमण्डले, तृणं वा पत्र वा काष्ठ वा कचवरं वा अशुचि अपवित्रम्, अचोक्ष मलिन, पूतिकं दुरभिगन्धं, तत्सर्वमाधूय आधूय संचाल्य संचाल्य, एकान्ते योजनपरिमण्डलादन्यत्र एम-यन्त्यपनयन्ति, अपनीय-अर्थात् संवतकवातोपशमं विधाय च, यत्रैव भगवांस्तीर्थकरः, तीर्थकरमाता च तत्रैवोपागच्छन्ति, उपागत्य च भगवतस्तीर्थकरस्य तीर्थकरमातुश्च नातिदूरासन्ने आगायन्त्यः-आ ईषत स्वरेण गायन्त्यः प्रारम्भकाले मन्द्रस्वरेण गायमानत्वात्, परिगायन्त्यो गीतप्रवृत्तिकालानन्तरं तारस्वरेण गायन्त्यस्तिष्ठन्ति। अथोर्ध्वलोकवासिनीनामवसरःतेणं कालेणं तेणं समएणं उड्डलोगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरियाओ सएहिं सएहिं कूडे हिं सएहिं सएहिं भवणेहिं सएहिं सरहिं पासायवर्डसएहिं पत्ते पत्तेअं चउहिं सामाणिअसाहस्सीहिं एवं तं चेव पुव्ववण्णिअ०जाव विहरति। "तेण कालेण' इत्यादि व्यक्तं, नवरम् ऊर्द्धलोकवासित्वं चासां समभूतलात् पशशतयोजनोचनन्दनवनगतपश्चशतिकाऽष्टकूटवासित्वेन ज्ञेयम्। नन्वधोलोकवासिनीनां गजदन्तगिरिगतकूटाष्टके यथा कीडानिमित्तको वासः, तथैतासामप्यत्र भविष्यतीति चेद्, मैवम्, यथाऽधोलोकवासिनीनां गजदन्तगिरीणां गन्धभवनेषु वासः श्रूयते. तथैतासामश्रूयमाणत्वेन तत्र निरन्तरं वासः, ततश्चोर्द्धलोकवासित्वम्।। ताश्चेडा नामतः पद्मबन्धेनाऽऽह तं जहा"मेहंकरा मेहवई, सुमेहा मेहमालिणी। सुवच्छा यच्छमित्ता य, वारिसेणा बलाहगा" ||1|| मेघड्बारा, मेघवती, सुमेधा, मेघमालिनी, सुवत्सा, वत्समित्रा, चः समुच्चये। वारिषेणा, वलाहका। अथ तासां यद् वक्तव्यं तदाह / आसनानि चलन्तितए णं तासिं उद्धृलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरिआणं पत्तेअंपत्तेअं आसणाइंचलंति। एवं तं चेव पुव्ववण्णिअं भाणिअव्वं०जाव अम्हे णं देवाणुप्पिए !उड्डलोगवत्थव्वाओ अट्ठ | दिसाकुमारीमहत्तरिआओ भगवओ तित्थगरस्स जम्मण-महिमं करिस्सामो, तेणं तुडभेहिं ण भाइअव्वं ति कटु उत्तरपुरच्छिम दिसीभागं अवक्रमति, अवक्कमित्ता०जाव अब्भवद्दलए विउव्वंति, विउव्वित्ता०जावतं निहयरयं णट्ठरयं भट्ठरयं पसंतरयं उवसंतरयं करें ति, करेत्ता खिप्पामेव पचुवसमंति, एवं पुप्फवद्दलंसि पुप्फवासं वासंति, वासित्ताजाव कालागुरुपवर०जाव सुरवराभिगमणजोग्गं करेंति, करेत्ता जेणेव भयवं तित्थयरे, तित्थयरमाया य, तेणेव उवागच्छंति, उवाग-च्छित्ता जाव०आगायमाणीओ परिगायमाणीओ चिट्ठति।। "तएणतासिं उड्डलोगवत्थव्याणं'' इत्यादिव्यक्तम्, नवरंतदेव पूर्ववर्णित भणितव्य, कियत्पर्यन्तमित्याह-(०जाव अम्हे णमित्यादि) अत्र यावच्छब्दोऽवधिवाचको, न तु संग्राहकः। (अवक्कमित्ता०जाव त्ति) अत्र यावत्पदात् "वेउव्विअसमुग्धाएणं समोहणंति, समोहणित्ता०जाव दोचं पि वेउव्वियसमुग्धारण समो-हणति, समोहणित्ता / " इति बोध्यम् / अभ्रवादलकानि विकुर्वन्ति, अभ्र आकाशे वाः पानीयं तस्य दलकानि अभ्रवादलकानि, मेघानीत्यर्थः / (विउव्वित्ता०जाव ति) अत्र यावत्करणादिदं दृश्यम"से जहाणामए कम्मयरदारएजाव सिप्पोवगए एणं महंत दगबारगं या दगकुंभय वा दगथालगं वा दणकलसं वा दगभिंगार वा गहाय रायंगणं वाजाव उज्जाणं वा समता आवरिसिजा, एवमेवता अवि उड्डलोगवत्थव्याओ अट्ठदिसाकुमारीमहत्तरिआओ अब्भवद्दलए विउवित्ता खिप्पामेय पतणतणायंति, पतणतणाइत्ता खिप्पामेव पविजुआयंति, पविजुआइत्ता भगवओ तित्थगरस्स जम्मणभवणस्स सव्वओ समंता जोअणपरिमंडल णचोअर्गनाइमट्टिअंपविरलपफुसिरयरेणुविणासण दिव्वं सुरभिगंधोदयवासं वासंति।" अत्र व्याख्या-स यथा कर्मदारक इत्यादि प्राग्वद् व्याख्येयम्, एक महान्तं दकवारकं वा मृत्तिकामयजल भाजनविशेष, दककुम्भकं वा जलघट, दकस्थालक वा कांस्यादिमयं जलपात्रं, दककलशं वा, दकभृङ्गार वा गृहीत्वा राजाङ्गणं वा यावदुद्यानं वा आवर्षेत् समन्तात् सिञ्चेत् / "एवमेव ता अवि उड्डलोगवत्थव्वाओ' इत्यादि प्राग्वत् / क्षिप्रमेव (पतणतणायंति त्ति) अत्यन्तं गर्जन्तीत्यर्थः / गर्जित्वा च (पविजुआयति त्ति) प्रकर्षेण विद्युतं कुर्वन्तिः कृत्वा च भगवतस्तीर्थकरस्य जन्मभवनस्य सर्वतः समन्ताद्योजनपरिमण्डलं क्षेत्र यावत् अत्र नैरन्तर्ये द्वितीया, निरन्तरं योजनपरिमण्डले क्षेत्रे इत्यर्थः / नात्युदके नातिमृत्तिक यथा स्यात्तथा प्रकर्षण यावन्तो रेणवः स्थगिता भान्ति, तावन्मात्रेणोत्कर्षणेति भावः / उक्तप्रकारेण विरलानि घनेतराणि, घनभावेन कर्दमसम्भवात्, प्रस्पृष्टानि प्रकर्षवन्ति स्पर्शनानि, मन्दरपर्शनसंभवे रेणुस्थगनासम्भवात् , यस्मिन् वर्षे तत्प्रविरलप्रस्पृष्टम, अतएव रजसा श्लक्ष्णरेणुपुद्गलानां च स्थूलतममेतत्- पुद्गलानां विनाशनं, दिव्यमतिमनोहरं सुरभिगन्धोदकवर्ष वर्षन्ति, वर्षिया च / अथ प्रस्तुतसूत्रमनुश्रियते, तद्योजनपरिमण्डलक्षेत्र, निहतरजः, कुर्वन्तीति योगः / निहतं भूय उत्थानाभावेन मन्दीकृत रजो यत्र तत्तथा ! तत्र निहतत्वं रजसा क्षणमात्रमुत्थानाभावेनाऽपि संभवति तत अहनष्टरजः नष्ट सर्वथा अदृश्यीभूतं रजो यत्र तत्तथा। तथा भ्रष्ट पातोद्भूततया