________________ तित्थयर 2281- अभिधानराजेन्द्रः - भाग 4 तित्थयर चक्षुरसहकृतं नार्थप्रकाशकं, तेन भावचक्षुषा भगवानुपमीयते, तचामूर्तमिति। ततो विशेषमाह--मूर्तसय मूर्तिमतः, चक्षुर्गाह्यस्येत्यर्थः / सर्वजगजीवानां वत्सलस्योपकारकस्य / उक्तार्थ विशेषणद्वारेण हेतुमाहहितकारको मार्गो मुक्तिमार्गः सम्यग ज्ञानदर्शनचारित्ररूपः, तस्य देशिका उपदेशिका, दर्शिकेत्यर्थः। तथा विभ्वी सर्वभाषाऽनुगमनेन परिणमनात् सर्वव्यापिनी, सकल श्रोतृजनहृदयसंक्रान्ततात्पर्यार्था, एवं विधा वागृद्धिक संपत, तस्याः प्रभुः स्वामी. सातिशयवचनलब्धिक इत्यर्थः / तस्य। तथाऽत्र विशेषणस्य परनिपातः प्राकृतत्वात्। जिनस्य रागद्वेषजेतुः, ज्ञानिनः सातिशयज्ञानयुक्तस्य, नायकस्य धर्मवरचक्रवर्तिनः, बुद्धस्य विदिततत्त्वस्य, बोधकस्य परेषामावेदिततत्त्वस्य, सकललोकनाथस्य सर्वप्राणिवर्गस्य बोधिबीजाऽऽधानसंरक्षणाभ्यां योगक्षेम-- कारित्वात् / निर्ममस्य ममत्वरहितस्य, प्रबरकुलसमुद्रवस्य, जात्या अत्रियस्य, एवविधविख्यातगुणस्य लोकोत्तमस्य, यत्त्वमसि जननी, तत्त्वं धन्याऽसि पुण्यवत्यसि, कृतार्थाऽसि, वयं हे देवानुप्रिये ! अधोलोकवास्तव्या अष्टो दिक् कुमारीमहत्तरिकाः भगवतो जन्ममहिमां करिष्यामः, तेन युष्मामिर्न भेतव्यम्-असम्भाव्यमानपरजनाऽऽपातेऽस्मिन् रहःस्थाने इमा विसदृशजातीयाः किमिति शङ्काऽऽकुलं चेतो न कार्यमित्यर्थः / (ति कट्ट उत्तरपुरच्छिमं दिसीभागमित्यादि) इतिकृत्वा प्रस्तावादिदमुक्त्वा, ता एवोत्तरपौरस्त्यं दिगभागमपक्रामन्ति। अर्थतासामितिकर्त्तव्यमाहअवक्कमित्ता वेउटिवयसमुग्घाएणं समोहणंति, समोहणित्ता संखिजाइं जोअणाई दंडं निसिरंति, निसिरित्ता तं जहा रयणाणं०जाव संवट्टगवाए विउव्यिति, विउव्वित्ता तेणं सिवेणं मउएणं अणुभूएणं भूमितलविमलकरणेणं मणहरेणं सव्वोउअसुरहिकुसुमगंधाणुवासिएणं पिंडिमनीहारिमगंधुद्धरेणं तिरि पवाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समंता जोअणपरिमंडलं, से जहाणामए कम्मयरदारए सिआ०जाव तहेव जंतत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुइमचोक्खं पूइअं दुडिभगंधं, तं सव्वं आहुणिअ आहुणिअएगते एडेंति, एडित्ता जेणेव भगवं तित्थयरे तित्थयरमाया य, तेणेव उवागच्छंति, उवागच्छित्ता भगवओ तित्थयरस्स तित्थयरमायाए अ अदूरसामंते आगायमाणीओ परिगायमाणीओ चिट्ठति। अपक्रम्य च वैक्रियसमुद्घातेन समवघ्नन्ति, समवहत्य च संख्यातानि योजनानि दण्डं निसृजन्ति, निसृज्य च किं ताः कुर्वन्ति ? तदेवाऽऽहतद्यथा रत्नानाम् / यावत्पदात्-"वइराण वेरुलिआणं लोहिअवखाणं मसारगल्ल णं हंसगब्भाणं पुलयाणं सोगंधिआण जोईरसाणं अंजणाणं पुलयाण रयणाणं जायरूवाणं अंकाणं फलिहाणं रिद्वाणं अहावायरे पुग्गले परिसाडेइ, अहासुहुमे पुग्गले परिआएइ, दुचं वि वेउब्वियसमुग्धारण समोहणंति, समोहणित्ता।" इति पदसंग्रहः। एततसविस्तरव्याख्या पूर्व भरताभियोगिकदेवानां वैक्रियकरणाधिकारे कृता, तेन ततो ग्रह्या / वाक्ययोजनार्थ तु किश्चिलिख्यते-तेषां रत्नानां बादरान् पुद्गलान् परिशाट्य सूक्ष्मान् पुगलान गृह्णन्ति, पुनर्वे क्रियसमुद्घातपूर्वक संवर्त्तकवातान् विकुर्वन्ति। बहुवचनं चात्र चिकीर्षितकार्यरय सम्यक् - सिध्यर्थ पुनः पुनर्वातविकुर्वणाज्ञापनार्थम्। विकुर्व्य च तेन तत्कालविकुर्वितेन, शिवेनोपद्रवरहितेन, मृदुकेन भूमिसर्पिणा मारुतेन अनुभूतेन अनूर्द्धचारिणा, भूमितलविमलकरणेन मनोहरेण सर्वर्तुकानां षड ऋतुसम्भवानां सुरभिकुसुमानां गन्धेनानुवासितेन, पिण्डिमः पिण्डितः सन निर्हारो नातिदूरं विनिर्गमनशीलो यो गन्धः, तेन उद्धरण, बलिष्ठेनेत्यर्थः / तिर्यक् प्रवातेन तिर्यक् वातुमारब्धेन, भगवतस्तीर्थकरस्यजन्मभवनस्य सर्वतो दिक्षु समन्ताद्विदिक्षुयोजनपरिमण्डलम्, "स जहाणामएकम्मयरदारए सिआ०जाव'' इत्येतत् सूत्रैकदेशसूचितदृष्टान्तिकसूत्रान्तर्गतन "तहेव'' इति दार्शन्तिकसूत्र बलादायातेन संमार्जयतीतिपदेन सहान्वययोजना कार्या। तचेदं दृष्टान्तसूत्रम्"से जहाणाभए कम्मयरदारए सिआ तरुणे बलवंजुगवजुवाणे अप्पायंक थिरऽग्गहत्थो दढपाणिपाए पिटुंतरोरुपरिणए घणनिचिअवलिअवट्टखंधे चम्मेट्ठगदुहणमुढिअसमाहयनिचिअगत्ते उरस्सबलसमण्णागए तलजमलजुअलपरिघबाहू लंघणपवणजइणपमद्दणसमत्थे छेए दक्खे पट्ट कुसले मेहावी निउण सिप्पोवगए एगं महंतं सलागहत्थगं वा दंडसंपुच्छणिं वा वेणुसिलगिगं वा गहाय रायंगणं वा रायतेउरं वा देवकुलं वा सभवा पवंवा आरामं वा उजाणं वा अतुरिअमचवलमसंभंतं निरंतरं सुनिऊण सव्वा समंता संपडजिज त्ति।" स यथानामको यत् प्रकारनामकः कर्मकरदारकः स्याद् भवत। आसन्नमृत्युहिं दारको न विशिष्ट सामर्थ्यभाग भवतीत्याह--तरुणः प्रवर्द्धमानवयाः / स च बलहीनोऽपि स्यादित्यत आह-बलवान् / कालोपद्रवोऽपि विशिष्ट सामर्थ्य विघ्नहेतुरित्यत आह-युगं सुषमदुःषमाऽऽदिकालः, सोऽदुष्टो निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसो युगवान्। एवंविधश्च को भवति? युवा यौवनवयस्थः ईदृशोऽपि ग्लानः सन् निर्बलो भवत्यतः-अल्पातङ्कः, अल्पशब्दोऽवाभाववचनः, तेन निरातङ्क इत्यर्थः। तथा स्थिरः प्रस्तुतकार्यकरणेऽकम्पोऽग्रहस्तो हस्ताग्रं यस्यासौ तथा / दृढं निविडतरचयमापन्नं पाणिपादं यस्य स तथा। पृष्ठ प्रतीतम्, अन्तरे पार्श्वरूपे, उरू सक्थिनी, एतानि परिणतानि परिनिटितता गतानि यस्य स तथा, सुखाऽऽदिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः, अहीनाङ्ग इत्यर्थः / धननिचितौ निविडतरचयमापन्नी वलिताविव वलितो, हृदयाभिमुखौ जातावित्यर्थः / वृत्तौ स्कन्धौ यस्य स तथा। तथा चर्मेष्टकेन चर्मपरिणद्धकुट्टनोपकरणविशेषण द्रुघनेन घनन, मुष्टिक्या च मुष्ट्या समाहताः सन्तस्ताडिताःसन्तोये निचिता निविडीवृत्ताः प्रवहणप्रेष्यमाणवस्त्रग्रन्थिकाऽऽदयः, तद्वद् गात्रं यस्य तथा। उरसि भवमुरस्यमीदृशेनबलेन समन्वागतःअन्तरोत्साहवीर्ययुक्तः तलौ तालवृक्षी, तयोर्यमल समश्रेणिक ययुगल द्वयं, परिघश्चार्गला, तन्निभे तत् सदृश दीर्घसरलपीनत्वाऽऽदिना बाहू यस्य स तथा। लड् घने गर्ताऽऽदेरतिक्रमे, प्लवने मनाक विक्रमवति गमने, जवनेऽतिशीघ्रगमने, प्रमर्दने कठिनस्याऽपि वस्तुनश्चूर्णने समर्थः / छेकः कलापण्डिलः दक्षः कार्याणामविलम्बितकारी, प्रष्ठो वाग्मी, कुशलः सम्यक्रियापरिज्ञानवान्, मेधावी सवृत्त श्रुतदृष्टकर्मक्षः, निपुणशिल्पोपगतःनिपुणयथा भवत्येवं शिल्पक्रियासुकौशलमुपगतः